Click on words to see what they mean.

संदिष्टो राक्षसेन्द्रेण प्रहस्तस्य सुतो बली ।जम्बुमाली महादंष्ट्रो निर्जगाम धनुर्धरः ॥ १ ॥
रक्तमाल्याम्बरधरः स्रग्वी रुचिरकुण्डलः ।महान्विवृत्तनयनश्चण्डः समरदुर्जयः ॥ २ ॥
धनुः शक्रधनुः प्रख्यं महद्रुचिरसायकम् ।विस्फारयाणो वेगेन वज्राशनिसमस्वनम् ॥ ३ ॥
तस्य विस्फारघोषेण धनुषो महता दिशः ।प्रदिशश्च नभश्चैव सहसा समपूर्यत ॥ ४ ॥
रथेन खरयुक्तेन तमागतमुदीक्ष्य सः ।हनूमान्वेगसंपन्नो जहर्ष च ननाद च ॥ ५ ॥
तं तोरणविटङ्कस्थं हनूमन्तं महाकपिम् ।जम्बुमाली महाबाहुर्विव्याध निशितैः शरैः ॥ ६ ॥
अर्धचन्द्रेण वदने शिरस्येकेन कर्णिना ।बाह्वोर्विव्याध नाराचैर्दशभिस्तं कपीश्वरम् ॥ ७ ॥
तस्य तच्छुशुभे ताम्रं शरेणाभिहतं मुखम् ।शरदीवाम्बुजं फुल्लं विद्धं भास्कररश्मिना ॥ ८ ॥
चुकोप बाणाभिहतो राक्षसस्य महाकपिः ।ततः पार्श्वेऽतिविपुलां ददर्श महतीं शिलाम् ॥ ९ ॥
तरसा तां समुत्पाट्य चिक्षेप बलवद्बली ।तां शरैर्दशभिः क्रुद्धस्ताडयामास राक्षसः ॥ १० ॥
विपन्नं कर्म तद्दृष्ट्वा हनूमांश्चण्डविक्रमः ।सालं विपुलमुत्पाट्य भ्रामयामास वीर्यवान् ॥ ११ ॥
भ्रामयन्तं कपिं दृष्ट्वा सालवृक्षं महाबलम् ।चिक्षेप सुबहून्बाणाञ्जम्बुमाली महाबलः ॥ १२ ॥
सालं चतुर्भिर्चिच्छेद वानरं पञ्चभिर्भुजे ।उरस्येकेन बाणेन दशभिस्तु स्तनान्तरे ॥ १३ ॥
स शरैः पूरिततनुः क्रोधेन महता वृतः ।तमेव परिघं गृह्य भ्रामयामास वेगितः ॥ १४ ॥
अतिवेगोऽतिवेगेन भ्रामयित्वा बलोत्कटः ।परिघं पातयामास जम्बुमालेर्महोरसि ॥ १५ ॥
तस्य चैव शिरो नास्ति न बाहू न च जानुनी ।न धनुर्न रथो नाश्वास्तत्रादृश्यन्त नेषवः ॥ १६ ॥
स हतस्तरसा तेन जम्बुमाली महारथः ।पपात निहतो भूमौ चूर्णिताङ्गविभूषणः ॥ १७ ॥
जम्बुमालिं च निहतं किंकरांश्च महाबलान् ।चुक्रोध रावणः श्रुत्वा कोपसंरक्तलोचनः ॥ १८ ॥
स रोषसंवर्तितताम्रलोचनः प्रहस्तपुत्रे निहते महाबले ।अमात्यपुत्रानतिवीर्यविक्रमान्समादिदेशाशु निशाचरेश्वरः ॥ १९ ॥
« »