Click on words to see what they mean.

अयोध्यां तु समालोक्य चिन्तयामास राघवः ।चिन्तयित्वा ततो दृष्टिं वानरेषु न्यपातयत् ॥ १ ॥
प्रियकामः प्रियं रामस्ततस्त्वरितविक्रमम् ।उवाच धीमांस्तेजस्वी हनूमन्तं प्लवंगमम् ॥ २ ॥
अयोध्यां त्वरितो गच्छ क्षिप्रं त्वं प्लवगोत्तम ।जानीहि कच्चित्कुशली जनो नृपतिमन्दिरे ॥ ३ ॥
शृङ्गवेरपुरं प्राप्य गुहं गहनगोचरम् ।निषादाधिपतिं ब्रूहि कुशलं वचनान्मम ॥ ४ ॥
श्रुत्वा तु मां कुशलिनमरोगं विगतज्वरम् ।भविष्यति गुहः प्रीतः स ममात्मसमः सखा ॥ ५ ॥
अयोध्यायाश्च ते मार्गं प्रवृत्तिं भरतस्य च ।निवेदयिष्यति प्रीतो निषादाधिपतिर्गुहः ॥ ६ ॥
भरतस्तु त्वया वाच्यः कुशलं वचनान्मम ।सिद्धार्थं शंस मां तस्मै सभार्यं सहलक्ष्मणम् ॥ ७ ॥
हरणं चापि वैदेह्या रावणेन बलीयसा ।सुग्रीवेण च संवादं वालिनश्च वधं रणे ॥ ८ ॥
मैथिल्यन्वेषणं चैव यथा चाधिगता त्वया ।लङ्घयित्वा महातोयमापगापतिमव्ययम् ॥ ९ ॥
उपयानं समुद्रस्य सागरस्य च दर्शनम् ।यथा च कारितः सेतू रावणश्च यथा हतः ॥ १० ॥
वरदानं महेन्द्रेण ब्रह्मणा वरुणेन च ।महादेवप्रसादाच्च पित्रा मम समागमम् ॥ ११ ॥
जित्वा शत्रुगणान्रामः प्राप्य चानुत्तमं यशः ।उपयाति समृद्धार्थः सह मित्रैर्महाबलः ॥ १२ ॥
एतच्छ्रुत्वा यमाकारं भजते भरतस्ततः ।स च ते वेदितव्यः स्यात्सर्वं यच्चापि मां प्रति ॥ १३ ॥
ज्ञेयाः सर्वे च वृत्तान्ता भरतस्येङ्गितानि च ।तत्त्वेन मुखवर्णेन दृष्ट्या व्याभाषणेन च ॥ १४ ॥
सर्वकामसमृद्धं हि हस्त्यश्वरथसंकुलम् ।पितृपैतामहं राज्यं कस्य नावर्तयेन्मनः ॥ १५ ॥
संगत्या भरतः श्रीमान्राज्येनार्थी स्वयं भवेत् ।प्रशास्तु वसुधां सर्वामखिलां रघुनन्दनः ॥ १६ ॥
तस्य बुद्धिं च विज्ञाय व्यवसायं च वानर ।यावन्न दूरं याताः स्मः क्षिप्रमागन्तुमर्हसि ॥ १७ ॥
इति प्रतिसमादिष्टो हनूमान्मारुतात्मजः ।मानुषं धारयन्रूपमयोध्यां त्वरितो ययौ ॥ १८ ॥
लङ्घयित्वा पितृपथं भुजगेन्द्रालयं शुभम् ।गङ्गायमुनयोर्भीमं संनिपातमतीत्य च ॥ १९ ॥
शृङ्गवेरपुरं प्राप्य गुहमासाद्य वीर्यवान् ।स वाचा शुभया हृष्टो हनूमानिदमब्रवीत् ॥ २० ॥
सखा तु तव काकुत्स्थो रामः सत्यपराक्रमः ।ससीतः सह सौमित्रिः स त्वां कुशलमब्रवीत् ॥ २१ ॥
पञ्चमीमद्य रजनीमुषित्वा वचनान्मुनेः ।भरद्वाजाभ्यनुज्ञातं द्रक्ष्यस्यद्यैव राघवम् ॥ २२ ॥
एवमुक्त्वा महातेजाः संप्रहृष्टतनूरुहः ।उत्पपात महावेगो वेगवानविचारयन् ॥ २३ ॥
सोऽपश्यद्रामतीर्थं च नदीं वालुकिनीं तथा ।गोमतीं तां च सोऽपश्यद्भीमं सालवनं तथा ॥ २४ ॥
स गत्वा दूरमध्वानं त्वरितः कपिकुञ्जरः ।आससाद द्रुमान्फुल्लान्नन्दिग्रामसमीपजान् ॥ २५ ॥
क्रोशमात्रे त्वयोध्यायाश्चीरकृष्णाजिनाम्बरम् ।ददर्श भरतं दीनं कृशमाश्रमवासिनम् ॥ २६ ॥
जटिलं मलदिग्धाङ्गं भ्रातृव्यसनकर्शितम् ।फलमूलाशिनं दान्तं तापसं धर्मचारिणम् ॥ २७ ॥
समुन्नतजटाभारं वल्कलाजिनवाससं ।नियतं भावितात्मानं ब्रह्मर्षिसमतेजसं ॥ २८ ॥
पादुके ते पुरस्कृत्य शासन्तं वै वसुंधराम् ।चतुर्वर्ण्यस्य लोकस्य त्रातारं सर्वतो भयात् ॥ २९ ॥
उपस्थितममात्यैश्च शुचिभिश्च पुरोहितैः ।बलमुख्यैश्च युक्तैश्च काषायाम्बरधारिभिः ॥ ३० ॥
न हि ते राजपुत्रं तं चीरकृष्णाजिनाम्बरम् ।परिमोक्तुं व्यवस्यन्ति पौरा वै धर्मवत्सलाः ॥ ३१ ॥
तं धर्ममिव धर्मज्ञं देववन्तमिवापरम् ।उवाच प्राञ्जलिर्वाक्यं हनूमान्मारुतात्मजः ॥ ३२ ॥
वसन्तं दण्डकारण्ये यं त्वं चीरजटाधरम् ।अनुशोचसि काकुत्स्थं स त्वा कुशलमब्रवीत् ॥ ३३ ॥
प्रियमाख्यामि ते देव शोकं त्यक्ष्यसि दारुणम् ।अस्मिन्मुहूर्ते भ्रात्रा त्वं रामेण सह संगतः ॥ ३४ ॥
निहत्य रावणं रामः प्रतिलभ्य च मैथिलीम् ।उपयाति समृद्धार्थः सह मित्रैर्महाबलैः ॥ ३५ ॥
लक्ष्मणश्च महातेजा वैदेही च यशस्विनी ।सीता समग्रा रामेण महेन्द्रेण शची यथा ॥ ३६ ॥
एवमुक्तो हनुमता भरतः कैकयीसुतः ।पपात सहसा हृष्टो हर्षान्मोहं जगाम ह ॥ ३७ ॥
ततो मुहूर्तादुत्थाय प्रत्याश्वस्य च राघवः ।हनूमन्तमुवाचेदं भरतः प्रियवादिनम् ॥ ३८ ॥
अशोकजैः प्रीतिमयैः कपिमालिङ्ग्य संभ्रमात् ।सिषेच भरतः श्रीमान्विपुलैरश्रुबिन्दुभिः ॥ ३९ ॥
देवो वा मानुषो वा त्वमनुक्रोशादिहागतः ।प्रियाख्यानस्य ते सौम्य ददामि ब्रुवतः प्रियम् ॥ ४० ॥
गवां शतसहस्रं च ग्रामाणां च शतं परम् ।सकुण्डलाः शुभाचारा भार्याः कन्याश्च षोडश ॥ ४१ ॥
हेमवर्णाः सुनासोरूः शशिसौम्याननाः स्त्रियः ।सर्वाभरणसंपन्ना संपन्नाः कुलजातिभिः ॥ ४२ ॥
निशम्य रामागमनं नृपात्मजः कपिप्रवीरस्य तदाद्भुतोपमम् ।प्रहर्षितो रामदिदृक्षयाभवत्पुनश्च हर्षादिदमब्रवीद्वचः ॥ ४३ ॥
« »