Click on words to see what they mean.

सचन्द्रकुमुदं रम्यं सार्ककारण्डवं शुभम् ।तिष्यश्रवणकदम्बमभ्रशैवलशाद्वलम् ॥ १ ॥
पुनर्वसु महामीनं लोहिताङ्गमहाग्रहम् ।ऐरावतमहाद्वीपं स्वातीहंसविलोडितम् ॥ २ ॥
वातसंघातजातोर्मिं चन्द्रांशुशिशिराम्बुमत् ।भुजंगयक्षगन्धर्वप्रबुद्धकमलोत्पलम् ॥ ३ ॥
ग्रसमान इवाकाशं ताराधिपमिवालिखन् ।हरन्निव सनक्षत्रं गगनं सार्कमण्डलम् ॥ ४ ॥
मारुतस्यालयं श्रीमान्कपिर्व्योमचरो महान् ।हनूमान्मेघजालानि विकर्षन्निव गच्छति ॥ ५ ॥
पाण्डुरारुणवर्णानि नीलमाञ्जिष्ठकानि च ।हरितारुणवर्णानि महाभ्राणि चकाशिरे ॥ ६ ॥
प्रविशन्नभ्रजालानि निष्क्रमंश्च पुनः पुनः ।प्रच्छन्नश्च प्रकाशश्च चन्द्रमा इव लक्ष्यते ॥ ७ ॥
नदन्नादेन महता मेघस्वनमहास्वनः ।आजगाम महातेजाः पुनर्मध्येन सागरम् ॥ ८ ॥
पर्वतेन्द्रं सुनाभं च समुपस्पृश्य वीर्यवान् ।ज्यामुक्त इव नाराचो महावेगोऽभ्युपागतः ॥ ९ ॥
स किंचिदनुसंप्राप्तः समालोक्य महागिरिम् ।महेन्द्रमेघसंकाशं ननाद हरिपुंगवः ॥ १० ॥
निशम्य नदतो नादं वानरास्ते समन्ततः ।बभूवुरुत्सुकाः सर्वे सुहृद्दर्शनकाङ्क्षिणः ॥ ११ ॥
जाम्बवान्स हरिश्रेष्ठः प्रीतिसंहृष्टमानसः ।उपामन्त्र्य हरीन्सर्वानिदं वचनमब्रवीत् ॥ १२ ॥
सर्वथा कृतकार्योऽसौ हनूमान्नात्र संशयः ।न ह्यस्याकृतकार्यस्य नाद एवंविधो भवेत् ॥ १३ ॥
तस्या बाहूरुवेगं च निनादं च महात्मनः ।निशम्य हरयो हृष्टाः समुत्पेतुस्ततस्ततः ॥ १४ ॥
ते नगाग्रान्नगाग्राणि शिखराच्छिखराणि च ।प्रहृष्टाः समपद्यन्त हनूमन्तं दिदृक्षवः ॥ १५ ॥
ते प्रीताः पादपाग्रेषु गृह्य शाखाः सुपुष्पिताः ।वासांसीव प्रकाशानि समाविध्यन्त वानराः ॥ १६ ॥
तमभ्रघनसंकाशमापतन्तं महाकपिम् ।दृष्ट्वा ते वानराः सर्वे तस्थुः प्राञ्जलयस्तदा ॥ १७ ॥
ततस्तु वेगवांस्तस्य गिरेर्गिरिनिभः कपिः ।निपपात महेन्द्रस्य शिखरे पादपाकुले ॥ १८ ॥
ततस्ते प्रीतमनसः सर्वे वानरपुंगवाः ।हनूमन्तं महात्मानं परिवार्योपतस्थिरे ॥ १९ ॥
परिवार्य च ते सर्वे परां प्रीतिमुपागताः ।प्रहृष्टवदनाः सर्वे तमरोगमुपागतम् ॥ २० ॥
उपायनानि चादाय मूलानि च फलानि च ।प्रत्यर्चयन्हरिश्रेष्ठं हरयो मारुतात्मजम् ॥ २१ ॥
विनेदुर्मुदिताः केचिच्चक्रुः किल किलां तथा ।हृष्टाः पादपशाखाश्च आनिन्युर्वानरर्षभाः ॥ २२ ॥
हनूमांस्तु गुरून्वृद्धाञ्जाम्बवत्प्रमुखांस्तदा ।कुमारमङ्गदं चैव सोऽवन्दत महाकपिः ॥ २३ ॥
स ताभ्यां पूजितः पूज्यः कपिभिश्च प्रसादितः ।दृष्टा देवीति विक्रान्तः संक्षेपेण न्यवेदयत् ॥ २४ ॥
निषसाद च हस्तेन गृहीत्वा वालिनः सुतम् ।रमणीये वनोद्देशे महेन्द्रस्य गिरेस्तदा ॥ २५ ॥
हनूमानब्रवीद्धृष्टस्तदा तान्वानरर्षभान् ।अशोकवनिकासंस्था दृष्टा सा जनकात्मजा ॥ २६ ॥
रक्ष्यमाणा सुघोराभी राक्षसीभिरनिन्दिता ।एकवेणीधरा बाला रामदर्शनलालसा ।उपवासपरिश्रान्ता मलिना जटिला कृशा ॥ २७ ॥
ततो दृष्टेति वचनं महार्थममृतोपमम् ।निशम्य मारुतेः सर्वे मुदिता वानरा भवन् ॥ २८ ॥
क्ष्वेडन्त्यन्ये नदन्त्यन्ये गर्जन्त्यन्ये महाबलाः ।चक्रुः किल किलामन्ये प्रतिगर्जन्ति चापरे ॥ २९ ॥
केचिदुच्छ्रितलाङ्गूलाः प्रहृष्टाः कपिकुञ्जराः ।अञ्चितायतदीर्घाणि लाङ्गूलानि प्रविव्यधुः ॥ ३० ॥
अपरे तु हनूमन्तं वानरा वारणोपमम् ।आप्लुत्य गिरिशृङ्गेभ्यः संस्पृशन्ति स्म हर्षिताः ॥ ३१ ॥
उक्तवाक्यं हनूमन्तमङ्गदस्तु तदाब्रवीत् ।सर्वेषां हरिवीराणां मध्ये वाचमनुत्तमाम् ॥ ३२ ॥
सत्त्वे वीर्ये न ते कश्चित्समो वानरविद्यते ।यदवप्लुत्य विस्तीर्णं सागरं पुनरागतः ॥ ३३ ॥
दिष्ट्या दृष्टा त्वया देवी रामपत्नी यशस्विनी ।दिष्ट्या त्यक्ष्यति काकुत्स्थः शोकं सीता वियोगजम् ॥ ३४ ॥
ततोऽङ्गदं हनूमन्तं जाम्बवन्तं च वानराः ।परिवार्य प्रमुदिता भेजिरे विपुलाः शिलाः ॥ ३५ ॥
श्रोतुकामाः समुद्रस्य लङ्घनं वानरोत्तमाः ।दर्शनं चापि लङ्कायाः सीताया रावणस्य च ।तस्थुः प्राञ्जलयः सर्वे हनूमद्वदनोन्मुखाः ॥ ३६ ॥
तस्थौ तत्राङ्गदः श्रीमान्वानरैर्बहुभिर्वृतः ।उपास्यमानो विबुधैर्दिवि देवपतिर्यथा ॥ ३७ ॥
हनूमता कीर्तिमता यशस्विना तथाङ्गदेनाङ्गदबद्धबाहुना ।मुदा तदाध्यासितमुन्नतं महन्महीधराग्रं ज्वलितं श्रियाभवत् ॥ ३८ ॥
« »