Click on words to see what they mean.

भर्तारं निहतं दृष्ट्वा लक्ष्मणं च महाबलम् ।विललाप भृशं सीता करुणं शोककर्शिता ॥ १ ॥
ऊचुर्लक्षणिका ये मां पुत्रिण्यविधवेति च ।तेऽस्य सर्वे हते रामेऽज्ञानिनोऽनृतवादिनः ॥ २ ॥
यज्वनो महिषीं ये मामूचुः पत्नीं च सत्रिणः ।तेऽद्य सर्वे हते रामेऽज्ञानिनोऽनृतवादिनः ॥ ३ ॥
वीरपार्थिवपत्नी त्वं ये धन्येति च मां विदुः ।तेऽद्य सर्वे हते रामेऽज्ञानिनोऽनृतवादिनः ॥ ४ ॥
ऊचुः संश्रवणे ये मां द्विजाः कार्तान्तिकाः शुभाम् ।तेऽद्य सर्वे हते रामेऽज्ञानिनोऽनृतवादिनः ॥ ५ ॥
इमानि खलु पद्मानि पादयोर्यैः किल स्त्रियः ।अधिराज्येऽभिषिच्यन्ते नरेन्द्रैः पतिभिः सह ॥ ६ ॥
वैधव्यं यान्ति यैर्नार्योऽलक्षणैर्भाग्यदुर्लभाः ।नात्मनस्तानि पश्यामि पश्यन्ती हतलक्षणा ॥ ७ ॥
सत्यानीमानि पद्मानि स्त्रीणामुक्त्वानि लक्षणे ।तान्यद्य निहते रामे वितथानि भवन्ति मे ॥ ८ ॥
केशाः सूक्ष्माः समा नीला भ्रुवौ चासंगते मम ।वृत्ते चालोमशे जङ्घे दन्ताश्चाविरला मम ॥ ९ ॥
शङ्खे नेत्रे करौ पादौ गुल्फावूरू च मे चितौ ।अनुवृत्ता नखाः स्निग्धाः समाश्चाङ्गुलयो मम ॥ १० ॥
स्तनौ चाविरलौ पीनौ ममेमौ मग्नचूचुकौ ।मग्ना चोत्सङ्गिनी नाभिः पार्श्वोरस्कं च मे चितम् ॥ ११ ॥
मम वर्णो मणिनिभो मृदून्यङ्गरुहाणि च ।प्रतिष्ठितां द्वदशभिर्मामूचुः शुभलक्षणाम् ॥ १२ ॥
समग्रयवमच्छिद्रं पाणिपादं च वर्णवत् ।मन्दस्मितेत्येव च मां कन्यालक्षणिका विदुः ॥ १३ ॥
अधिराज्येऽभिषेको मे ब्राह्मणैः पतिना सह ।कृतान्तकुशलैरुक्तं तत्सर्वं वितथीकृतम् ॥ १४ ॥
शोधयित्वा जनस्थानं प्रवृत्तिमुपलभ्य च ।तीर्त्वा सागरमक्षोभ्यं भ्रातरौ गोष्पदे हतौ ॥ १५ ॥
ननु वारुणमाग्नेयमैन्द्रं वायव्यमेव च ।अस्त्रं ब्रह्मशिरश्चैव राघवौ प्रत्यपद्यताम् ॥ १६ ॥
अदृश्यमानेन रणे मायया वासवोपमौ ।मम नाथावनाथाया निहतौ रामलक्ष्मणौ ॥ १७ ॥
न हि दृष्टिपथं प्राप्य राघवस्य रणे रिपुः ।जीवन्प्रतिनिवर्तेत यद्यपि स्यान्मनोजवः ॥ १८ ॥
न कालस्यातिभारोऽस्ति कृतान्तश्च सुदुर्जयः ।यत्र रामः सह भ्रात्रा शेते युधि निपाथितः ॥ १९ ॥
नाहं शोचामि भर्तारं निहतं न च लक्ष्मणम् ।नात्मानं जननी चापि यथा श्वश्रूं तपस्विनीम् ॥ २० ॥
सा हि चिन्तयते नित्यं समाप्तव्रतमागतम् ।कदा द्रक्ष्यामि सीतां च रामं च सहलक्ष्मणम् ॥ २१ ॥
परिदेवयमानां तां राक्षसी त्रिजटाब्रवीत् ।मा विषादं कृथा देवि भर्तायं तव जीवति ॥ २२ ॥
कारणानि च वक्ष्यामि महान्ति सदृशानि च ।यथेमौ जीवतो देवि भ्रातरौ रामलक्ष्मणौ ॥ २३ ॥
न हि कोपपरीतानि हर्षपर्युत्सुकानि च ।भवन्ति युधि योधानां मुखानि निहते पतौ ॥ २४ ॥
इदं विमानं वैदेहि पुष्पकं नाम नामतः ।दिव्यं त्वां धारयेन्नेदं यद्येतौ गजजीवितौ ॥ २५ ॥
हतवीरप्रधाना हि हतोत्साहा निरुद्यमा ।सेना भ्रमति संख्येषु हतकर्णेव नौर्जले ॥ २६ ॥
इयं पुनरसंभ्रान्ता निरुद्विग्ना तरस्विनी ।सेना रक्षति काकुत्स्थौ मायया निर्जितौ रणे ॥ २७ ॥
सा त्वं भव सुविस्रब्धा अनुमानैः सुखोदयैः ।अहतौ पश्य काकुत्स्थौ स्नेहादेतद्ब्रवीमि ते ॥ २८ ॥
अनृतं नोक्तपूर्वं मे न च वक्ष्ये कदाचन ।चारित्रसुखशीलत्वात्प्रविष्टासि मनो मम ॥ २९ ॥
नेमौ शक्यौ रणे जेतुं सेन्द्रैरपि सुरासुरैः ।एतयोराननं दृष्ट्वा मया चावेदितं तव ॥ ३० ॥
इदं च सुमहच्चिह्नं शनैः पश्यस्व मैथिलि ।निःसंज्ञावप्युभावेतौ नैव लक्ष्मीर्वियुज्यते ॥ ३१ ॥
प्रायेण गतसत्त्वानां पुरुषाणां गतायुषाम् ।दृश्यमानेषु वक्त्रेषु परं भवति वैकृतम् ॥ ३२ ॥
त्यज शोकं च दुःखं च मोहं च जनकात्मजे ।रामलक्ष्मणयोरर्थे नाद्य शक्यमजीवितुम् ॥ ३३ ॥
श्रुत्वा तु वचनं तस्याः सीता सुरसुतोपमा ।कृताञ्जलिरुवाचेदमेवमस्त्विति मैथिली ॥ ३४ ॥
विमानं पुष्पकं तत्तु समिवर्त्य मनोजवम् ।दीना त्रिजटया सीता लङ्कामेव प्रवेशिता ॥ ३५ ॥
ततस्त्रिजटया सार्धं पुष्पकादवरुह्य सा ।अशोकवनिकामेव रक्षसीभिः प्रवेशिता ॥ ३६ ॥
प्रविश्य सीता बहुवृक्षषण्डां तां राक्षसेन्द्रस्य विहारभूमिम् ।संप्रेक्ष्य संचिन्त्य च राजपुत्रौ परं विषादं समुपाजगाम ॥ ३७ ॥
« »