Click on words to see what they mean.

स निकामं विनामेषु विचरन्कामरूपधृक् ।विचचार कपिर्लङ्कां लाघवेन समन्वितः ॥ १ ॥
आससादाथ लक्ष्मीवान्राक्षसेन्द्रनिवेशनम् ।प्राकारेणार्कवर्णेन भास्वरेणाभिसंवृतम् ॥ २ ॥
रक्षितं राक्षसैर्भीमैः सिंहैरिव महद्वनम् ।समीक्षमाणो भवनं चकाशे कपिकुञ्जरः ॥ ३ ॥
रूप्यकोपहितैश्चित्रैस्तोरणैर्हेमभूषितैः ।विचित्राभिश्च कक्ष्याभिर्द्वारैश्च रुचिरैर्वृतम् ॥ ४ ॥
गजास्थितैर्महामात्रैः शूरैश्च विगतश्रमैः ।उपस्थितमसंहार्यैर्हयैः स्यन्दनयायिभिः ॥ ५ ॥
सिंहव्याघ्रतनुत्राणैर्दान्तकाञ्चनराजतैः ।घोषवद्भिर्विचित्रैश्च सदा विचरितं रथैः ॥ ६ ॥
बहुरत्नसमाकीर्णं परार्ध्यासनभाजनम् ।महारथसमावासं महारथमहासनम् ॥ ७ ॥
दृश्यैश्च परमोदारैस्तैस्तैश्च मृगपक्षिभिः ।विविधैर्बहुसाहस्रैः परिपूर्णं समन्ततः ॥ ८ ॥
विनीतैरन्तपालैश्च रक्षोभिश्च सुरक्षितम् ।मुख्याभिश्च वरस्त्रीभिः परिपूर्णं समन्ततः ॥ ९ ॥
मुदितप्रमदा रत्नं राक्षसेन्द्रनिवेशनम् ।वराभरणनिर्ह्रादैः समुद्रस्वननिःस्वनम् ॥ १० ॥
तद्राजगुणसंपन्नं मुख्यैश्च वरचन्दनैः ।भेरीमृदङ्गाभिरुतं शङ्खघोषविनादितम् ॥ ११ ॥
नित्यार्चितं पर्वहुतं पूजितं राक्षसैः सदा ।समुद्रमिव गम्भीरं समुद्रमिव निःस्वनम् ॥ १२ ॥
महात्मानो महद्वेश्म महारत्नपरिच्छदम् ।महाजनसमाकीर्णं ददर्श स महाकपिः ॥ १३ ॥
विराजमानं वपुषा गजाश्वरथसंकुलम् ।लङ्काभरणमित्येव सोऽमन्यत महाकपिः ॥ १४ ॥
गृहाद्गृहं राक्षसानामुद्यानानि च वानरः ।वीक्षमाणो ह्यसंत्रस्तः प्रासादांश्च चचार सः ॥ १५ ॥
अवप्लुत्य महावेगः प्रहस्तस्य निवेशनम् ।ततोऽन्यत्पुप्लुवे वेश्म महापार्श्वस्य वीर्यवान् ॥ १६ ॥
अथ मेघप्रतीकाशं कुम्भकर्णनिवेशनम् ।विभीषणस्य च तथा पुप्लुवे स महाकपिः ॥ १७ ॥
महोदरस्य च तथा विरूपाक्षस्य चैव हि ।विद्युज्जिह्वस्य भवनं विद्युन्मालेस्तथैव च ।वज्रदंष्ट्रस्य च तथा पुप्लुवे स महाकपिः ॥ १८ ॥
शुकस्य च महावेगः सारणस्य च धीमतः ।तथा चेन्द्रजितो वेश्म जगाम हरियूथपः ॥ १९ ॥
जम्बुमालेः सुमालेश्च जगाम हरियूथपः ।रश्मिकेतोश्च भवनं सूर्यशत्रोस्तथैव च ॥ २० ॥
धूम्राक्षस्य च संपातेर्भवनं मारुतात्मजः ।विद्युद्रूपस्य भीमस्य घनस्य विघनस्य च ॥ २१ ॥
शुकनाभस्य वक्रस्य शठस्य विकटस्य च ।ह्रस्वकर्णस्य दंष्ट्रस्य रोमशस्य च रक्षसः ॥ २२ ॥
युद्धोन्मत्तस्य मत्तस्य ध्वजग्रीवस्य नादिनः ।विद्युज्जिह्वेन्द्रजिह्वानां तथा हस्तिमुखस्य च ॥ २३ ॥
करालस्य पिशाचस्य शोणिताक्षस्य चैव हि ।क्रममाणः क्रमेणैव हनूमान्मारुतात्मजः ॥ २४ ॥
तेषु तेषु महार्हेषु भवनेषु महायशाः ।तेषामृद्धिमतामृद्धिं ददर्श स महाकपिः ॥ २५ ॥
सर्वेषां समतिक्रम्य भवनानि समन्ततः ।आससादाथ लक्ष्मीवान्राक्षसेन्द्रनिवेशनम् ॥ २६ ॥
रावणस्योपशायिन्यो ददर्श हरिसत्तमः ।विचरन्हरिशार्दूलो राक्षसीर्विकृतेक्षणाः ।शूलमुद्गरहस्ताश्च शक्तो तोमरधारिणीः ॥ २७ ॥
ददर्श विविधान्गुल्मांस्तस्य रक्षःपतेर्गृहे ॥ २८ ॥
रक्ताञ्श्वेतान्सितांश्चैव हरींश्चैव महाजवान् ।कुलीनान्रूपसंपन्नान्गजान्परगजारुजान् ॥ २९ ॥
निष्ठितान्गजशिखायामैरावतसमान्युधि ।निहन्तॄन्परसैन्यानां गृहे तस्मिन्ददर्श सः ॥ ३० ॥
क्षरतश्च यथा मेघान्स्रवतश्च यथा गिरीन् ।मेघस्तनितनिर्घोषान्दुर्धर्षान्समरे परैः ॥ ३१ ॥
सहस्रं वाहिनीस्तत्र जाम्बूनदपरिष्कृताः ।हेमजालैरविच्छिन्नास्तरुणादित्यसंनिभाः ॥ ३२ ॥
ददर्श राक्षसेन्द्रस्य रावणस्य निवेशने ।शिबिका विविधाकाराः स कपिर्मारुतात्मजः ॥ ३३ ॥
लतागृहाणि चित्राणि चित्रशालागृहाणि च ।क्रीडागृहाणि चान्यानि दारुपर्वतकानपि ॥ ३४ ॥
कामस्य गृहकं रम्यं दिवागृहकमेव च ।ददर्श राक्षसेन्द्रस्य रावणस्य निवेशने ॥ ३५ ॥
स मन्दरतलप्रख्यं मयूरस्थानसंकुलम् ।ध्वजयष्टिभिराकीर्णं ददर्श भवनोत्तमम् ॥ ३६ ॥
अनन्तरत्ननिचयं निधिजालं समन्ततः ।धीरनिष्ठितकर्मान्तं गृहं भूतपतेरिव ॥ ३७ ॥
अर्चिर्भिश्चापि रत्नानां तेजसा रावणस्य च ।विरराजाथ तद्वेश्म रश्मिमानिव रश्मिभिः ॥ ३८ ॥
जाम्बूनदमयान्येव शयनान्यासनानि च ।भाजनानि च शुभ्राणि ददर्श हरियूथपः ॥ ३९ ॥
मध्वासवकृतक्लेदं मणिभाजनसंकुलम् ।मनोरममसंबाधं कुबेरभवनं यथा ॥ ४० ॥
नूपुराणां च घोषेण काञ्चीनां निनदेन च ।मृदङ्गतलघोषैश्च घोषवद्भिर्विनादितम् ॥ ४१ ॥
प्रासादसंघातयुतं स्त्रीरत्नशतसंकुलम् ।सुव्यूढकक्ष्यं हनुमान्प्रविवेश महागृहम् ॥ ४२ ॥
« »