Click on words to see what they mean.

ततो मध्यात्समुद्रस्य सागरः स्वयमुत्थितः ।उदयन्हि महाशैलान्मेरोरिव दिवाकरः ।पन्नगैः सह दीप्तास्यैः समुद्रः प्रत्यदृश्यत ॥ १ ॥
स्निग्धवैदूर्यसंकाशो जाम्बूनदविभूषितः ।रक्तमाल्याम्बरधरः पद्मपत्रनिभेक्षणः ॥ २ ॥
सागरः समतिक्रम्य पूर्वमामन्त्र्य वीर्यवान् ।अब्रवीत्प्राञ्जलिर्वाक्यं राघवं शरपाणिनम् ॥ ३ ॥
पृथिवी वायुराकाशमापो ज्योतिश्च राघवः ।स्वभावे सौम्य तिष्ठन्ति शाश्वतं मार्गमाश्रिताः ॥ ४ ॥
तत्स्वभावो ममाप्येष यदगाधोऽहमप्लवः ।विकारस्तु भवेद्राध एतत्ते प्रवदाम्यहम् ॥ ५ ॥
न कामान्न च लोभाद्वा न भयात्पार्थिवात्मज ।ग्राहनक्राकुलजलं स्तम्भयेयं कथंचन ॥ ६ ॥
विधास्ये राम येनापि विषहिष्ये ह्यहं तथा ।ग्राहा न प्रहरिष्यन्ति यावत्सेना तरिष्यति ॥ ७ ॥
अयं सौम्य नलो नाम तनुजो विश्वकर्मणः ।पित्रा दत्तवरः श्रीमान्प्रतिमो विश्वकर्मणः ॥ ८ ॥
एष सेतुं महोत्साहः करोतु मयि वानरः ।तमहं धारयिष्यामि तथा ह्येष यथा पिता ॥ ९ ॥
एवमुक्त्वोदधिर्नष्टः समुत्थाय नलस्ततः ।अब्रवीद्वानरश्रेष्ठो वाक्यं रामं महाबलः ॥ १० ॥
अहं सेतुं करिष्यामि विस्तीर्णे वरुणालये ।पितुः सामर्थ्यमास्थाय तत्त्वमाह महोदधिः ॥ ११ ॥
मम मातुर्वरो दत्तो मन्दरे विश्वकर्मणा ।औरसस्तस्य पुत्रोऽहं सदृशो विश्वकर्मणा ॥ १२ ॥
न चाप्यहमनुक्तो वै प्रब्रूयामात्मनो गुणान् ।काममद्यैव बध्नन्तु सेतुं वानरपुंगवाः ॥ १३ ॥
ततो निसृष्टरामेण सर्वतो हरियूथपाः ।अभिपेतुर्महारण्यं हृष्टाः शतसहस्रशः ॥ १४ ॥
ते नगान्नगसंकाशाः शाखामृगगणर्षभाः ।बभञ्जुर्वानरास्तत्र प्रचकर्षुश्च सागरम् ॥ १५ ॥
ते सालैश्चाश्वकर्णैश्च धवैर्वंशैश्च वानराः ।कुटजैरर्जुनैस्तालैस्तिकलैस्तिमिशैरपि ॥ १६ ॥
बिल्वकैः सप्तपर्णैश्च कर्णिकारैश्च पुष्पितैः ।चूतैश्चाशोकवृक्षैश्च सागरं समपूरयन् ॥ १७ ॥
समूलांश्च विमूलांश्च पादपान्हरिसत्तमाः ।इन्द्रकेतूनिवोद्यम्य प्रजह्रुर्हरयस्तरून् ॥ १८ ॥
प्रक्षिप्यमाणैरचलैः सहसा जलमुद्धतम् ।समुत्पतितमाकाशमपासर्पत्ततस्ततः ॥ १९ ॥
दशयोजनविस्तीर्णं शतयोजनमायतम् ।नलश्चक्रे महासेतुं मध्ये नदनदीपतेः ॥ २० ॥
शिलानां क्षिप्यमाणानां शैलानां तत्र पात्यताम् ।बभूव तुमुलः शब्दस्तदा तस्मिन्महोदधौ ॥ २१ ॥
स नलेन कृतः सेतुः सागरे मकरालये ।शुशुभे सुभगः श्रीमान्स्वातीपथ इवाम्बरे ॥ २२ ॥
ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः ॥ २३ ॥
आप्लवन्तः प्लवन्तश्च गर्जन्तश्च प्लवंगमाः ।तमचिन्त्यमसह्यं च अद्भुतं लोमहर्षणम् ।ददृशुः सर्वभूतानि सागरे सेतुबन्धनम् ॥ २४ ॥
तानि कोटिसहस्राणि वानराणां महौजसाम् ।बध्नन्तः सागरे सेतुं जग्मुः पारं महोदधेः ॥ २५ ॥
विशालः सुकृतः श्रीमान्सुभूमिः सुसमाहितः ।अशोभत महासेतुः सीमन्त इव सागरे ॥ २६ ॥
ततः परे समुद्रस्य गदापाणिर्विभीषणः ।परेषामभिघतार्थमतिष्ठत्सचिवैः सह ॥ २७ ॥
अग्रतस्तस्य सैन्यस्य श्रीमान्रामः सलक्ष्मणः ।जगाम धन्वी धर्मात्मा सुग्रीवेण समन्वितः ॥ २८ ॥
अन्ये मध्येन गच्छन्ति पार्श्वतोऽन्ये प्लवंगमाः ।सलिले प्रपतन्त्यन्ये मार्गमन्ये न लेभिरे ।केचिद्वैहायस गताः सुपर्णा इव पुप्लुवुः ॥ २९ ॥
घोषेण महता घोषं सागरस्य समुच्छ्रितम् ।भीममन्तर्दधे भीमा तरन्ती हरिवाहिनी ॥ ३० ॥
वानराणां हि सा तीर्णा वाहिनी नल सेतुना ।तीरे निविविशे राज्ञा बहुमूलफलोदके ॥ ३१ ॥
तदद्भुतं राघव कर्म दुष्करं समीक्ष्य देवाः सह सिद्धचारणैः ।उपेत्य रामं सहिता महर्षिभिः समभ्यषिञ्चन्सुशुभैर्जलैः पृथक् ॥ ३२ ॥
जयस्व शत्रून्नरदेव मेदिनीं ससागरां पालय शाश्वतीः समाः ।इतीव रामं नरदेवसत्कृतं शुभैर्वचोभिर्विविधैरपूजयन् ॥ ३३ ॥
« »