Click on words to see what they mean.

ततोऽङ्गदवचः श्रुत्वा सर्वे ते वानरोत्तमाः ।स्वं स्वं गतौ समुत्साहमाहुस्तत्र यथाक्रमम् ॥ १ ॥
गजो गवाक्षो गवयः शरभो गन्धमादनः ।मैन्दश्च द्विविदश्चैव सुषेणो जाम्बवांस्तथा ॥ २ ॥
आबभाषे गजस्तत्र प्लवेयं दशयोजनम् ।गवाक्षो योजनान्याह गमिष्यामीति विंशतिम् ॥ ३ ॥
गवयो वानरस्तत्र वानरांस्तानुवाच ह ।त्रिंशतं तु गमिष्यामि योजनानां प्लवंगमाः ॥ ४ ॥
शरभो वानरस्तत्र वानरांस्तानुवाच ह ।चत्वारिंशद्गमिष्यामि योजनानां न संशयः ॥ ५ ॥
वानरांस्तु महातेजा अब्रवीद्गन्धमादनः ।योजनानां गमिष्यामि पञ्चाशत्तु न संशयः ॥ ६ ॥
मैन्दस्तु वानरस्तत्र वानरांस्तानुवाच ह ।योजनानां परं षष्टिमहं प्लवितुमुत्सहे ॥ ७ ॥
ततस्तत्र महातेजा द्विविदः प्रत्यभाषत ।गमिष्यामि न संदेहः सप्ततिं योजनान्यहम् ॥ ८ ॥
सुषेणस्तु हरिश्रेष्ठः प्रोक्तवान्कपिसत्तमान् ।अशीतिं योजनानां तु प्लवेयं प्लवगर्षभाः ॥ ९ ॥
तेषां कथयतां तत्र सर्वांस्ताननुमान्य च ।ततो वृद्धतमस्तेषां जाम्बवान्प्रत्यभाषत ॥ १० ॥
पूर्वमस्माकमप्यासीत्कश्चिद्गतिपराक्रमः ।ते वयं वयसः पारमनुप्राप्ताः स्म साम्प्रतम् ॥ ११ ॥
किं तु नैवं गते शक्यमिदं कार्यमुपेक्षितुम् ।यदर्थं कपिराजश्च रामश्च कृतनिश्चयौ ॥ १२ ॥
साम्प्रतं कालभेदेन या गतिस्तां निबोधत ।नवतिं योजनानां तु गमिष्यामि न संशयः ॥ १३ ॥
तांश्च सर्वान्हरिश्रेष्ठाञ्जाम्बवान्पुनरब्रवीत् ।न खल्वेतावदेवासीद्गमने मे पराक्रमः ॥ १४ ॥
मया महाबलैश्चैव यज्ञे विष्णुः सनातनः ।प्रदक्षिणीकृतः पूर्वं क्रममाणस्त्रिविक्रमः ॥ १५ ॥
स इदानीमहं वृद्धः प्लवने मन्दविक्रमः ।यौवने च तदासीन्मे बलमप्रतिमं परैः ॥ १६ ॥
संप्रत्येतावतीं शक्तिं गमने तर्कयाम्यहम् ।नैतावता च संसिद्धिः कार्यस्यास्य भविष्यति ॥ १७ ॥
अथोत्तरमुदारार्थमब्रवीदङ्गदस्तदा ।अनुमान्य महाप्राज्ञो जाम्बवन्तं महाकपिम् ॥ १८ ॥
अहमेतद्गमिष्यामि योजनानां शतं महत् ।निवर्तने तु मे शक्तिः स्यान्न वेति न निश्चितम् ॥ १९ ॥
तमुवाच हरिश्रेष्ठो जाम्बवान्वाक्यकोविदः ।ज्ञायते गमने शक्तिस्तव हर्यृक्षसत्तम ॥ २० ॥
कामं शतसहस्रं वा न ह्येष विधिरुच्यते ।योजनानां भवाञ्शक्तो गन्तुं प्रतिनिवर्तितुम् ॥ २१ ॥
न हि प्रेषयिता तत स्वामी प्रेष्यः कथंचन ।भवतायं जनः सर्वः प्रेष्यः प्लवगसत्तम ॥ २२ ॥
भवान्कलत्रमस्माकं स्वामिभावे व्यवस्थितः ।स्वामी कलत्रं सैन्यस्य गतिरेषा परंतप ॥ २३ ॥
तस्मात्कलत्रवत्तात प्रतिपाल्यः सदा भवान् ।अपि चैतस्य कार्यस्य भवान्मूलमरिंदम ॥ २४ ॥
मूलमर्थस्य संरक्ष्यमेष कार्यविदां नयः ।मूले हि सति सिध्यन्ति गुणाः पुष्पफलादयः ॥ २५ ॥
तद्भवानस्या कार्यस्य साधने सत्यविक्रमः ।बुद्धिविक्रमसंपन्नो हेतुरत्र परंतपः ॥ २६ ॥
गुरुश्च गुरुपुत्रश्च त्वं हि नः कपिसत्तम ।भवन्तमाश्रित्य वयं समर्था ह्यर्थसाधने ॥ २७ ॥
उक्तवाक्यं महाप्राज्ञं जाम्बवन्तं महाकपिः ।प्रत्युवाचोत्तरं वाक्यं वालिसूनुरथाङ्गदः ॥ २८ ॥
यदि नाहं गमिष्यामि नान्यो वानरपुंगवः ।पुनः खल्विदमस्माभिः कार्यं प्रायोपवेशनम् ॥ २९ ॥
न ह्यकृत्वा हरिपतेः संदेशं तस्य धीमतः ।तत्रापि गत्वा प्राणानां पश्यामि परिरक्षणम् ॥ ३० ॥
स हि प्रसादे चात्यर्थं कोपे च हरिरीश्वरः ।अतीत्य तस्य संदेशं विनाशो गमने भवेत् ॥ ३१ ॥
तद्यथा ह्यस्य कार्यस्य न भवत्यन्यथा गतिः ।तद्भवानेव दृष्टार्थः संचिन्तयितुमर्हति ॥ ३२ ॥
सोऽङ्गदेन तदा वीरः प्रत्युक्तः प्लवगर्षभः ।जाम्बवानुत्तरं वाक्यं प्रोवाचेदं ततोऽङ्गदम् ॥ ३३ ॥
अस्य ते वीर कार्यस्य न किंचित्परिहीयते ।एष संचोदयाम्येनं यः कार्यं साधयिष्यति ॥ ३४ ॥
ततः प्रतीतं प्लवतां वरिष्ठमेकान्तमाश्रित्य सुखोपविष्टम् ।संचोदयामास हरिप्रवीरो हरिप्रवीरं हनुमन्तमेव ॥ ३५ ॥
« »