Click on words to see what they mean.

गुहां प्रविष्टे सुग्रीवे विमुक्ते गगने घनैः ।वर्षरात्रोषितो रामः कामशोकाभिपीडितः ॥ १ ॥
पाण्डुरं गगनं दृष्ट्वा विमलं चन्द्रमण्डलम् ।शारदीं रजनीं चैव दृष्ट्वा ज्योत्स्नानुलेपनाम् ॥ २ ॥
कामवृत्तं च सुग्रीवं नष्टां च जनकात्मजाम् ।बुद्ध्वा कालमतीतं च मुमोह परमातुरः ॥ ३ ॥
स तु संज्ञामुपागम्य मुहूर्तान्मतिमान्पुनः ।मनःस्थामपि वैदेहीं चिन्तयामास राघवः ॥ ४ ॥
आसीनः पर्वतस्याग्रे हेमधातुविभूषिते ।शारदं गगनं दृष्ट्व जगाम मनसा प्रियाम् ॥ ५ ॥
दृष्ट्वा च विमलं व्योम गतविद्युद्बलाहकम् ।सारसारवसंघुष्टं विललापार्तया गिरा ॥ ६ ॥
सारसारवसंनादैः सारसारवनादिनी ।याश्रमे रमते बाला साद्य मे रमते कथम् ॥ ७ ॥
पुष्पितांश्चासनान्दृष्ट्वा काञ्चनानिव निर्मलान् ।कथं स रमते बाला पश्यन्ती मामपश्यती ॥ ८ ॥
या पुरा कलहंसानां स्वरेण कलभाषिणी ।बुध्यते चारुसर्वाङ्गी साद्य मे बुध्यते कथम् ॥ ९ ॥
निःस्वनं चक्रवाकानां निशम्य सहचारिणाम् ।पुण्डरीकविशालाक्षी कथमेषा भविष्यति ॥ १० ॥
सरांसि सरितो वापीः काननानि वनानि च ।तां विना मृगशावाक्षीं चरन्नाद्य सुखं लभे ॥ ११ ॥
अपि तां मद्वियोगाच्च सौकुमार्याच्च भामिनीम् ।न दूरं पीडयेत्कामः शरद्गुणनिरन्तरः ॥ १२ ॥
एवमादि नरश्रेष्ठो विललाप नृपात्मजः ।विहंग इव सारङ्गः सलिलं त्रिदशेश्वरात् ॥ १३ ॥
ततश्चञ्चूर्य रम्येषु फलार्थी गिरिसानुषु ।ददर्श पर्युपावृत्तो लक्ष्मीवाँल्लक्ष्मणोऽग्रजम् ॥ १४ ॥
तं चिन्तया दुःसहया परीतं विसंज्ञमेकं विजने मनस्वी ।भ्रातुर्विषादात्परितापदीनः समीक्ष्य सौमित्रिरुवाच रामम् ॥ १५ ॥
किमार्य कामस्य वशंगतेन किमात्मपौरुष्यपराभवेन ।अयं सदा संहृइयते समाधिः किमत्र योगेन निवर्तितेन ॥ १६ ॥
क्रियाभियोगं मनसः प्रसादं समाधियोगानुगतं च कालम् ।सहायसामर्थ्यमदीनसत्त्व स्वकर्महेतुं च कुरुष्व हेतुम् ॥ १७ ॥
न जानकी मानववंशनाथ त्वया सनाथा सुलभा परेण ।न चाग्निचूडां ज्वलितामुपेत्य न दह्यते वीरवरार्ह कश्चित् ॥ १८ ॥
सलक्ष्मणं लक्ष्मणमप्रधृष्यं स्वभावजं वाक्यमुवाच रामः ।हितं च पथ्यं च नयप्रसक्तं ससामधर्मार्थसमाहितं च ॥ १९ ॥
निःसंशयं कार्यमवेक्षितव्यं क्रियाविशेषो ह्यनुवर्तितव्यः ।ननु प्रवृत्तस्य दुरासदस्य कुमारकार्यस्य फलं न चिन्त्यम् ॥ २० ॥
अथ पद्मपलाशाक्षीं मैथिलीमनुचिन्तयन् ।उवाच लक्ष्मणं रामो मुखेन परिशुष्यता ॥ २१ ॥
तर्पयित्वा सहस्राक्षः सलिलेन वसुंधराम् ।निर्वर्तयित्वा सस्यानि कृतकर्मा व्यवस्थितः ॥ २२ ॥
स्निग्धगम्भीरनिर्घोषाः शैलद्रुमपुरोगमाः ।विसृज्य सलिलं मेघाः परिश्रान्ता नृपात्मज ॥ २३ ॥
नीलोत्पलदलश्यामः श्यामीकृत्वा दिशो दश ।विमदा इव मातङ्गाः शान्तवेगाः पयोधराः ॥ २४ ॥
जलगर्भा महावेगाः कुटजार्जुनगन्धिनः ।चरित्वा विरताः सौम्य वृष्टिवाताः समुद्यताः ॥ २५ ॥
घनानां वारणानां च मयूराणां च लक्ष्मण ।नादः प्रस्रवणानां च प्रशान्तः सहसानघ ॥ २६ ॥
अभिवृष्टा महामेघैर्निर्मलाश्चित्रसानवः ।अनुलिप्ता इवाभान्ति गिरयश्चन्द्ररश्मिभिः ॥ २७ ॥
दर्शयन्ति शरन्नद्यः पुलिनानि शनैः शनैः ।नवसंगमसव्रीडा जघनानीव योषितः ॥ २८ ॥
प्रसन्नसलिलाः सौम्य कुररीभिर्विनादिताः ।चक्रवाकगणाकीर्णा विभान्ति सलिलाशयाः ॥ २९ ॥
अन्योन्यबद्धवैराणां जिगीषूणां नृपात्मज ।उद्योगसमयः सौम्य पार्थिवानामुपस्थितः ॥ ३० ॥
इयं सा प्रथमा यात्रा पार्थिवानां नृपात्मज ।न च पश्यामि सुग्रीवमुद्योगं वा तथाविधम् ॥ ३१ ॥
चत्वारो वार्षिका मासा गता वर्षशतोपमाः ।मम शोकाभितप्तस्य सौम्य सीतामपश्यतः ॥ ३२ ॥
प्रियाविहीने दुःखार्ते हृतराज्ये विवासिते ।कृपां न कुरुते राजा सुग्रीवो मयि लक्ष्मण ॥ ३३ ॥
अनाथो हृतराज्योऽयं रावणेन च धर्षितः ।दीनो दूरगृहः कामी मां चैव शरणं गतः ॥ ३४ ॥
इत्येतैः कारणैः सौम्य सुग्रीवस्य दुरात्मनः ।अहं वानरराजस्य परिभूतः परंतप ॥ ३५ ॥
स कालं परिसंख्याय सीतायाः परिमार्गणे ।कृतार्थः समयं कृत्वा दुर्मतिर्नावबुध्यते ॥ ३६ ॥
त्वं प्रविश्य च किष्किन्धां ब्रूहि वानरपुंगवम् ।मूर्खं ग्राम्य सुखे सक्तं सुग्रीवं वचनान्मम ॥ ३७ ॥
अर्थिनामुपपन्नानां पूर्वं चाप्युपकारिणाम् ।आशां संश्रुत्य यो हन्ति स लोके पुरुषाधमः ॥ ३८ ॥
शुभं वा यदि वा पापं यो हि वाक्यमुदीरितम् ।सत्येन परिगृह्णाति स वीरः पुरुषोत्तमः ॥ ३९ ॥
कृतार्था ह्यकृतार्थानां मित्राणां न भवन्ति ये ।तान्मृतानपि क्रव्यादः कृतघ्नान्नोपभुञ्जते ॥ ४० ॥
नूनं काञ्चनपृष्ठस्य विकृष्टस्य मया रणे ।द्रष्टुमिच्छन्ति चापस्य रूपं विद्युद्गणोपमम् ॥ ४१ ॥
घोरं ज्यातलनिर्घोषं क्रुद्धस्य मम संयुगे ।निर्घोषमिव वज्रस्य पुनः संश्रोतुमिच्छति ॥ ४२ ॥
काममेवंगतेऽप्यस्य परिज्ञाते पराक्रमे ।त्वत्सहायस्य मे वीर न चिन्ता स्यान्नृपात्मज ॥ ४३ ॥
यदर्थमयमारम्भः कृतः परपुरंजय ।समयं नाभिजानाति कृतार्थः प्लवगेश्वरः ॥ ४४ ॥
वर्षासमयकालं तु प्रतिज्ञाय हरीश्वरः ।व्यतीतांश्चतुरो मासान्विहरन्नावबुध्यते ॥ ४५ ॥
सामात्यपरिषत्क्रीडन्पानमेवोपसेवते ।शोकदीनेषु नास्मासु सुग्रीवः कुरुते दयाम् ॥ ४६ ॥
उच्यतां गच्छ सुग्रीवस्त्वया वत्स महाबल ।मम रोषस्य यद्रूपं ब्रूयाश्चैनमिदं वचः ॥ ४७ ॥
न च संकुचितः पन्था येन वाली हतो गतः ।समये तिष्ठ सुग्रीवमा वालिपथमन्वगाः ॥ ४८ ॥
एक एव रणे वाली शरेण निहतो मया ।त्वां तु सत्यादतिक्रान्तं हनिष्यामि सबान्धवम् ॥ ४९ ॥
तदेवं विहिते कार्ये यद्धितं पुरुषर्षभ ।तत्तद्ब्रूहि नरश्रेष्ठ त्वर कालव्यतिक्रमः ॥ ५० ॥
कुरुष्व सत्यं मयि वानरेश्वर प्रतिश्रुतं धर्ममवेक्ष्य शाश्वतम् ।मा वालिनं प्रेत्य गतो यमक्षयं त्वमद्य पश्येर्मम चोदितैः शरैः ॥ ५१ ॥
स पूर्वजं तीव्रविवृद्धकोपं लालप्यमानं प्रसमीक्ष्य दीनम् ।चकार तीव्रां मतिमुग्रतेजा हरीश्वरमानववंशनाथः ॥ ५२ ॥
« »