Click on words to see what they mean.

ततः प्रस्थाप्य सुग्रीवस्तन्महद्वानरं बलम् ।दक्षिणां प्रेषयामास वानरानभिलक्षितान् ॥ १ ॥
नीलमग्निसुतं चैव हनुमन्तं च वानरम् ।पितामहसुतं चैव जाम्बवन्तं महाकपिम् ॥ २ ॥
सुहोत्रं च शरीरं च शरगुल्मं तथैव च ।गजं गवाक्षं गवयं सुषेणमृषभं तथा ॥ ३ ॥
मैन्दं च द्विविदं चैव विजयं गन्धमादनम् ।उल्कामुखमसङ्गं च हुताशन सुतावुभौ ॥ ४ ॥
अङ्गदप्रमुखान्वीरान्वीरः कपिगणेश्वरः ।वेगविक्रमसंपन्नान्संदिदेश विशेषवित् ॥ ५ ॥
तेषामग्रेसरं चैव महद्बलमसंगगम् ।विधाय हरिवीराणामादिशद्दक्षिणां दिशम् ॥ ६ ॥
ये केचन समुद्देशास्तस्यां दिशि सुदुर्गमाः ।कपीशः कपिमुख्यानां स तेषां तानुदाहरत् ॥ ७ ॥
सहस्रशिरसं विन्ध्यं नानाद्रुमलतावृतम् ।नर्मदां च नदीं दुर्गां महोरगनिषेविताम् ॥ ८ ॥
ततो गोदावरीं रम्यां कृष्णावेणीं महानदीम् ।वरदां च महाभागां महोरगनिषेविताम् ॥ ९ ॥
मेखलानुत्कलांश्चैव दशार्णनगराण्यपि ।अवन्तीमभ्रवन्तीं च सर्वमेवानुपश्यत ॥ १० ॥
विदर्भानृषिकांश्चैव रम्यान्माहिषकानपि ।तथा बङ्गान्कलिङ्गांश्च कौशिकांश्च समन्ततः ॥ ११ ॥
अन्वीक्ष्य दण्डकारण्यं सपर्वतनदीगुहम् ।नदीं गोदावरीं चैव सर्वमेवानुपश्यत ॥ १२ ॥
तथैवान्ध्रांश्च पुण्ड्रांश्च चोलान्पाण्ड्यान्सकेरलान् ।अयोमुखश्च गन्तव्यः पर्वतो धातुमण्डितः ॥ १३ ॥
विचित्रशिखरः श्रीमांश्चित्रपुष्पितकाननः ।सचन्दनवनोद्देशो मार्गितव्यो महागिरिः ॥ १४ ॥
ततस्तामापगां दिव्यां प्रसन्नसलिलां शिवाम् ।तत्र द्रक्ष्यथ कावेरीं विहृतामप्सरोगणैः ॥ १५ ॥
तस्यासीनं नगस्याग्रे मलयस्य महौजसं ।द्रक्ष्यथादित्यसंकाशमगस्त्यमृषिसत्तमम् ॥ १६ ॥
ततस्तेनाभ्यनुज्ञाताः प्रसन्नेन महात्मना ।ताम्रपर्णीं ग्राहजुष्टां तरिष्यथ महानदीम् ॥ १७ ॥
सा चन्दनवनैर्दिव्यैः प्रच्छन्ना द्वीप शालिनी ।कान्तेव युवतिः कान्तं समुद्रमवगाहते ॥ १८ ॥
ततो हेममयं दिव्यं मुक्तामणिविभूषितम् ।युक्तं कवाटं पाण्ड्यानां गता द्रक्ष्यथ वानराः ॥ १९ ॥
ततः समुद्रमासाद्य संप्रधार्यार्थनिश्चयम् ।अगस्त्येनान्तरे तत्र सागरे विनिवेशितः ॥ २० ॥
चित्रनानानगः श्रीमान्महेन्द्रः पर्वतोत्तमः ।जातरूपमयः श्रीमानवगाढो महार्णवम् ॥ २१ ॥
नानाविधैर्नगैः फुल्लैर्लताभिश्चोपशोभितम् ।देवर्षियक्षप्रवरैरप्सरोभिश्च सेवितम् ॥ २२ ॥
सिद्धचारणसंघैश्च प्रकीर्णं सुमनोहरम् ।तमुपैति सहस्राक्षः सदा पर्वसु पर्वसु ॥ २३ ॥
द्वीपस्तस्यापरे पारे शतयोजनमायतः ।अगम्यो मानुषैर्दीप्तस्तं मार्गध्वं समन्ततः ।तत्र सर्वात्मना सीता मार्गितव्या विशेषतः ॥ २४ ॥
स हि देशस्तु वध्यस्य रावणस्य दुरात्मनः ।राक्षसाधिपतेर्वासः सहस्राक्षसमद्युतेः ॥ २५ ॥
दक्षिणस्य समुद्रस्य मध्ये तस्य तु राक्षसी ।अङ्गारकेति विख्याता छायामाक्षिप्य भोजिनी ॥ २६ ॥
तमतिक्रम्य लक्ष्मीवान्समुद्रे शतयोजने ।गिरिः पुष्पितको नाम सिद्धचारणसेवितः ॥ २७ ॥
चन्द्रसूर्यांशुसंकाशः सागराम्बुसमावृतः ।भ्राजते विपुलैः शृङ्गैरम्बरं विलिखन्निव ॥ २८ ॥
तस्यैकं काञ्चनं शृङ्गं सेवते यं दिवाकरः ।श्वेतं राजतमेकं च सेवते यं निशाकरः ॥ २९ ॥
न तं कृतघ्नाः पश्यन्ति न नृशंसा न नास्तिकाः ।प्रणम्य शिरसा शैलं तं विमार्गत वानराः ॥ ३० ॥
तमतिक्रम्य दुर्धर्षाः सूर्यवान्नाम पर्वतः ।अध्वना दुर्विगाहेन योजनानि चतुर्दश ॥ ३१ ॥
ततस्तमप्यतिक्रम्य वैद्युतो नाम पर्वतः ।सर्वकामफलैर्वृक्षैः सर्वकालमनोहरैः ॥ ३२ ॥
तत्र भुक्त्वा वरार्हाणि मूलानि च फलानि च ।मधूनि पीत्वा मुख्यानि परं गच्छत वानराः ॥ ३३ ॥
तत्र नेत्रमनःकान्तः कुञ्जरो नाम पर्वतः ।अगस्त्यभवनं यत्र निर्मितं विश्वकर्मणा ॥ ३४ ॥
तत्र योजनविस्तारमुच्छ्रितं दशयोजनम् ।शरणं काञ्चनं दिव्यं नानारत्नविभूषितम् ॥ ३५ ॥
तत्र भोगवती नाम सर्पाणामालयः पुरी ।विशालरथ्या दुर्धर्षा सर्वतः परिरक्षिता ।रक्षिता पन्नगैर्घोरैस्तीक्ष्णदंष्ट्रैर्महाविषैः ॥ ३६ ॥
सर्पराजो महाघोरो यस्यां वसति वासुकिः ।निर्याय मार्गितव्या च सा च भोगवती पुरी ॥ ३७ ॥
तं च देशमतिक्रम्य महानृषभसंस्थितः ।सर्वरत्नमयः श्रीमानृषभो नाम पर्वतः ॥ ३८ ॥
गोशीर्षकं पद्मकं च हरिश्यामं च चन्दनम् ।दिव्यमुत्पद्यते यत्र तच्चैवाग्निसमप्रभम् ॥ ३९ ॥
न तु तच्चन्दनं दृष्ट्वा स्प्रष्टव्यं च कदाचन ।रोहिता नाम गन्धर्वा घोरा रक्षन्ति तद्वनम् ॥ ४० ॥
तत्र गन्धर्वपतयः पञ्चसूर्यसमप्रभाः ।शैलूषो ग्रामणीर्भिक्षुः शुभ्रो बभ्रुस्तथैव च ॥ ४१ ॥
अन्ते पृथिव्या दुर्धर्षास्तत्र स्वर्गजितः स्थिताः ।ततः परं न वः सेव्यः पितृलोकः सुदारुणः ।राजधानी यमस्यैषा कष्टेन तमसावृता ॥ ४२ ॥
एतावदेव युष्माभिर्वीरा वानरपुंगवाः ।शक्यं विचेतुं गन्तुं वा नातो गतिमतां गतिः ॥ ४३ ॥
सर्वमेतत्समालोक्य यच्चान्यदपि दृश्यते ।गतिं विदित्वा वैदेह्याः संनिवर्तितमर्हथ ॥ ४४ ॥
यस्तु मासान्निवृत्तोऽग्रे दृष्टा सीतेति वक्ष्यति ।मत्तुल्यविभवो भोगैः सुखं स विहरिष्यति ॥ ४५ ॥
ततः प्रियतरो नास्ति मम प्राणाद्विशेषतः ।कृतापराधो बहुशो मम बन्धुर्भविष्यति ॥ ४६ ॥
अमितबलपराक्रमा भवन्तो विपुलगुणेषु कुलेषु च प्रसूताः ।मनुजपतिसुतां यथा लभध्वं तदधिगुणं पुरुषार्थमारभध्वम् ॥ ४७ ॥
« »