Click on words to see what they mean.

युध्यतामेव तेषां तु तदा वानररक्षसाम् ।रविरस्तं गतो रात्रिः प्रवृत्ता प्राणहारिणी ॥ १ ॥
अन्योन्यं बद्धवैराणां घोराणां जयमिच्छताम् ।संप्रवृत्तं निशायुद्धं तदा वारणरक्षसाम् ॥ २ ॥
राक्षसोऽसीति हरयो हरिश्चासीति राक्षसाः ।अन्योन्यं समरे जघ्नुस्तस्मिंस्तमसि दारुणे ॥ ३ ॥
जहि दारय चैतीति कथं विद्रवसीति च ।एवं सुतुमुलः शब्दस्तस्मिंस्तमसि शुश्रुवे ॥ ४ ॥
कालाः काञ्चनसंनाहास्तस्मिंस्तमसि राक्षसाः ।संप्रादृश्यन्त शैलेन्द्रा दीप्तौषधिवना इव ॥ ५ ॥
तस्मिंस्तमसि दुष्पारे राक्षसाः क्रोधमूर्छिताः ।परिपेतुर्महावेगा भक्षयन्तः प्लवंगमान् ॥ ६ ॥
ते हयान्काञ्चनापीडन्ध्वजांश्चाग्निशिखोपमान् ।आप्लुत्य दशनैस्तीक्ष्णैर्भीमकोपा व्यदारयन् ॥ ७ ॥
कुञ्जरान्कुञ्जरारोहान्पताकाध्वजिनो रथान् ।चकर्षुश्च ददंशुश्च दशनैः क्रोधमूर्छिताः ॥ ८ ॥
लक्ष्मणश्चापि रामश्च शरैराशीविषोमपैः ।दृश्यादृश्यानि रक्षांसि प्रवराणि निजघ्नतुः ॥ ९ ॥
तुरंगखुरविध्वस्तं रथनेमिसमुद्धतम् ।रुरोध कर्णनेत्राणिण्युध्यतां धरणीरजः ॥ १० ॥
वर्तमाने तथा घोरे संग्रामे लोमहर्षणे ।रुधिरोदा महावेगा नद्यस्तत्र प्रसुस्रुवुः ॥ ११ ॥
ततो भेरीमृदङ्गानां पणवानां च निस्वनः ।शङ्खवेणुस्वनोन्मिश्रः संबभूवाद्भुतोपमः ॥ १२ ॥
हतानां स्तनमानानां राक्षसानां च निस्वनः ।शस्त्राणां वानराणां च संबभूवातिदारुणः ॥ १३ ॥
शस्त्रपुष्पोपहारा च तत्रासीद्युद्धमेदिनी ।दुर्ज्ञेया दुर्निवेशा च शोणितास्रवकर्दमा ॥ १४ ॥
सा बभूव निशा घोरा हरिराक्षसहारिणी ।कालरात्रीव भूतानां सर्वेषां दुरतिक्रमा ॥ १५ ॥
ततस्ते राक्षसास्तत्र तस्मिंस्तमसि दारुणे ।राममेवाभ्यधावन्त संहृष्टा शरवृष्टिभिः ॥ १६ ॥
तेषामापततां शब्दः क्रुद्धानामभिगर्जताम् ।उद्वर्त इव सप्तानां समुद्राणामभूत्स्वनः ॥ १७ ॥
तेषां रामः शरैः षड्भिः षड्जघान निशाचरान् ।निमेषान्तरमात्रेण शितैरग्निशिखोपमैः ॥ १८ ॥
यज्ञशत्रुश्च दुर्धर्षो महापार्श्वमहोदरौ ।वज्रदंष्ट्रो महाकायस्तौ चोभौ शुकसारणौ ॥ १९ ॥
ते तु रामेण बाणौघः सर्वमर्मसु ताडिताः ।युद्धादपसृतास्तत्र सावशेषायुषोऽभवन् ॥ २० ॥
ततः काञ्चनचित्राङ्गैः शरैरग्निशिखोपमैः ।दिशश्चकार विमलाः प्रदिशश्च महाबलः ॥ २१ ॥
ये त्वन्ये राक्षसा वीरा रामस्याभिमुखे स्थिताः ।तेऽपि नष्टाः समासाद्य पतंगा इव पावकम् ॥ २२ ॥
सुवर्णपुङ्खैर्विशिखैः संपतद्भिः सहस्रशः ।बभूव रजनी चित्रा खद्योतैरिव शारदी ॥ २३ ॥
राक्षसानां च निनदैर्हरीणां चापि गर्जितैः ।सा बभूव निशा घोरा भूयो घोरतरा तदा ॥ २४ ॥
तेन शब्देन महता प्रवृद्धेन समन्ततः ।त्रिकूटः कन्दराकीर्णः प्रव्याहरदिवाचलः ॥ २५ ॥
गोलाङ्गूला महाकायास्तमसा तुल्यवर्चसः ।संपरिष्वज्य बाहुभ्यां भक्षयन्रजनीचरान् ॥ २६ ॥
अङ्गदस्तु रणे शत्रुं निहन्तुं समुपस्थितः ।रावणेर्निजघानाशु सारथिं च हयानपि ॥ २७ ॥
इन्द्रजित्तु रथं त्यक्त्वा हताश्वो हतसारथिः ।अङ्गदेन महामायस्तत्रैवान्तरधीयत ॥ २८ ॥
सोऽन्तर्धान गतः पापो रावणी रणकर्कशः ।ब्रह्मदत्तवरो वीरो रावणिः क्रोधमूर्छितः ।अदृश्यो निशितान्बाणान्मुमोचाशनिवर्चसः ॥ २९ ॥
स रामं लक्ष्मणं चैव घोरैर्नागमयैः शरैः ।बिभेद समरे क्रुद्धः सर्वगात्रेषु राक्षसः ॥ ३० ॥
« »