Click on words to see what they mean.

सबले सागरं तीर्णे रामे दशरथात्मजे ।अमात्यौ रावणः श्रीमानब्रवीच्छुकसारणौ ॥ १ ॥
समग्रं सागरं तीर्णं दुस्तरं वानरं बलम् ।अभूतपूर्वं रामेण सागरे सेतुबन्धनम् ॥ २ ॥
सागरे सेतुबन्धं तु न श्रद्दध्यां कथंचन ।अवश्यं चापि संख्येयं तन्मया वानरं बलम् ॥ ३ ॥
भवन्तौ वानरं सैन्यं प्रविश्यानुपलक्षितौ ।परिमाणं च वीर्यं च ये च मुख्याः प्लवंगमाः ॥ ४ ॥
मन्त्रिणो ये च रामस्य सुग्रीवस्य च संमताः ।ये पूर्वमभिवर्तन्ते ये च शूराः प्लवंगमाः ॥ ५ ॥
स च सेतुर्यथा बद्धः सागरे सलिलार्णवे ।निवेशश्च यथा तेषां वानराणां महात्मनाम् ॥ ६ ॥
रामस्य व्यवसायं च वीर्यं प्रहरणानि च ।लक्ष्मणस्य च वीरस्य तत्त्वतो ज्ञातुमर्हथ ॥ ७ ॥
कश्च सेनापतिस्तेषां वानराणां महौजसाम् ।एतज्ज्ञात्वा यथातत्त्वं शीघ्रमगन्तुमर्हथः ॥ ८ ॥
इति प्रतिसमादिष्टौ राक्षसौ शुकसारणौ ।हरिरूपधरौ वीरौ प्रविष्टौ वानरं बलम् ॥ ९ ॥
ततस्तद्वानरं सैन्यमचिन्त्यं लोमहर्षणम् ।संख्यातुं नाध्यगच्छेतां तदा तौ शुकसारणौ ॥ १० ॥
तत्स्थितं पर्वताग्रेषु निर्दरेषु गुहासु च ।समुद्रस्य च तीरेषु वनेषूपवनेषु च ॥ ११ ॥
तरमाणं च तीर्णं च तर्तुकामं च सर्वशः ।निविष्टं निविशच्चैव भीमनादं महाबलम् ॥ १२ ॥
तौ ददर्श महातेजाः प्रच्छन्नौ च विभीषणः ।आचचक्षेऽथ रामाय गृहीत्वा शुकसारणौ ।लङ्कायाः समनुप्राप्तौ चारौ परपुरंजयौ ॥ १३ ॥
तौ दृष्ट्वा व्यथितौ रामं निराशौ जीविते तदा ।कृताञ्जलिपुटौ भीतौ वचनं चेदमूचतुः ॥ १४ ॥
आवामिहागतौ सौम्य रावणप्रहितावुभौ ।परिज्ञातुं बलं कृत्स्नं तवेदं रघुनन्दन ॥ १५ ॥
तयोस्तद्वचनं श्रुत्वा रामो दशरथात्मजः ।अब्रवीत्प्रहसन्वाक्यं सर्वभूतहिते रतः ॥ १६ ॥
यदि दृष्टं बलं कृत्स्नं वयं वा सुसमीक्षिताः ।यथोक्तं वा कृतं कार्यं छन्दतः प्रतिगम्यताम् ॥ १७ ॥
प्रविश्य नगरीं लङ्कां भवद्भ्यां धनदानुजः ।वक्तव्यो रक्षसां राजा यथोक्तं वचनं मम ॥ १८ ॥
यद्बलं च समाश्रित्य सीतां मे हृतवानसि ।तद्दर्शय यथाकामं ससैन्यः सहबान्धवः ॥ १९ ॥
श्वःकाले नगरीं लङ्कां सप्राकारां सतोरणाम् ।राक्षसं च बलं पश्य शरैर्विध्वंसितं मया ॥ २० ॥
घोरं रोषमहं मोक्ष्ये बलं धारय रावण ।श्वःकाले वज्रवान्वज्रं दानवेष्विव वासवः ॥ २१ ॥
इति प्रतिसमादिष्टौ राक्षसौ शुकसारणौ ।आगम्य नगरीं लङ्कामब्रूतां राक्षसाधिपम् ॥ २२ ॥
विभीषणगृहीतौ तु वधार्हौ राक्षसेश्वर ।दृष्ट्वा धर्मात्मना मुक्तौ रामेणामिततेजसा ॥ २३ ॥
एकस्थानगता यत्र चत्वारः पुरुषर्षभाः ।लोकपालोपमाः शूराः कृतास्त्रा दृढविक्रमाः ॥ २४ ॥
रामो दाशरथिः श्रीमाँल्लक्ष्मणश्च विभीषणः ।सुग्रीवश्च महातेजा महेन्द्रसमविक्रमः ॥ २५ ॥
एते शक्ताः पुरीं लङ्कां सप्राकारां सतोरणाम् ।उत्पाट्य संक्रामयितुं सर्वे तिष्ठन्तु वानराः ॥ २६ ॥
यादृशं तस्य रामस्य रूपं प्रहरणानि च ।वधिष्यति पुरीं लङ्कामेकस्तिष्ठन्तु ते त्रयः ॥ २७ ॥
रामलक्ष्मणगुप्ता सा सुग्रीवेण च वाहिनी ।बभूव दुर्धर्षतरा सर्वैरपि सुरासुरैः ॥ २८ ॥
प्रहृष्टरूपा ध्वजिनी वनौकसां महात्मनां संप्रति योद्धुमिच्छताम् ।अलं विरोधेन शमो विधीयतां प्रदीयतां दाशरथाय मैथिली ॥ २९ ॥
« »