Click on words to see what they mean.

युध्यतां तु ततस्तेषां वानराणां महात्मनाम् ।रक्षसां संबभूवाथ बलकोपः सुदारुणः ॥ १ ॥
ते हयैः काञ्चनापीडैर्ध्वजैश्चाग्निशिखोपमैः ।रथैश्चादित्यसंकाशैः कवचैश्च मनोरमैः ॥ २ ॥
निर्ययू राक्षसव्याघ्रा नादयन्तो दिशो दश ।राक्षसा भीमकर्माणो रावणस्य जयैषिणः ॥ ३ ॥
वानराणामपि चमूर्महती जयमिच्चताम् ।अभ्यधावत तां सेनां रक्षसां कामरूपिणाम् ॥ ४ ॥
एतस्मिन्नन्तरे तेषामन्योन्यमभिधावताम् ।रक्षसां वानराणां च द्वन्द्वयुद्धमवर्तत ॥ ५ ॥
अङ्गदेनेन्द्रजित्सार्धं वालिपुत्रेण राक्षसः ।अयुध्यत महातेजास्त्र्यम्बकेण यथान्धकः ॥ ६ ॥
प्रजङ्घेन च संपातिर्नित्यं दुर्मर्षणो रणे ।जम्बूमालिनमारब्धो हनूमानपि वानरः ॥ ७ ॥
संगतः सुमहाक्रोधो राक्षसो रावणानुजः ।समरे तीक्ष्णवेगेन मित्रघ्नेन विभीषणः ॥ ८ ॥
तपनेन गजः सार्धं राक्षसेन महाबलः ।निकुम्भेन महातेजा नीलोऽपि समयुध्यत ॥ ९ ॥
वानरेन्द्रस्तु सुग्रीवः प्रघसेन समागतः ।संगतः समरे श्रीमान्विरूपाक्षेण लक्ष्मणः ॥ १० ॥
अग्निकेतुश्च दुर्धर्षो रश्मिकेतुश्च राक्षसः ।सुप्तघ्नो यज्ञकोपश्च रामेण सह संगताः ॥ ११ ॥
वज्रमुष्टिस्तु मैन्देन द्विविदेनाशनिप्रभः ।राक्षसाभ्यां सुघोराभ्यां कपिमुख्यौ समागतौ ॥ १२ ॥
वीरः प्रतपनो घोरो राक्षसो रणदुर्धरः ।समरे तीक्ष्णवेगेन नलेन समयुध्यत ॥ १३ ॥
धर्मस्य पुत्रो बलवान्सुषेण इति विश्रुतः ।स विद्युन्मालिना सार्धमयुध्यत महाकपिः ॥ १४ ॥
वानराश्चापरे भीमा राक्षसैरपरैः सह ।द्वन्द्वं समीयुर्बहुधा युद्धाय बहुभिः सह ॥ १५ ॥
तत्रासीत्सुमहद्युद्धं तुमुलं लोमहर्षणम् ।रक्षसां वानराणां च वीराणां जयमिच्छताम् ॥ १६ ॥
हरिराक्षसदेहेभ्यः प्रसृताः केशशाड्वलाः ।शरीरसंघाटवहाः प्रसुस्रुः शोणितापगाः ॥ १७ ॥
आजघानेन्द्रजित्क्रुद्धो वज्रेणेव शतक्रतुः ।अङ्गदं गदया वीरं शत्रुसैन्यविदारणम् ॥ १८ ॥
तस्य काञ्चनचित्राङ्गं रथं साश्वं ससारथिम् ।जघान समरे श्रीमानङ्गदो वेगवान्कपिः ॥ १९ ॥
संपातिस्तु त्रिभिर्बाणैः प्रजङ्घेन समाहतः ।निजघानाश्वकर्णेन प्रजङ्घं रणमूर्धनि ॥ २० ॥
जम्बूमाली रथस्थस्तु रथशक्त्या महाबलः ।बिभेद समरे क्रुद्धो हनूमन्तं स्तनान्तरे ॥ २१ ॥
तस्य तं रथमास्थाय हनूमान्मारुतात्मजः ।प्रममाथ तलेनाशु सह तेनैव रक्षसा ॥ २२ ॥
भिन्नगात्रः शरैस्तीक्ष्णैः क्षिप्रहस्तेन रक्षसा ।प्रजघानाद्रिशृङ्गेण तपनं मुष्टिना गजः ॥ २३ ॥
ग्रसन्तमिव सैन्यानि प्रघसं वानराधिपः ।सुग्रीवः सप्तपर्णेन निर्बिभेद जघान च ॥ २४ ॥
प्रपीड्य शरवर्षेण राक्षसं भीमदर्शनम् ।निजघान विरूपाक्षं शरेणैकेन लक्ष्मणः ॥ २५ ॥
अग्निकेतुश्च दुर्धर्षो रश्मिकेतुश्च राक्षसः ।सुप्तिघ्नो यज्ञकोपश्च रामं निर्बिभिदुः शरैः ॥ २६ ॥
तेषां चतुर्णां रामस्तु शिरांसि समरे शरैः ।क्रुद्धश्चतुर्भिश्चिच्छेद घोरैरग्निशिखोपमैः ॥ २७ ॥
वज्रमुष्टिस्तु मैन्देन मुष्टिना निहतो रणे ।पपात सरथः साश्वः पुराट्ट इव भूतले ॥ २८ ॥
वज्राशनिसमस्पर्शो द्विविदोऽप्यशनिप्रभम् ।जघान गिरिशृङ्गेण मिषतां सर्वरक्षसाम् ॥ २९ ॥
द्विविदं वानरेन्द्रं तु द्रुमयोधिनमाहवे ।शरैरशनिसंकाशैः स विव्याधाशनिप्रभः ॥ ३० ॥
स शरैरतिविद्धाङ्गो द्विविदः क्रोधमूर्छितः ।सालेन सरथं साश्वं निजघानाशनिप्रभम् ॥ ३१ ॥
निकुम्भस्तु रणे नीलं नीलाञ्जनचयप्रभम् ।निर्बिभेद शरैस्तीक्ष्णैः करैर्मेघमिवांशुमान् ॥ ३२ ॥
पुनः शरशतेनाथ क्षिप्रहस्तो निशाचरः ।बिभेद समरे नीलं निकुम्भः प्रजहास च ॥ ३३ ॥
तस्यैव रथचक्रेण नीलो विष्णुरिवाहवे ।शिरश्चिच्छेद समरे निकुम्भस्य च सारथेः ॥ ३४ ॥
विद्युन्माली रथस्थस्तु शरैः काञ्चनभूषणैः ।सुषेणं ताडयामास ननाद च मुहुर्मुहुः ॥ ३५ ॥
तं रथस्थमथो दृष्ट्वा सुषेणो वानरोत्तमः ।गिरिशृङ्गेण महता रथमाशु न्यपातयत् ॥ ३६ ॥
लाघवेन तु संयुक्तो विद्युन्माली निशाचरः ।अपक्रम्य रथात्तूर्णं गदापाणिः क्षितौ स्थितः ॥ ३७ ॥
ततः क्रोधसमाविष्टः सुषेणो हरिपुंगवः ।शिलां सुमहतीं गृह्य निशाचरमभिद्रवत् ॥ ३८ ॥
तमापतन्तं गदया विद्युन्माली निशाचरः ।वक्षस्यभिजग्नानाशु सुषेणं हरिसत्तमम् ॥ ३९ ॥
गदाप्रहारं तं घोरमचिन्त्यप्लवगोत्तमः ।तां शिलां पातयामास तस्योरसि महामृधे ॥ ४० ॥
शिलाप्रहाराभिहतो विद्युन्माली निशाचरः ।निष्पिष्टहृदयो भूमौ गतासुर्निपपात ह ॥ ४१ ॥
एवं तैर्वानरैः शूरैः शूरास्ते रजनीचराः ।द्वन्द्वे विमृदितास्तत्र दैत्या इव दिवौकसैः ॥ ४२ ॥
भल्लैः खड्गैर्गदाभिश्च शक्तितोमर पट्टसैः ।अपविद्धश्च भिन्नश्च रथैः सांग्रामिकैर्हयैः ॥ ४३ ॥
निहतैः कुञ्जरैर्मत्तैस्तथा वानरराक्षसैः ।चक्राक्षयुगदण्डैश्च भग्नैर्धरणिसंश्रितैः ।बभूवायोधनं घोरं गोमायुगणसेवितम् ॥ ४४ ॥
कबन्धानि समुत्पेतुर्दिक्षु वानररक्षसाम् ।विमर्दे तुमुले तस्मिन्देवासुररणोपमे ॥ ४५ ॥
विदार्यमाणा हरिपुंगवैस्तदा निशाचराः शोणितदिग्धगात्राः ।पुनः सुयुद्धं तरसा समाश्रिता दिवाकरस्यास्तमयाभिकाङ्क्षिणः ॥ ४६ ॥
« »