Click on words to see what they mean.

संस्तूयमानो हनुमान्व्यवर्धत महाबलः ।समाविध्य च लाङ्गूलं हर्षाच्च बलमेयिवान् ॥ १ ॥
तस्य संस्तूयमानस्य सर्वैर्वानरपुंगवैः ।तेजसापूर्यमाणस्य रूपमासीदनुत्तमम् ॥ २ ॥
यथा विजृम्भते सिंहो विवृद्धो गिरिगह्वरे ।मारुतस्यौरसः पुत्रस्तथा संप्रति जृम्भते ॥ ३ ॥
अशोभत मुखं तस्य जृम्भमाणस्य धीमतः ।अम्बरीषोपमं दीप्तं विधूम इव पावकः ॥ ४ ॥
हरीणामुत्थितो मध्यात्संप्रहृष्टतनूरुहः ।अभिवाद्य हरीन्वृद्धान्हनुमानिदमब्रवीत् ॥ ५ ॥
अरुजन्पर्वताग्राणि हुताशनसखोऽनिलः ।बलवानप्रमेयश्च वायुराकाशगोचरः ॥ ६ ॥
तस्याहं शीघ्रवेगस्य शीघ्रगस्य महात्मनः ।मारुतस्यौरसः पुत्रः प्लवने नास्ति मे समः ॥ ७ ॥
उत्सहेयं हि विस्तीर्णमालिखन्तमिवाम्बरम् ।मेरुं गिरिमसंगेन परिगन्तुं सहस्रशः ॥ ८ ॥
बाहुवेगप्रणुन्नेन सागरेणाहमुत्सहे ।समाप्लावयितुं लोकं सपर्वतनदीह्रदम् ॥ ९ ॥
ममोरुजङ्घावेगेन भविष्यति समुत्थितः ।संमूर्छितमहाग्राहः समुद्रो वरुणालयः ॥ १० ॥
पन्नगाशनमाकाशे पतन्तं पक्षिसेवितम् ।वैनतेयमहं शक्तः परिगन्तुं सहस्रशः ॥ ११ ॥
उदयात्प्रस्थितं वापि ज्वलन्तं रश्मिमालिनम् ।अनस्तमितमादित्यमभिगन्तुं समुत्सहे ॥ १२ ॥
ततो भूमिमसंस्पृश्य पुनरागन्तुमुत्सहे ।प्रवेगेनैव महता भीमेन प्लवगर्षभाः ॥ १३ ॥
उत्सहेयमतिक्रान्तुं सर्वानाकाशगोचरान् ।सागरं क्षोभयिष्यामि दारयिष्यामि मेदिनीम् ॥ १४ ॥
पर्वतान्कम्पयिष्यामि प्लवमानः प्लवंगमाः ।हरिष्ये चोरुवेगेन प्लवमानो महार्णवम् ॥ १५ ॥
लतानां वीरुधां पुष्पं पादपानां च सर्वशः ।अनुयास्यति मामद्य प्लवमानं विहायसा ।भविष्यति हि मे पन्थाः स्वातेः पन्था इवाम्बरे ॥ १६ ॥
चरन्तं घोरमाकाशमुत्पतिष्यन्तमेव च ।द्रक्ष्यन्ति निपतन्तं च सर्वभूतानि वानराः ॥ १७ ॥
महामेरुप्रतीकाशं मां द्रक्ष्यध्वं प्लवंगमाः ।दिवमावृत्य गच्छन्तं ग्रसमानमिवाम्बरम् ॥ १८ ॥
विधमिष्यामि जीमूतान्कम्पयिष्यामि पर्वतान् ।सागरं क्षोभयिष्यामि प्लवमानः समाहितः ॥ १९ ॥
वैनतेयस्य वा शक्तिर्मम वा मारुतस्य वा ।ऋते सुपर्णराजानं मारुतं वा महाबलम् ।न हि भूतं प्रपश्यामि यो मां प्लुतमनुव्रजेत् ॥ २० ॥
निमेषान्तरमात्रेण निरालम्भनमम्बरम् ।सहसा निपतिष्यामि घनाद्विद्युदिवोत्थिता ॥ २१ ॥
भविष्यति हि मे रूपं प्लवमानस्य सागरम् ।विष्णोः प्रक्रममाणस्य तदा त्रीन्विक्रमानिव ॥ २२ ॥
बुद्ध्या चाहं प्रपश्यामि मनश्चेष्टा च मे तथा ।अहं द्रक्ष्यामि वैदेहीं प्रमोदध्वं प्लवंगमाः ॥ २३ ॥
मारुतस्य समो वेगे गरुडस्य समो जवे ।अयुतं योजनानां तु गमिष्यामीति मे मतिः ॥ २४ ॥
वासवस्य सवज्रस्य ब्रह्मणो वा स्वयम्भुवः ।विक्रम्य सहसा हस्तादमृतं तदिहानये ।लङ्कां वापि समुत्क्षिप्य गच्छेयमिति मे मतिः ॥ २५ ॥
तमेवं वानरश्रेष्ठं गर्जन्तममितौजसं ।उवाच परिसंहृष्टो जाम्बवान्हरिसत्तमः ॥ २६ ॥
वीर केसरिणः पुत्र वेगवन्मारुतात्मज ।ज्ञातीनां विपुलं शोकस्त्वया तात प्रणाशितः ॥ २७ ॥
तव कल्याणरुचयः कपिमुख्याः समागताः ।मङ्गलं कार्यसिद्ध्यर्थं करिष्यन्ति समाहिताः ॥ २८ ॥
ऋषीणां च प्रसादेन कपिवृद्धमतेन च ।गुरूणां च प्रसादेन प्लवस्व त्वं महार्णवम् ॥ २९ ॥
स्थास्यामश्चैकपादेन यावदागमनं तव ।त्वद्गतानि च सर्वेषां जीवितानि वनौकसाम् ॥ ३० ॥
ततस्तु हरिशार्दूलस्तानुवाच वनौकसः ।नेयं मम मही वेगं प्लवने धारयिष्यति ॥ ३१ ॥
एतानि हि नगस्यास्य शिलासंकटशालिनः ।शिखराणि महेन्द्रस्य स्थिराणि च महान्ति च ॥ ३२ ॥
एतानि मम निष्पेषं पादयोः पततां वराः ।प्लवतो धारयिष्यन्ति योजनानामितः शतम् ॥ ३३ ॥
ततस्तु मारुतप्रख्यः स हरिर्मारुतात्मजः ।आरुरोह नगश्रेष्ठं महेन्द्रमरिमर्दनः ॥ ३४ ॥
वृतं नानाविधैर्वृक्षैर्मृगसेवितशाद्वलम् ।लताकुसुमसंबाधं नित्यपुष्पफलद्रुमम् ॥ ३५ ॥
सिंहशार्दूलचरितं मत्तमातङ्गसेवितम् ।मत्तद्विजगणोद्घुष्टं सलिलोत्पीडसंकुलम् ॥ ३६ ॥
महद्भिरुच्छ्रितं शृङ्गैर्महेन्द्रं स महाबलः ।विचचार हरिश्रेष्ठो महेन्द्रसमविक्रमः ॥ ३७ ॥
पादाभ्यां पीडितस्तेन महाशैलो महात्मना ।ररास सिंहाभिहतो महान्मत्त इव द्विपः ॥ ३८ ॥
मुमोच सलिलोत्पीडान्विप्रकीर्णशिलोच्चयः ।वित्रस्तमृगमातङ्गः प्रकम्पितमहाद्रुमः ॥ ३९ ॥
नानागन्धर्वमिथुनैः पानसंसर्गकर्कशैः ।उत्पतद्भिर्विहंगैश्च विद्याधरगणैरपि ॥ ४० ॥
त्यज्यमानमहासानुः संनिलीनमहोरगः ।शैलशृङ्गशिलोद्घातस्तदाभूत्स महागिरिः ॥ ४१ ॥
निःश्वसद्भिस्तदा तैस्तु भुजगैरर्धनिःसृतैः ।सपताक इवाभाति स तदा धरणीधरः ॥ ४२ ॥
ऋषिभिस्त्रास संभ्रान्तैस्त्यज्यमानः शिलोच्चयः ।सीदन्महति कान्तारे सार्थहीन इवाध्वगः ॥ ४३ ॥
स वेगवान्वेगसमाहितात्मा हरिप्रवीरः परवीरहन्ता ।मनः समाधाय महानुभावो जगाम लङ्कां मनसा मनस्वी ॥ ४४ ॥
« »