Click on words to see what they mean.

ततस्तमक्षोभ्यबलं लङ्कायां नृपतेश्चरः ।सुवेले राघवं शैले निविष्टं प्रत्यवेदयन् ॥ १ ॥
चाराणां रावणः श्रुत्वा प्राप्तं रामं महाबलम् ।जातोद्वेगोऽभवत्किंचित्सचिवांश्चेदमब्रवीत् ॥ २ ॥
मन्त्रिणः शीघ्रमायान्तु सर्वे वै सुसमाहिताः ।अयं नो मन्त्रकालो हि संप्राप्त इव राक्षसाः ॥ ३ ॥
तस्य तच्छासनं श्रुत्वा मन्त्रिणोऽभ्यागमन्द्रुतम् ।ततः संमन्त्रयामास सचिवै राक्षसैः सह ॥ ४ ॥
मन्त्रयित्वा स दुर्धर्षः क्षमं यत्समनन्तरम् ।विसर्जयित्वा सचिवान्प्रविवेश स्वमालयम् ॥ ५ ॥
ततो राक्षसमाहूय विद्युज्जिह्वं महाबलम् ।मायाविदं महामायः प्राविशद्यत्र मैथिली ॥ ६ ॥
विद्युज्जिह्वं च मायाज्ञमब्रवीद्राक्षसाधिपः ।मोहयिष्यामहे सीतां मायया जनकात्मजाम् ॥ ७ ॥
शिरो मायामयं गृह्य राघवस्य निशाचर ।मां त्वं समुपतिष्ठस्व महच्च सशरं धनुः ॥ ८ ॥
एवमुक्तस्तथेत्याह विद्युज्जिह्वो निशाचरः ।तस्य तुष्टोऽभवद्राजा प्रददौ च विभूषणम् ॥ ९ ॥
अशोकवनिकायां तु प्रविवेश महाबलः ।ततो दीनामदैन्यार्हां ददर्श धनदानुजः ।अधोमुखीं शोकपरामुपविष्टां महीतले ॥ १० ॥
भर्तारमेव ध्यायन्तीमशोकवनिकां गताम् ।उपास्यमानां घोराभी राक्षसीभिरदूरतः ॥ ११ ॥
उपसृत्य ततः सीतां प्रहर्षन्नाम कीर्तयन् ।इदं च वचनं धृष्टमुवाच जनकात्मजाम् ॥ १२ ॥
सान्त्व्यमाना मया भद्रे यमुपाश्रित्य वल्गसे ।खर हन्ता स ते भर्ता राघवः समरे हतः ॥ १३ ॥
छिन्नं ते सर्वतो मूलं दर्पस्ते निहतो मया ।व्यसनेनात्मनः सीते मम भार्या भविष्यसि ॥ १४ ॥
अल्पपुण्ये निवृत्तार्थे मूढे पण्डितमानिनि ।शृणु भर्तृबधं सीते घोरं वृत्रवधं यथा ॥ १५ ॥
समायातः समुद्रान्तं मां हन्तुं किल राघवः ।वानरेन्द्रप्रणीतेन बलेन महता वृतः ॥ १६ ॥
संनिविष्टः समुद्रस्य तीरमासाद्य दक्षिणम् ।बलेन महता रामो व्रजत्यस्तं दिवाकरे ॥ १७ ॥
अथाध्वनि परिश्रान्तमर्धरात्रे स्थितं बलम् ।सुखसुप्तं समासाद्य चारितं प्रथमं चरैः ॥ १८ ॥
तत्प्रहस्तप्रणीतेन बलेन महता मम ।बलमस्य हतं रात्रौ यत्र रामः सुलक्ष्मणः ॥ १९ ॥
पट्टसान्परिघान्खड्गांश्चक्रान्दण्डान्महायसान् ।बाणजालानि शूलानि भास्वरान्कूटमुद्गरान् ॥ २० ॥
यष्टीश्च तोमरान्प्रासंश्चक्राणि मुसलानि च ।उद्यम्योद्यम्य रक्षोभिर्वानरेषु निपातिताः ॥ २१ ॥
अथ सुप्तस्य रामस्य प्रहस्तेन प्रमाथिना ।असक्तं कृतहस्तेन शिरश्छिन्नं महासिना ॥ २२ ॥
विभीषणः समुत्पत्य निगृहीतो यदृच्छया ।दिशः प्रव्राजितः सर्वैर्लक्ष्मणः प्लवगैः सह ॥ २३ ॥
सुग्रीवो ग्रीवया शेते भग्नया प्लवगाधिपः ।निरस्तहनुकः शेते हनूमान्राक्षसैर्हतः ॥ २४ ॥
जाम्बवानथ जानुभ्यामुत्पतन्निहतो युधि ।पट्टसैर्बहुभिश्छिन्नो निकृत्तः पादपो यथा ॥ २५ ॥
मैन्दश्च द्विविदश्चोभौ निहतौ वानरर्षभौ ।निःश्वसन्तौ रुदन्तौ च रुधिरेण समुक्षितौ ॥ २६ ॥
असिनाभ्याहतश्छिन्नो मध्ये रिपुनिषूदनः ।अभिष्टनति मेदिन्यां पनसः पनसो यथा ॥ २७ ॥
नाराचैर्बहुभिश्छिन्नः शेते दर्यां दरीमुखः ।कुमुदस्तु महातेजा निष्कूजन्सायकैर्हतः ॥ २८ ॥
अङ्गदो बहुभिश्छिन्नः शरैरासाद्य राक्षसैः ।पातितो रुधिरोद्गारी क्षितौ निपतितोऽङ्गदः ॥ २९ ॥
हरयो मथिता नागै रथजालैस्तथापरे ।शायिता मृदितास्तत्र वायुवेगैरिवाम्बुदाः ॥ ३० ॥
प्रद्रुताश्च परे त्रस्ता हन्यमाना जघन्यतः ।अभिद्रुतास्तु रक्षोभिः सिंहैरिव महाद्विपाः ॥ ३१ ॥
सागरे पतिताः केचित्केचिद्गगनमाश्रिताः ।ऋक्षा वृक्षानुपारूढा वानरैस्तु विमिश्रिताः ॥ ३२ ॥
सागरस्य च तीरेषु शैलेषु च वनेषु च ।पिङ्गाक्षास्ते विरूपाक्षैर्बहुभिर्बहवो हताः ॥ ३३ ॥
एवं तव हतो भर्ता ससैन्यो मम सेनया ।क्षतजार्द्रं रजोध्वस्तमिदं चास्याहृतं शिरः ॥ ३४ ॥
ततः परमदुर्धर्षो रावणो राक्षसेश्वरः ।सीतायामुपशृण्वन्त्यां राक्षसीमिदमब्रवीत् ॥ ३५ ॥
राक्षसं क्रूरकर्माणं विद्युज्जिह्वं त्वमानय ।येन तद्राघवशिरः संग्रामात्स्वयमाहृतम् ॥ ३६ ॥
विद्युज्जिह्वस्ततो गृह्य शिरस्तत्सशरासनम् ।प्रणामं शिरसा कृत्वा रावणस्याग्रतः स्थितः ॥ ३७ ॥
तमब्रवीत्ततो राजा रावणो राक्षसं स्थितम् ।विद्युज्जिह्वं महाजिह्वं समीपपरिवर्तिनम् ॥ ३८ ॥
अग्रतः कुरु सीतायाः शीघ्रं दाशरथेः शिरः ।अवस्थां पश्चिमां भर्तुः कृपणा साधु पश्यतु ॥ ३९ ॥
एवमुक्तं तु तद्रक्षः शिरस्तत्प्रियदर्शनम् ।उपनिक्षिप्य सीतायाः क्षिप्रमन्तरधीयत ॥ ४० ॥
रावणश्चापि चिक्षेप भास्वरं कार्मुकं महत् ।त्रिषु लोकेषु विख्यातं सीतामिदमुवाच ह ॥ ४१ ॥
इदं तत्तव रामस्य कार्मुकं ज्यासमन्वितम् ।इह प्रहस्तेनानीतं हत्वा तं निशि मानुषम् ॥ ४२ ॥
स विद्युज्जिह्वेन सहैव तच्छिरो धनुश्च भूमौ विनिकीर्य रावणः ।विदेहराजस्य सुतां यशस्विनीं ततोऽब्रवीत्तां भव मे वशानुगा ॥ ४३ ॥
« »