Click on words to see what they mean.

सारणस्य वचः श्रुत्वा रावणं राक्षसाधिपम् ।बलमालोकयन्सर्वं शुको वाक्यमथाब्रवीत् ॥ १ ॥
स्थितान्पश्यसि यानेतान्मत्तानिव महाद्विपान् ।न्यग्रोधानिव गाङ्गेयान्सालान्हैमवतीनिव ॥ २ ॥
एते दुष्प्रसहा राजन्बलिनः कामरूपिणः ।दैत्यदानवसंकाशा युद्धे देवपराक्रमाः ॥ ३ ॥
एषां कोटिसहस्राणि नव पञ्चच सप्त च ।तथा शङ्खसहस्राणि तथा वृन्दशतानि च ॥ ४ ॥
एते सुग्रीवसचिवाः किष्किन्धानिलयाः सदा ।हरयो देवगन्धर्वैरुत्पन्नाः कामरूपिणः ॥ ५ ॥
यौ तौ पश्यसि तिष्ठन्तौ कुमारौ देवरूपिणौ ।मैन्दश्च द्विविदश्चोभौ ताभ्यां नास्ति समो युधि ॥ ६ ॥
ब्रह्मणा समनुज्ञातावमृतप्राशिनावुभौ ।आशंसेते युधा लङ्कामेतौ मर्दितुमोजसा ॥ ७ ॥
यावेतावेतयोः पार्श्वे स्थितौ पर्वतसंनिभौ ।सुमुखो विमुखश्चैव मृत्युपुत्रौ पितुः समौ ॥ ८ ॥
यं तु पश्यसि तिष्ठन्तं प्रभिन्नमिव कुञ्जरम् ।यो बलात्क्षोभयेत्क्रुद्धः समुद्रमपि वानरः ॥ ९ ॥
एषोऽभिगन्ता लङ्काया वैदेह्यास्तव च प्रभो ।एनं पश्य पुरा दृष्टं वानरं पुनरागतम् ॥ १० ॥
ज्येष्ठः केसरिणः पुत्रो वातात्मज इति श्रुतः ।हनूमानिति विख्यातो लङ्घितो येन सागरः ॥ ११ ॥
कामरूपी हरिश्रेष्ठो बलरूपसमन्वितः ।अनिवार्यगतिश्चैव यथा सततगः प्रभुः ॥ १२ ॥
उद्यन्तं भास्करं दृष्ट्वा बालः किल पिपासितः ।त्रियोजनसहस्रं तु अध्वानमवतीर्य हि ॥ १३ ॥
आदित्यमाहरिष्यामि न मे क्षुत्प्रतियास्यति ।इति संचिन्त्य मनसा पुरैष बलदर्पितः ॥ १४ ॥
अनाधृष्यतमं देवमपि देवर्षिदानवैः ।अनासाद्यैव पतितो भास्करोदयने गिरौ ॥ १५ ॥
पतितस्य कपेरस्य हनुरेका शिलातले ।किंचिद्भिन्ना दृढहनोर्हनूमानेष तेन वै ॥ १६ ॥
सत्यमागमयोगेन ममैष विदितो हरिः ।नास्य शक्यं बलं रूपं प्रभावो वानुभाषितुम् ॥ १७ ॥
एष आशंसते लङ्कामेको मर्दितुमोजसा ।यश्चैषोऽनन्तरः शूरः श्यामः पद्मनिभेक्षणः ॥ १८ ॥
इक्ष्वाकूणामतिरथो लोके विख्यात पौरुषः ।यस्मिन्न चलते धर्मो यो धर्मं नातिवर्तते ॥ १९ ॥
यो ब्राह्ममस्त्रं वेदांश्च वेद वेदविदां वरः ।यो भिन्द्याद्गगनं बाणैः पर्वतांश्चापि दारयेत् ॥ २० ॥
यस्य मृत्योरिव क्रोधः शक्रस्येव पराक्रमः ।स एष रामस्त्वां योद्धुं राजन्समभिवर्तते ॥ २१ ॥
यश्चैष दक्षिणे पार्श्वे शुद्धजाम्बूनदप्रभः ।विशालवक्षास्ताम्राक्षो नीलकुञ्चितमूर्धजः ॥ २२ ॥
एषोऽस्य लक्ष्मणो नाम भ्राता प्राणसमः प्रियः ।नये युद्धे च कुशलः सर्वशास्त्रविशारदः ॥ २३ ॥
अमर्षी दुर्जयो जेता विक्रान्तो बुद्धिमान्बली ।रामस्य दक्षिणो बाहुर्नित्यं प्राणो बहिश्चरः ॥ २४ ॥
न ह्येष राघवस्यार्थे जीवितं परिरक्षति ।एषैवाशंसते युद्धे निहन्तुं सर्वराक्षसान् ॥ २५ ॥
यस्तु सव्यमसौ पक्षं रामस्याश्रित्य तिष्ठति ।रक्षोगणपरिक्षिप्तो राजा ह्येष विभीषणः ॥ २६ ॥
श्रीमता राजराजेन लङ्कायामभिषेचितः ।त्वामेव प्रतिसंरब्धो युद्धायैषोऽभिवर्तते ॥ २७ ॥
यं तु पश्यसि तिष्ठन्तं मध्ये गिरिमिवाचलम् ।सर्वशाखामृगेन्द्राणां भर्तारमपराजितम् ॥ २८ ॥
तेजसा यशसा बुद्ध्या ज्ञानेनाभिजनेन च ।यः कपीनति बभ्राज हिमवानिव पर्वतान् ॥ २९ ॥
किष्किन्धां यः समध्यास्ते गुहां सगहनद्रुमाम् ।दुर्गां पर्वतदुर्गस्थां प्रधानैः सह यूथपैः ॥ ३० ॥
यस्यैषा काञ्चनी माला शोभते शतपुष्करा ।कान्ता देवमनुष्याणां यस्यां लक्ष्मीः प्रतिष्ठिता ॥ ३१ ॥
एतां च मालां तारां च कपिराज्यं च शाश्वतम् ।सुग्रीवो वालिनं हत्वा रामेण प्रतिपादितः ॥ ३२ ॥
एवं कोटिसहस्रेण शङ्कूनां च शतेन च ।सुग्रीवो वानरेन्द्रस्त्वां युद्धार्थमभिवर्तते ॥ ३३ ॥
इमां महाराजसमीक्ष्य वाहिनीमुपस्थितां प्रज्वलितग्रहोपमाम् ।ततः प्रयत्नः परमो विधीयतां यथा जयः स्यान्न परैः पराजयः ॥ ३४ ॥
« »