Click on words to see what they mean.

तामेवं ब्रुवतीं तारां ताराधिपनिभाननाम् ।वाली निर्भर्त्सयामास वचनं चेदमब्रवीत् ॥ १ ॥
गर्जतोऽस्य च संरम्भं भ्रातुः शत्रोर्विशेषतः ।मर्षयिष्याम्यहं केन कारणेन वरानने ॥ २ ॥
अधर्षितानां शूराणां समरेष्वनिवर्तिनाम् ।धर्षणामर्षणं भीरु मरणादतिरिच्यते ॥ ३ ॥
सोढुं न च समर्थोऽहं युद्धकामस्य संयुगे ।सुग्रीवस्य च संरम्भं हीनग्रीवस्य गर्जतः ॥ ४ ॥
न च कार्यो विषादस्ते राघवं प्रति मत्कृते ।धर्मज्ञश्च कृतज्ञश्च कथं पापं करिष्यति ॥ ५ ॥
निवर्तस्व सह स्त्रीभिः कथं भूयोऽनुगच्छसि ।सौहृदं दर्शितं तारे मयि भक्तिः कृता त्वया ॥ ६ ॥
प्रतियोत्स्याम्यहं गत्वा सुग्रीवं जहि संभ्रमम् ।दर्पं चास्य विनेष्यामि न च प्राणैर्विमोक्ष्यते ॥ ७ ॥
शापितासि मम प्राणैर्निवर्तस्व जयेन च ।अहं जित्वा निवर्तिष्ये तमलं भ्रातरं रणे ॥ ८ ॥
तं तु तारा परिष्वज्य वालिनं प्रियवादिनी ।चकार रुदती मन्दं दक्षिणा सा प्रदक्षिणम् ॥ ९ ॥
ततः स्वस्त्ययनं कृत्वा मन्त्रवद्विजयैषिणी ।अन्तःपुरं सह स्त्रीभिः प्रविष्टा शोकमोहिता ॥ १० ॥
प्रविष्टायां तु तारायां सह स्त्रीभिः स्वमालयम् ।नगरान्निर्ययौ क्रुद्धो महासर्प इव श्वसन् ॥ ११ ॥
स निःश्वस्य महावेगो वाली परमरोषणः ।सर्वतश्चारयन्दृष्टिं शत्रुदर्शनकाङ्क्षया ॥ १२ ॥
स ददर्श ततः श्रीमान्सुग्रीवं हेमपिङ्गलम् ।सुसंवीतमवष्टब्धं दीप्यमानमिवानलम् ॥ १३ ॥
स तं दृष्ट्वा महावीर्यं सुग्रीवं पर्यवस्थितम् ।गाढं परिदधे वासो वाली परमरोषणः ॥ १४ ॥
स वाली गाढसंवीतो मुष्टिमुद्यम्य वीर्यवान् ।सुग्रीवमेवाभिमुखो ययौ योद्धुं कृतक्षणः ॥ १५ ॥
श्लिष्टमुष्टिं समुद्यम्य संरब्धतरमागतः ।सुग्रीवोऽपि समुद्दिश्य वालिनं हेममालिनम् ॥ १६ ॥
तं वाली क्रोधताम्राक्षः सुग्रीवं रणपण्डितम् ।आपतन्तं महावेगमिदं वचनमब्रवीत् ॥ १७ ॥
एष मुष्टिर्मया बद्धो गाढः सुनिहिताङ्गुलिः ।मया वेगविमुक्तस्ते प्राणानादाय यास्यति ॥ १८ ॥
एवमुक्तस्तु सुग्रीवः क्रुद्धो वालिनमब्रवीत् ।तवैव च हरन्प्राणान्मुष्टिः पततु मूर्धनि ॥ १९ ॥
ताडितस्तेन संक्रुद्धः समभिक्रम्य वेगतः ।अभवच्छोणितोद्गारी सोत्पीड इव पर्वतः ॥ २० ॥
सुग्रीवेण तु निःसंगं सालमुत्पाट्य तेजसा ।गात्रेष्वभिहतो वाली वज्रेणेव महागिरिः ॥ २१ ॥
स तु वाली प्रचरितः सालताडनविह्वलः ।गुरुभारसमाक्रान्ता सागरे नौरिवाभवत् ॥ २२ ॥
तौ भीमबलविक्रान्तौ सुपर्णसमवेगिनौ ।प्रवृद्धौ घोरवपुषौ चन्द्रसूर्याविवाम्बरे ॥ २३ ॥
वालिना भग्नदर्पस्तु सुग्रीवो मन्दविक्रमः ।वालिनं प्रति सामर्षो दर्शयामास लाघवम् ॥ २४ ॥
ततो धनुषि संधाय शरमाशीविषोपमम् ।राघवेण महाबाणो वालिवक्षसि पातितः ॥ २५ ॥
वेगेनाभिहतो वाली निपपात महीतले ॥ २६ ॥
अथोक्षितः शोणिततोयविस्रवैः सुपुष्पिताशोक इवानिलोद्धतः ।विचेतनो वासवसूनुराहवे प्रभ्रंशितेन्द्रध्वजवत्क्षितिं गतः ॥ २७ ॥
« »