Click on words to see what they mean.

ततः शाखान्तरे लीनं दृष्ट्वा चलितमानसा ।सा ददर्श कपिं तत्र प्रश्रितं प्रियवादिनम् ॥ १ ॥
सा तु दृष्ट्वा हरिश्रेष्ठं विनीतवदुपस्थितम् ।मैथिली चिन्तयामास स्वप्नोऽयमिति भामिनी ॥ २ ॥
सा तं समीक्ष्यैव भृशं विसंज्ञा गतासुकल्पेव बभूव सीता ।चिरेण संज्ञां प्रतिलभ्य चैव विचिन्तयामास विशालनेत्रा ॥ ३ ॥
स्वप्नो मयायं विकृतोऽद्य दृष्टः शाखामृगः शास्त्रगणैर्निषिद्धः ।स्वस्त्यस्तु रामाय सलक्ष्मणाय तथा पितुर्मे जनकस्य राज्ञः ॥ ४ ॥
स्वप्नोऽपि नायं न हि मेऽस्ति निद्रा शोकेन दुःखेन च पीडितायाः ।सुखं हि मे नास्ति यतोऽस्मि हीना तेनेन्दुपूर्णप्रतिमाननेन ॥ ५ ॥
अहं हि तस्याद्य मनो भवेन संपीडिता तद्गतसर्वभावा ।विचिन्तयन्ती सततं तमेव तथैव पश्यामि तथा शृणोमि ॥ ६ ॥
मनोरथः स्यादिति चिन्तयामि तथापि बुद्ध्या च वितर्कयामि ।किं कारणं तस्य हि नास्ति रूपं सुव्यक्तरूपश्च वदत्ययं माम् ॥ ७ ॥
नमोऽस्तु वाचस्पतये सवज्रिणे स्वयम्भुवे चैव हुताशनाय ।अनेन चोक्तं यदिदं ममाग्रतो वनौकसा तच्च तथास्तु नान्यथा ॥ ८ ॥
« »