Click on words to see what they mean.

ततः कुमुदषण्डाभो निर्मलं निर्मलः स्वयम् ।प्रजगाम नभश्चन्द्रो हंसो नीलमिवोदकम् ॥ १ ॥
साचिव्यमिव कुर्वन्स प्रभया निर्मलप्रभः ।चन्द्रमा रश्मिभिः शीतैः सिषेवे पवनात्मजम् ॥ २ ॥
स ददर्श ततः सीतां पूर्णचन्द्रनिभाननाम् ।शोकभारैरिव न्यस्तां भारैर्नावमिवाम्भसि ॥ ३ ॥
दिदृक्षमाणो वैदेहीं हनूमान्मारुतात्मजः ।स ददर्शाविदूरस्था राक्षसीर्घोरदर्शनाः ॥ ४ ॥
एकाक्षीमेककर्णां च कर्णप्रावरणां तथा ।अकर्णां शङ्कुकर्णां च मस्तकोच्छ्वासनासिकाम् ॥ ५ ॥
अतिकायोत्तमाङ्गीं च तनुदीर्घशिरोधराम् ।ध्वस्तकेशीं तथाकेशीं केशकम्बलधारिणीम् ॥ ६ ॥
लम्बकर्णललाटां च लम्बोदरपयोधराम् ।लम्बौष्ठीं चिबुकौष्ठीं च लम्बास्यां लम्बजानुकाम् ॥ ७ ॥
ह्रस्वां दीर्घां च कुब्जां च विकटां वामनां तथा ।करालां भुग्नवस्त्रां च पिङ्गाक्षीं विकृताननाम् ॥ ८ ॥
विकृताः पिङ्गलाः कालीः क्रोधनाः कलहप्रियाः ।कालायसमहाशूलकूटमुद्गरधारिणीः ॥ ९ ॥
वराहमृगशार्दूलमहिषाजशिवा मुखाः ।गजोष्ट्रहयपादाश्च निखातशिरसोऽपराः ॥ १० ॥
एकहस्तैकपादाश्च खरकर्ण्यश्वकर्णिकाः ।गोकर्णीर्हस्तिकर्णीश्च हरिकर्णीस्तथापराः ॥ ११ ॥
अनासा अतिनासाश्च तिर्यन्नासा विनासिकाः ।गजसंनिभनासाश्च ललाटोच्छ्वासनासिकाः ॥ १२ ॥
हस्तिपादा महापादा गोपादाः पादचूलिकाः ।अतिमात्रशिरोग्रीवा अतिमात्रकुचोदरीः ॥ १३ ॥
अतिमात्रास्य नेत्राश्च दीर्घजिह्वानखास्तथा ।अजामुखीर्हस्तिमुखीर्गोमुखीः सूकरीमुखीः ॥ १४ ॥
हयोष्ट्रखरवक्त्राश्च राक्षसीर्घोरदर्शनाः ।शूलमुद्गरहस्ताश्च क्रोधनाः कलहप्रियाः ॥ १५ ॥
कराला धूम्रकेशीश्च रक्षसीर्विकृताननाः ।पिबन्तीः सततं पानं सदा मांससुराप्रियाः ॥ १६ ॥
मांसशोणितदिग्धाङ्गीर्मांसशोणितभोजनाः ।ता ददर्श कपिश्रेष्ठो रोमहर्षणदर्शनाः ॥ १७ ॥
स्कन्धवन्तमुपासीनाः परिवार्य वनस्पतिम् ।तस्याधस्ताच्च तां देवीं राजपुत्रीमनिन्दिताम् ॥ १८ ॥
लक्षयामास लक्ष्मीवान्हनूमाञ्जनकात्मजाम् ।निष्प्रभां शोकसंतप्तां मलसंकुलमूर्धजाम् ॥ १९ ॥
क्षीणपुण्यां च्युतां भूमौ तारां निपतितामिव ।चारित्र्य व्यपदेशाढ्यां भर्तृदर्शनदुर्गताम् ॥ २० ॥
भूषणैरुत्तमैर्हीनां भर्तृवात्सल्यभूषिताम् ।राक्षसाधिपसंरुद्धां बन्धुभिश्च विनाकृताम् ॥ २१ ॥
वियूथां सिंहसंरुद्धां बद्धां गजवधूमिव ।चन्द्रलेखां पयोदान्ते शारदाभ्रैरिवावृताम् ॥ २२ ॥
क्लिष्टरूपामसंस्पर्शादयुक्तामिव वल्लकीम् ।सीतां भर्तृहिते युक्तामयुक्तां रक्षसां वशे ॥ २३ ॥
अशोकवनिकामध्ये शोकसागरमाप्लुताम् ।ताभिः परिवृतां तत्र सग्रहामिव रोहिणीम् ।ददर्श हनुमान्देवीं लतामकुसुमामिव ॥ २४ ॥
सा मलेन च दिग्धाङ्गी वपुषा चाप्यलंकृता ।मृणाली पङ्कदिग्धेव विभाति च न भाति च ॥ २५ ॥
मलिनेन तु वस्त्रेण परिक्लिष्टेन भामिनीम् ।संवृतां मृगशावाक्षीं ददर्श हनुमान्कपिः ॥ २६ ॥
तां देवीं दीनवदनामदीनां भर्तृतेजसा ।रक्षितां स्वेन शीलेन सीतामसितलोचनाम् ॥ २७ ॥
तां दृष्ट्वा हनुमान्सीतां मृगशावनिभेक्षणाम् ।मृगकन्यामिव त्रस्तां वीक्षमाणां समन्ततः ॥ २८ ॥
दहन्तीमिव निःश्वासैर्वृक्षान्पल्लवधारिणः ।संघातमिव शोकानां दुःखस्योर्मिमिवोत्थिताम् ॥ २९ ॥
तां क्षामां सुविभक्ताङ्गीं विनाभरणशोभिनीम् ॥ ३० ॥
प्रहर्षमतुलं लेभे मारुतिः प्रेक्ष्य मैथिलीम् ।हर्षजानि च सोऽश्रूणि तां दृष्ट्वा मदिरेक्षणाम् ।मुमोच हनुमांस्तत्र नमश्चक्रे च राघवम् ॥ ३१ ॥
नमस्कृत्वा च रामाय लक्ष्मणाय च वीर्यवान् ।सीतादर्शनसंहृष्टो हनूमान्संवृतोऽभवत् ॥ ३२ ॥
« »