Click on words to see what they mean.

स उवाच महाप्रज्ञमभिगम्य प्लवंगमः ।रामं वचनमर्थज्ञो वरं सर्वधनुष्मताम् ॥ १ ॥
यन्निमित्तोऽयमारम्भः कर्मणां च फलोदयः ।तां देवीं शोकसंतप्तां मैथिलीं द्रष्टुमर्हसि ॥ २ ॥
सा हि शोकसमाविष्टा बाष्पपर्याकुलेक्षणा ।मैथिली विजयं श्रुत्वा तव हर्षमुपागमत् ॥ ३ ॥
पूर्वकात्प्रत्ययाच्चाहमुक्तो विश्वस्तया तया ।भर्तारं द्रष्टुमिच्छामि कृतार्थं सहलक्ष्मणम् ॥ ४ ॥
एवमुक्तो हनुमता रामो धर्मभृतां वरः ।अगच्छत्सहसा ध्यानमासीद्बाष्पपरिप्लुतः ॥ ५ ॥
दीर्घमुष्णं च निश्वस्य मेदिनीमवलोकयन् ।उवाच मेघसंकाशं विभीषणमुपस्थितम् ॥ ६ ॥
दिव्याङ्गरागां वैदेहीं दिव्याभरणभूषिताम् ।इह सीतां शिरःस्नातामुपस्थापय माचिरम् ॥ ७ ॥
एवमुक्तस्तु रामेण त्वरमाणो विभीषणः ।प्रविश्यान्तःपुरं सीतां स्त्रीभिः स्वाभिरचोदयत् ॥ ८ ॥
दिव्याङ्गरागा वैदेही दिव्याभरणभूषिता ।यानमारोह भद्रं ते भर्ता त्वां द्रष्टुमिच्छति ॥ ९ ॥
एवमुक्ता तु वैदेही प्रत्युवाच विभीषणम् ।अस्नाता द्रष्टुमिच्छामि भर्तारं राक्षसाधिप ॥ १० ॥
तस्यास्तद्वचनं श्रुत्वा प्रत्युवाच विभीषणः ।यथाह रामो भर्ता ते तत्तथा कर्तुमर्हसि ॥ ११ ॥
तस्य तद्वचनं श्रुत्वा मैथिली भर्तृदेवता ।भर्तृभक्तिव्रता साध्वी तथेति प्रत्यभाषत ॥ १२ ॥
ततः सीतां शिरःस्नातां युवतीभिरलंकृताम् ।महार्हाभरणोपेतां महार्हाम्बरधारिणीम् ॥ १३ ॥
आरोप्य शिबिकां दीप्तां परार्ध्याम्बरसंवृताम् ।रक्षोभिर्बहुभिर्गुप्तामाजहार विभीषणः ॥ १४ ॥
सोऽभिगम्य महात्मानं ज्ञात्वाभिध्यानमास्थितम् ।प्रणतश्च प्रहृष्टश्च प्राप्तां सीतां न्यवेदयत् ॥ १५ ॥
तामागतामुपश्रुत्य रक्षोगृहचिरोषिताम् ।हर्षो दैन्यं च रोषश्च त्रयं राघवमाविशत् ॥ १६ ॥
ततः पार्श्वगतं दृष्ट्वा सविमर्शं विचारयन् ।विभीषणमिदं वाक्यमहृष्टो राघवोऽब्रवीत् ॥ १७ ॥
राक्षसाधिपते सौम्य नित्यं मद्विजये रत ।वैदेही संनिकर्षं मे शीघ्रं समुपगच्छतु ॥ १८ ॥
स तद्वचनमाज्ञाय राघवस्य विभीषणः ।तूर्णमुत्सारणे यत्नं कारयामास सर्वतः ॥ १९ ॥
कञ्चुकोष्णीषिणस्तत्र वेत्रझर्झरपाणयः ।उत्सारयन्तः पुरुषाः समन्तात्परिचक्रमुः ॥ २० ॥
ऋक्षाणां वानराणां च राक्षसानां च सर्वतः ।वृन्दान्युत्सार्यमाणानि दूरमुत्ससृजुस्ततः ॥ २१ ॥
तेषामुत्सार्यमाणानां सर्वेषां ध्वनिरुत्थितः ।वायुनोद्वर्तमानस्य सागरस्येव निस्वनः ॥ २२ ॥
उत्सार्यमाणांस्तान्दृष्ट्वा समन्ताज्जातसंभ्रमान् ।दाक्षिण्यात्तदमर्षाच्च वारयामास राघवः ॥ २३ ॥
संरब्धश्चाब्रवीद्रामश्चक्षुषा प्रदहन्निव ।विभीषणं महाप्राज्ञं सोपालम्भमिदं वचः ॥ २४ ॥
किमर्थं मामनादृत्य कृश्यतेऽयं त्वया जनः ।निवर्तयैनमुद्योगं जनोऽयं स्वजनो मम ॥ २५ ॥
न गृहाणि न वस्त्राणि न प्राकारास्तिरस्क्रियाः ।नेदृशा राजसत्कारा वृत्तमावरणं स्त्रियः ॥ २६ ॥
व्यसनेषु न कृच्छ्रेषु न युद्धे न स्वयंवरे ।न क्रतौ नो विवाहे च दर्शनं दुष्यते स्त्रियः ॥ २७ ॥
सैषा युद्धगता चैव कृच्छ्रे महति च स्थिता ।दर्शनेऽस्या न दोषः स्यान्मत्समीपे विशेषतः ॥ २८ ॥
तदानय समीपं मे शीघ्रमेनां विभीषण ।सीता पश्यतु मामेषा सुहृद्गणवृतं स्थितम् ॥ २९ ॥
एवमुक्तस्तु रामेण सविमर्शो विभीषणः ।रामस्योपानयत्सीतां संनिकर्षं विनीतवत् ॥ ३० ॥
ततो लक्ष्मणसुग्रीवौ हनूमांश्च प्लवंगमः ।निशम्य वाक्यं रामस्य बभूवुर्व्यथिता भृशम् ॥ ३१ ॥
कलत्रनिरपेक्षैश्च इङ्गितैरस्य दारुणैः ।अप्रीतमिव सीतायां तर्कयन्ति स्म राघवम् ॥ ३२ ॥
लज्जया त्ववलीयन्ती स्वेषु गात्रेषु मैथिली ।विभीषणेनानुगता भर्तारं साभ्यवर्तत ॥ ३३ ॥
सा वस्त्रसंरुद्धमुखी लज्जया जनसंसदि ।रुरोदासाद्य भर्तारमार्यपुत्रेति भाषिणी ॥ ३४ ॥
विस्मयाच्च प्रहर्षाच्च स्नेहाच्च परिदेवता ।उदैक्षत मुखं भर्तुः सौम्यं सौम्यतरानना ॥ ३५ ॥
अथ समपनुदन्मनःक्लमं सा सुचिरमदृष्टमुदीक्ष्य वै प्रियस्य ।वदनमुदितपूर्णचन्द्रकान्तं विमलशशाङ्कनिभानना तदासीत् ॥ ३६ ॥
« »