Click on words to see what they mean.

सेनापतीन्पञ्च स तु प्रमापितान्हनूमता सानुचरान्सवाहनान् ।समीक्ष्य राजा समरोद्धतोन्मुखं कुमारमक्षं प्रसमैक्षताक्षतम् ॥ १ ॥
स तस्य दृष्ट्यर्पणसंप्रचोदितः प्रतापवान्काञ्चनचित्रकार्मुकः ।समुत्पपाताथ सदस्युदीरितो द्विजातिमुख्यैर्हविषेव पावकः ॥ २ ॥
ततो महद्बालदिवाकरप्रभं प्रतप्तजाम्बूनदजालसंततम् ।रथां समास्थाय ययौ स वीर्यवान्महाहरिं तं प्रति नैरृतर्षभः ॥ ३ ॥
ततस्तपःसंग्रहसंचयार्जितं प्रतप्तजाम्बूनदजालशोभितम् ।पताकिनं रत्नविभूषितध्वजं मनोजवाष्टाश्ववरैः सुयोजितम् ॥ ४ ॥
सुरासुराधृष्यमसंगचारिणं रविप्रभं व्योमचरं समाहितम् ।सतूणमष्टासिनिबद्धबन्धुरं यथाक्रमावेशितशक्तितोमरम् ॥ ५ ॥
विराजमानं प्रतिपूर्णवस्तुना सहेमदाम्ना शशिसूर्यवर्वसा ।दिवाकराभं रथमास्थितस्ततः स निर्जगामामरतुल्यविक्रमः ॥ ६ ॥
स पूरयन्खं च महीं च साचलां तुरंगमतङ्गमहारथस्वनैः ।बलैः समेतैः स हि तोरणस्थितं समर्थमासीनमुपागमत्कपिम् ॥ ७ ॥
स तं समासाद्य हरिं हरीक्षणो युगान्तकालाग्निमिव प्रजाक्षये ।अवस्थितं विस्मितजातसंभ्रमः समैक्षताक्षो बहुमानचक्षुषा ॥ ८ ॥
स तस्य वेगं च कपेर्महात्मनः पराक्रमं चारिषु पार्थिवात्मजः ।विचारयन्खं च बलं महाबलो हिमक्षये सूर्य इवाभिवर्धते ॥ ९ ॥
स जातमन्युः प्रसमीक्ष्य विक्रमं स्थिरः स्थितः संयति दुर्निवारणम् ।समाहितात्मा हनुमन्तमाहवे प्रचोदयामास शरैस्त्रिभिः शितैः ॥ १० ॥
ततः कपिं तं प्रसमीक्ष्य गर्वितं जितश्रमं शत्रुपराजयोर्जितम् ।अवैक्षताक्षः समुदीर्णमानसः सबाणपाणिः प्रगृहीतकार्मुकः ॥ ११ ॥
स हेमनिष्काङ्गदचारुकुण्डलः समाससादाशु पराक्रमः कपिम् ।तयोर्बभूवाप्रतिमः समागमः सुरासुराणामपि संभ्रमप्रदः ॥ १२ ॥
ररास भूमिर्न तताप भानुमान्ववौ न वायुः प्रचचाल चाचलः ।कपेः कुमारस्य च वीक्ष्य संयुगं ननाद च द्यौरुदधिश्च चुक्षुभे ॥ १३ ॥
ततः स वीरः सुमुखान्पतत्रिणः सुवर्णपुङ्खान्सविषानिवोरगान् ।समाधिसंयोगविमोक्षतत्त्वविच्छरानथ त्रीन्कपिमूर्ध्न्यपातयत् ॥ १४ ॥
स तैः शरैर्मूर्ध्नि समं निपातितैः क्षरन्नसृग्दिग्धविवृत्तलोचनः ।नवोदितादित्यनिभः शरांशुमान्व्यराजतादित्य इवांशुमालिकः ॥ १५ ॥
ततः स पिङ्गाधिपमन्त्रिसत्तमः समीक्ष्य तं राजवरात्मजं रणे ।उदग्रचित्रायुधचित्रकार्मुकं जहर्ष चापूर्यत चाहवोन्मुखः ॥ १६ ॥
स मन्दराग्रस्थ इवांशुमाली विवृद्धकोपो बलवीर्यसंयुतः ।कुमारमक्षं सबलं सवाहनं ददाह नेत्राग्निमरीचिभिस्तदा ॥ १७ ॥
ततः स बाणासनशक्रकार्मुकः शरप्रवर्षो युधि राक्षसाम्बुदः ।शरान्मुमोचाशु हरीश्वराचले बलाहको वृष्टिमिवाचलोत्तमे ॥ १८ ॥
ततः कपिस्तं रणचण्डविक्रमं विवृद्धतेजोबलवीर्यसायकम् ।कुमारमक्षं प्रसमीक्ष्य संयुगे ननाद हर्षाद्घनतुल्यविक्रमः ॥ १९ ॥
स बालभावाद्युधि वीर्यदर्पितः प्रवृद्धमन्युः क्षतजोपमेक्षणः ।समाससादाप्रतिमं रणे कपिं गजो महाकूपमिवावृतं तृणैः ॥ २० ॥
स तेन बाणैः प्रसभं निपातितैश्चकार नादं घननादनिःस्वनः ।समुत्पपाताशु नभः स मारुतिर्भुजोरुविक्षेपण घोरदर्शनः ॥ २१ ॥
समुत्पतन्तं समभिद्रवद्बली स राक्षसानां प्रवरः प्रतापवान् ।रथी रथश्रेष्ठतमः किरञ्शरैः पयोधरः शैलमिवाश्मवृष्टिभिः ॥ २२ ॥
स ताञ्शरांस्तस्य विमोक्षयन्कपिश्चचार वीरः पथि वायुसेविते ।शरान्तरे मारुतवद्विनिष्पतन्मनोजवः संयति चण्डविक्रमः ॥ २३ ॥
तमात्तबाणासनमाहवोन्मुखं खमास्तृणन्तं विविधैः शरोत्तमैः ।अवैक्षताक्षं बहुमानचक्षुषा जगाम चिन्तां च स मारुतात्मजः ॥ २४ ॥
ततः शरैर्भिन्नभुजान्तरः कपिः कुमारवर्येण महात्मना नदन् ।महाभुजः कर्मविशेषतत्त्वविद्विचिन्तयामास रणे पराक्रमम् ॥ २५ ॥
अबालवद्बालदिवाकरप्रभः करोत्ययं कर्म महन्महाबलः ।न चास्य सर्वाहवकर्मशोभिनः प्रमापणे मे मतिरत्र जायते ॥ २६ ॥
अयं महात्मा च महांश्च वीर्यतः समाहितश्चातिसहश्च संयुगे ।असंशयं कर्मगुणोदयादयं सनागयक्षैर्मुनिभिश्च पूजितः ॥ २७ ॥
पराक्रमोत्साहविवृद्धमानसः समीक्षते मां प्रमुखागतः स्थितः ।पराक्रमो ह्यस्य मनांसि कम्पयेत्सुरासुराणामपि शीघ्रकारिणः ॥ २८ ॥
न खल्वयं नाभिभवेदुपेक्षितः पराक्रमो ह्यस्य रणे विवर्धते ।प्रमापणं त्वेव ममास्य रोचते न वर्धमानोऽग्निरुपेक्षितुं क्षमः ॥ २९ ॥
इति प्रवेगं तु परस्य तर्कयन्स्वकर्मयोगं च विधाय वीर्यवान् ।चकार वेगं तु महाबलस्तदा मतिं च चक्रेऽस्य वधे महाकपिः ॥ ३० ॥
स तस्य तानष्टहयान्महाजवान्समाहितान्भारसहान्विवर्तने ।जघान वीरः पथि वायुसेविते तलप्रहालैः पवनात्मजः कपिः ॥ ३१ ॥
ततस्तलेनाभिहतो महारथः स तस्य पिङ्गाधिपमन्त्रिनिर्जितः ।स भग्ननीडः परिमुक्तकूबरः पपात भूमौ हतवाजिरम्बरात् ॥ ३२ ॥
स तं परित्यज्य महारथो रथं सकार्मुकः खड्गधरः खमुत्पतत् ।तपोऽभियोगादृषिरुग्रवीर्यवान्विहाय देहं मरुतामिवालयम् ॥ ३३ ॥
ततः कपिस्तं विचरन्तमम्बरे पतत्रिराजानिलसिद्धसेविते ।समेत्य तं मारुतवेगविक्रमः क्रमेण जग्राह च पादयोर्दृढम् ॥ ३४ ॥
स तं समाविध्य सहस्रशः कपिर्महोरगं गृह्य इवाण्डजेश्वरः ।मुमोच वेगात्पितृतुल्यविक्रमो महीतले संयति वानरोत्तमः ॥ ३५ ॥
स भग्नबाहूरुकटीशिरो धरः क्षरन्नसृन्निर्मथितास्थिलोचनः ।स भिन्नसंधिः प्रविकीर्णबन्धनो हतः क्षितौ वायुसुतेन राक्षसः ॥ ३६ ॥
महाकपिर्भूमितले निपीड्य तं चकार रक्षोऽधिपतेर्महद्भयम् ॥ ३७ ॥
महर्षिभिश्चक्रचरैर्महाव्रतैः समेत्य भूतैश्च सयक्षपन्नगैः ।सुरैश्च सेन्द्रैर्भृशजातविस्मयैर्हते कुमारे स कपिर्निरीक्षितः ॥ ३८ ॥
निहत्य तं वज्रसुतोपमप्रभं कुमारमक्षं क्षतजोपमेक्षणम् ।तदेव वीरोऽभिजगाम तोरणं कृतक्षणः काल इव प्रजाक्षये ॥ ३९ ॥
« »