Click on words to see what they mean.

तद्वचः पथ्यमक्लीबं सारणेनाभिभाषितम् ।निशम्य रावणो राजा प्रत्यभाषत सारणम् ॥ १ ॥
यदि मामभियुञ्जीरन्देवगन्धर्वदानवाः ।नैव सीतां प्रदास्यामि सर्वलोकभयादपि ॥ २ ॥
त्वं तु सौम्य परित्रस्तो हरिभिर्निर्जितो भृशम् ।प्रतिप्रदानमद्यैव सीतायाः साधु मन्यसे ।को हि नाम सपत्नो मां समरे जेतुमर्हति ॥ ३ ॥
इत्युक्त्वा परुषं वाक्यं रावणो राक्षसाधिपः ।आरुरोह ततः श्रीमान्प्रासादं हिमपाण्डुरम् ।बहुतालसमुत्सेधं रावणोऽथ दिदृक्षया ॥ ४ ॥
ताभ्यां चराभ्यां सहितो रावणः क्रोधमूर्छितः ।पश्यमानः समुद्रं च पर्वतांश्च वनानि च ।ददर्श पृथिवीदेशं सुसंपूर्णं प्लवंगमैः ॥ ५ ॥
तदपारमसंख्येयं वानराणां महद्बलम् ।आलोक्य रावणो राजा परिपप्रच्छ सारणम् ॥ ६ ॥
एषां वानरमुख्यानां के शूराः के महाबलाः ।के पूर्वमभिवर्तन्ते महोत्साहाः समन्ततः ॥ ७ ॥
केषां शृणोति सुग्रीवः के वा यूथपयूथपाः ।सारणाचक्ष्व मे सर्वं के प्रधानाः प्लवंगमाः ॥ ८ ॥
सारणो राक्षसेन्द्रस्य वचनं परिपृच्छतः ।आचचक्षेऽथ मुख्यज्ञो मुख्यांस्तांस्तु वनौकसः ॥ ९ ॥
एष योऽभिमुखो लङ्कां नर्दंस्तिष्ठति वानरः ।यूथपानां सहस्राणां शतेन परिवारितः ॥ १० ॥
यस्य घोषेण महता सप्राकारा सतोरणा ।लङ्का प्रवेपते सर्वा सशैलवनकानना ॥ ११ ॥
सर्वशाखामृगेन्द्रस्य सुग्रीवस्य महात्मनः ।बलाग्रे तिष्ठते वीरो नीलो नामैष यूथपः ॥ १२ ॥
बाहू प्रगृह्य यः पद्भ्यां महीं गच्छति वीर्यवान् ।लङ्कामभिमुखः कोपादभीक्ष्णं च विजृम्भते ॥ १३ ॥
गिरिशृङ्गप्रतीकाशः पद्मकिञ्जल्कसंनिभः ।स्फोटयत्यभिसंरब्धो लाङ्गूलं च पुनः पुनः ॥ १४ ॥
यस्य लाङ्गूलशब्देन स्वनन्तीव दिशो दश ।एष वानरराजेन सुर्ग्रीवेणाभिषेचितः ।यौवराज्येऽङ्गदो नाम त्वामाह्वयति संयुगे ॥ १५ ॥
ये तु विष्टभ्य गात्राणि क्ष्वेडयन्ति नदन्ति च ।उत्थाय च विजृम्भन्ते क्रोधेन हरिपुंगवाः ॥ १६ ॥
एते दुष्प्रसहा घोराश्चण्डाश्चण्डपराक्रमाः ।अष्टौ शतसहस्राणि दशकोटिशतानि च ॥ १७ ॥
य एनमनुगच्छन्ति वीराश्चन्दनवासिनः ।एष आशंसते लङ्कां स्वेनानीकेन मर्दितुम् ॥ १८ ॥
श्वेतो रजतसंकाशः सबलो भीमविक्रमः ।बुद्धिमान्वानरः शूरस्त्रिषु लोकेषु विश्रुतः ॥ १९ ॥
तूर्णं सुग्रीवमागम्य पुनर्गच्छति वानरः ।विभजन्वानरीं सेनामनीकानि प्रहर्षयन् ॥ २० ॥
यः पुरा गोमतीतीरे रम्यं पर्येति पर्वतम् ।नाम्ना संकोचनो नाम नानानगयुतो गिरिः ॥ २१ ॥
तत्र राज्यं प्रशास्त्येष कुमुदो नाम यूथपः ।योऽसौ शतसहस्राणां सहस्रं परिकर्षति ॥ २२ ॥
यस्य वाला बहुव्यामा दीर्घलाङ्गूलमाश्रिताः ।ताम्राः पीताः सिताः श्वेताः प्रकीर्णा घोरकर्मणः ॥ २३ ॥
अदीनो रोषणश्चण्डः संग्राममभिकाङ्क्षति ।एषैवाशंसते लङ्कां स्वेनानीकेन मर्दितुम् ॥ २४ ॥
यस्त्वेष सिंहसंकाशः कपिलो दीर्घकेसरः ।निभृतः प्रेक्षते लङ्कां दिधक्षन्निव चक्षुषा ॥ २५ ॥
विन्ध्यं कृष्णगिरिं सह्यं पर्वतं च सुदर्शनम् ।राजन्सततमध्यास्ते रम्भो नामैष यूथपः ॥ २६ ॥
शतं शतसहस्राणां त्रिंशच्च हरियूथपाः ।परिवार्यानुगच्छन्ति लङ्कां मर्दितुमोजसा ॥ २७ ॥
यस्तु कर्णौ विवृणुते जृम्भते च पुनः पुनः ।न च संविजते मृत्योर्न च यूथाद्विधावति ॥ २८ ॥
महाबलो वीतभयो रम्यं साल्वेय पर्वतम् ।राजन्सततमध्यास्ते शरभो नाम यूथपः ॥ २९ ॥
एतस्य बलिनः सर्वे विहारा नाम यूथपाः ।राजञ्शतसहस्राणि चत्वारिंशत्तथैव च ॥ ३० ॥
यस्तु मेघ इवाकाशं महानावृत्य तिष्ठति ।मध्ये वानरवीराणां सुराणामिव वासवः ॥ ३१ ॥
भेरीणामिव संनादो यस्यैष श्रूयते महान् ।घोरः शाखामृगेन्द्राणां संग्राममभिकाङ्क्षताम् ॥ ३२ ॥
एष पर्वतमध्यास्ते पारियात्रमनुत्तमम् ।युद्धे दुष्प्रसहो नित्यं पनसो नाम यूथपः ॥ ३३ ॥
एनं शतसहस्राणां शतार्धं पर्युपासते ।यूथपा यूथपश्रेष्ठं येषां यूथानि भागशः ॥ ३४ ॥
यस्तु भीमां प्रवल्गन्तीं चमूं तिष्ठति शोभयन् ।स्थितां तीरे समुद्रस्य द्वितीय इव सागरः ॥ ३५ ॥
एष दर्दरसंकाशो विनतो नाम यूथपः ।पिबंश्चरति पर्णाशां नदीनामुत्तमां नदीम् ॥ ३६ ॥
षष्टिः शतसहस्राणि बलमस्य प्लवंगमाः ।त्वामाह्वयति युद्धाय क्रथनो नाम यूथपः ॥ ३७ ॥
यस्तु गैरिकवर्णाभं वपुः पुष्यति वानरः ।गवयो नाम तेजस्वी त्वां क्रोधादभिवर्तते ॥ ३८ ॥
एनं शतसहस्राणि सप्ततिः पर्युपासते ।एष आशंसते लङ्कां स्वेनानीकेन मर्दितुम् ॥ ३९ ॥
एते दुष्प्रसहा घोरा बलिनः कामरूपिणः ।यूथपा यूथपश्रेष्ठा येषां संख्या न विद्यते ॥ ४० ॥
« »