Click on words to see what they mean.

स लम्बशिखरे लम्बे लम्बतोयदसंनिभे ।सत्त्वमास्थाय मेधावी हनुमान्मारुतात्मजः ॥ १ ॥
निशि लङ्कां महासत्त्वो विवेश कपिकुञ्जरः ।रम्यकाननतोयाढ्यां पुरीं रावणपालिताम् ॥ २ ॥
शारदाम्बुधरप्रख्यैर्भवनैरुपशोभिताम् ।सागरोपमनिर्घोषां सागरानिलसेविताम् ॥ ३ ॥
सुपुष्टबलसंगुप्तां यथैव विटपावतीम् ।चारुतोरणनिर्यूहां पाण्डुरद्वारतोरणाम् ॥ ४ ॥
भुजगाचरितां गुप्तां शुभां भोगवतीमिव ।तां सविद्युद्घनाकीर्णां ज्योतिर्मार्गनिषेविताम् ॥ ५ ॥
चण्डमारुतनिर्ह्रादां यथेन्द्रस्यामरावतीम् ।शातकुम्भेन महता प्राकारेणाभिसंवृताम् ॥ ६ ॥
किङ्किणीजालघोषाभिः पताकाभिरलंकृताम् ।आसाद्य सहसा हृष्टः प्राकारमभिपेदिवान् ॥ ७ ॥
विस्मयाविष्टहृदयः पुरीमालोक्य सर्वतः ।जाम्बूनदमयैर्द्वारैर्वैदूर्यकृतवेदिकैः ॥ ८ ॥
मणिस्फटिक मुक्ताभिर्मणिकुट्टिमभूषितैः ।तप्तहाटकनिर्यूहै राजतामलपाण्डुरैः ॥ ९ ॥
वैदूर्यतलसोपानैः स्फाटिकान्तरपांसुभिः ।चारुसंजवनोपेतैः खमिवोत्पतितैः शुभैः ॥ १० ॥
क्रौञ्चबर्हिणसंघुष्टे राजहंसनिषेवितैः ।तूर्याभरणनिर्घोषैः सर्वतः प्रतिनादिताम् ॥ ११ ॥
वस्वोकसाराप्रतिमां समीक्ष्य नगरीं ततः ।खमिवोत्पतितां लङ्कां जहर्ष हनुमान्कपिः ॥ १२ ॥
तां समीक्ष्य पुरीं लङ्कां राक्षसाधिपतेः शुभाम् ।अनुत्तमामृद्धियुतां चिन्तयामास वीर्यवान् ॥ १३ ॥
नेयमन्येन नगरी शक्या धर्षयितुं बलात् ।रक्षिता रावणबलैरुद्यतायुधधारिभिः ॥ १४ ॥
कुमुदाङ्गदयोर्वापि सुषेणस्य महाकपेः ।प्रसिद्धेयं भवेद्भूमिर्मैन्दद्विविदयोरपि ॥ १५ ॥
विवस्वतस्तनूजस्य हरेश्च कुशपर्वणः ।ऋक्षस्य केतुमालस्य मम चैव गतिर्भवेत् ॥ १६ ॥
समीक्ष्य तु महाबाहो राघवस्य पराक्रमम् ।लक्ष्मणस्य च विक्रान्तमभवत्प्रीतिमान्कपिः ॥ १७ ॥
तां रत्नवसनोपेतां कोष्ठागारावतंसकाम् ।यन्त्रागारस्तनीमृद्धां प्रमदामिव भूषिताम् ॥ १८ ॥
तां नष्टतिमिरां दीपैर्भास्वरैश्च महागृहैः ।नगरीं राक्षसेन्द्रस्य ददर्श स महाकपिः ॥ १९ ॥
प्रविष्टः सत्त्वसंपन्नो निशायां मारुतात्मजः ।स महापथमास्थाय मुक्तापुष्पविराजितम् ॥ २० ॥
हसितोद्घुष्टनिनदैस्तूर्यघोष पुरः सरैः ।वज्राङ्कुशनिकाशैश्च वज्रजालविभूषितैः ।गृहमेधैः पुरी रम्या बभासे द्यौरिवाम्बुदैः ॥ २१ ॥
प्रजज्वाल तदा लङ्का रक्षोगणगृहैः शुभैः ।सिताभ्रसदृशैश्चित्रैः पद्मस्वस्तिकसंस्थितैः ।वर्धमानगृहैश्चापि सर्वतः सुविभाषितैः ॥ २२ ॥
तां चित्रमाल्याभरणां कपिराजहितंकरः ।राघवार्थं चरञ्श्रीमान्ददर्श च ननन्द च ॥ २३ ॥
शुश्राव मधुरं गीतं त्रिस्थानस्वरभूषितम् ।स्त्रीणां मदसमृद्धानां दिवि चाप्सरसामिव ॥ २४ ॥
शुश्राव काञ्चीनिनादं नूपुराणां च निःस्वनम् ।सोपाननिनदांश्चैव भवनेषु महात्मनम् ।आस्फोटितनिनादांश्च क्ष्वेडितांश्च ततस्ततः ॥ २५ ॥
स्वाध्याय निरतांश्चैव यातुधानान्ददर्श सः ।रावणस्तवसंयुक्तान्गर्जतो राक्षसानपि ॥ २६ ॥
राजमार्गं समावृत्य स्थितं रक्षोबलं महत् ।ददर्श मध्यमे गुल्मे राक्षसस्य चरान्बहून् ॥ २७ ॥
दीक्षिताञ्जटिलान्मुण्डान्गोऽजिनाम्बरवाससः ।दर्भमुष्टिप्रहरणानग्निकुण्डायुधांस्तथा ॥ २८ ॥
कूटमुद्गरपाणींश्च दण्डायुधधरानपि ।एकाक्षानेककर्णांश्च चलल्लम्बपयोधरान् ॥ २९ ॥
करालान्भुग्नवक्त्रांश्च विकटान्वामनांस्तथा ।धन्विनः खड्गिनश्चैव शतघ्नी मुसलायुधान् ।परिघोत्तमहस्तांश्च विचित्रकवचोज्ज्वलान् ॥ ३० ॥
नातिष्ठूलान्नातिकृशान्नातिदीर्घातिह्रस्वकान् ।विरूपान्बहुरूपांश्च सुरूपांश्च सुवर्चसः ॥ ३१ ॥
शक्तिवृक्षायुधांश्चैव पट्टिशाशनिधारिणः ।क्षेपणीपाशहस्तांश्च ददर्श स महाकपिः ॥ ३२ ॥
स्रग्विणस्त्वनुलिप्तांश्च वराभरणभूषितान् ।तीक्ष्णशूलधरांश्चैव वज्रिणश्च महाबलान् ॥ ३३ ॥
शतसाहस्रमव्यग्रमारक्षं मध्यमं कपिः ।प्राकारावृतमत्यन्तं ददर्श स महाकपिः ॥ ३४ ॥
त्रिविष्टपनिभं दिव्यं दिव्यनादविनादितम् ।वाजिहेषितसंघुष्टं नादितं भूषणैस्तथा ॥ ३५ ॥
रथैर्यानैर्विमानैश्च तथा गजहयैः शुभैः ।वारणैश्च चतुर्दन्तैः श्वेताभ्रनिचयोपमैः ॥ ३६ ॥
भूषितं रुचिरद्वारं मत्तैश्च मृगपक्षिभिः ।राक्षसाधिपतेर्गुप्तमाविवेश गृहं कपिः ॥ ३७ ॥
« »