Click on words to see what they mean.

स तां पुष्करिणीं गत्वा पद्मोत्पलझषाकुलाम् ।रामः सौमित्रिसहितो विललापाकुलेन्द्रियः ॥ १ ॥
तस्य दृष्ट्वैव तां हर्षादिन्द्रियाणि चकम्पिरे ।स कामवशमापन्नः सौमित्रिमिदमब्रवीत् ॥ २ ॥
सौमित्रे पश्य पम्पायाः काननं शुभदर्शनम् ।यत्र राजन्ति शैलाभा द्रुमाः सशिखरा इव ॥ ३ ॥
मां तु शोकाभिसंतप्तमाधयः पीडयन्ति वै ।भरतस्य च दुःखेन वैदेह्या हरणेन च ॥ ४ ॥
अधिकं प्रविभात्येतन्नीलपीतं तु शाद्वलम् ।द्रुमाणां विविधैः पुष्पैः परिस्तोमैरिवार्पितम् ॥ ५ ॥
सुखानिलोऽयं सौमित्रे कालः प्रचुरमन्मथः ।गन्धवान्सुरभिर्मासो जातपुष्पफलद्रुमः ॥ ६ ॥
पश्य रूपाणि सौमित्रे वनानां पुष्पशालिनाम् ।सृजतां पुष्पवर्षाणि वर्षं तोयमुचामिव ॥ ७ ॥
प्रस्तरेषु च रम्येषु विविधाः काननद्रुमाः ।वायुवेगप्रचलिताः पुष्पैरवकिरन्ति गाम् ॥ ८ ॥
मारुतः सुखं संस्पर्शे वाति चन्दनशीतलः ।षट्पदैरनुकूजद्भिर्वनेषु मधुगन्धिषु ॥ ९ ॥
गिरिप्रस्थेषु रम्येषु पुष्पवद्भिर्मनोरमैः ।संसक्तशिखरा शैला विराजन्ति महाद्रुमैः ॥ १० ॥
पुष्पिताग्रांश्च पश्येमान्कर्णिकारान्समन्ततः ।हाटकप्रतिसंछन्नान्नरान्पीताम्बरानिव ॥ ११ ॥
अयं वसन्तः सौमित्रे नानाविहगनादितः ।सीतया विप्रहीणस्य शोकसंदीपनो मम ॥ १२ ॥
मां हि शोकसमाक्रान्तं संतापयति मन्मथः ।हृष्टः प्रवदमानश्च समाह्वयति कोकिलः ॥ १३ ॥
एष दात्यूहको हृष्टो रम्ये मां वननिर्झरे ।प्रणदन्मन्मथाविष्टं शोचयिष्यति लक्ष्मण ॥ १४ ॥
विमिश्रा विहगाः पुम्भिरात्मव्यूहाभिनन्दिताः ।भृङ्गराजप्रमुदिताः सौमित्रे मधुरस्वराः ॥ १५ ॥
मां हि सा मृगशावाक्षी चिन्ताशोकबलात्कृतम् ।संतापयति सौमित्रे क्रूरश्चैत्रवनानिलः ॥ १६ ॥
शिखिनीभिः परिवृता मयूरा गिरिसानुषु ।मन्मथाभिपरीतस्य मम मन्मथवर्धनाः ॥ १७ ॥
पश्य लक्ष्णम नृत्यन्तं मयूरमुपनृत्यति ।शिखिनी मन्मथार्तैषा भर्तारं गिरिसानुषु ॥ १८ ॥
मयूरस्य वने नूनं रक्षसा न हृता प्रिया ।मम त्वयं विना वासः पुष्पमासे सुदुःसहः ॥ १९ ॥
पश्य लक्ष्मण पुष्पाणि निष्फलानि भवन्ति मे ।पुष्पभारसमृद्धानां वनानां शिशिरात्यये ॥ २० ॥
वदन्ति रावं मुदिताः शकुनाः संघशः कलम् ।आह्वयन्त इवान्योन्यं कामोन्मादकरा मम ॥ २१ ॥
नूनं परवशा सीता सापि शोचत्यहं यथा ।श्यामा पद्मपलाशाक्षी मृदुभाषा च मे प्रिया ॥ २२ ॥
एष पुष्पवहो वायुः सुखस्पर्शो हिमावहः ।तां विचिन्तयतः कान्तां पावकप्रतिमो मम ॥ २३ ॥
तां विनाथ विहंगोऽसौ पक्षी प्रणदितस्तदा ।वायसः पादपगतः प्रहृष्टमभिनर्दति ॥ २४ ॥
एष वै तत्र वैदेह्या विहगः प्रतिहारकः ।पक्षी मां तु विशालाक्ष्याः समीपमुपनेष्यति ॥ २५ ॥
पश्य लक्ष्मण संनादं वने मदविवर्धनम् ।पुष्पिताग्रेषु वृक्षेषु द्विजानामुपकूजताम् ॥ २६ ॥
सौमित्रे पश्य पम्पायाश्चित्रासु वनराजिषु ।नलिनानि प्रकाशन्ते जले तरुणसूर्यवत् ॥ २७ ॥
एषा प्रसन्नसलिला पद्मनीलोत्पलायता ।हंसकारण्डवाकीर्णा पम्पा सौगन्धिकायुता ॥ २८ ॥
चक्रवाकयुता नित्यं चित्रप्रस्थवनान्तरा ।मातङ्गमृगयूथैश्च शोभते सलिलार्थिभिः ॥ २९ ॥
पद्मकोशपलाशानि द्रष्टुं दृष्टिर्हि मन्यते ।सीताया नेत्रकोशाभ्यां सदृशानीति लक्ष्मण ॥ ३० ॥
पद्मकेसरसंसृष्टो वृक्षान्तरविनिःसृतः ।निःश्वास इव सीताया वाति वायुर्मनोहरः ॥ ३१ ॥
सौमित्रे पश्य पम्पाया दक्षिणे गिरिसानुनि ।पुष्पितां कर्णिकारस्य यष्टिं परमशोभनाम् ॥ ३२ ॥
अधिकं शैलराजोऽयं धातुभिस्तु विभूषितः ।विचित्रं सृजते रेणुं वायुवेगविघट्टितम् ॥ ३३ ॥
गिरिप्रस्थास्तु सौमित्रे सर्वतः संप्रपुष्पितैः ।निष्पत्रैः सर्वतो रम्यैः प्रदीपा इव कुंशुकैः ॥ ३४ ॥
पम्पातीररुहाश्चेमे संसक्ता मधुगन्धिनः ।मालतीमल्लिकाषण्डाः करवीराश्च पुष्पिताः ॥ ३५ ॥
केतक्यः सिन्दुवाराश्च वासन्त्यश्च सुपुष्पिताः ।माधव्यो गन्धपूर्णाश्च कुन्दगुल्माश्च सर्वशः ॥ ३६ ॥
चिरिबिल्वा मधूकाश्च वञ्जुला बकुलास्तथा ।चम्पकास्तिलकाश्चैव नागवृक्षाश्च पुष्पिताः ॥ ३७ ॥
नीपाश्च वरणाश्चैव खर्जूराश्च सुपुष्पिताः ।अङ्कोलाश्च कुरण्टाश्च चूर्णकाः पारिभद्रकाः ॥ ३८ ॥
चूताः पाटलयश्चैव कोविदाराश्च पुष्पिताः ।मुचुकुन्दार्जुनाश्चैव दृश्यन्ते गिरिसानुषु ॥ ३९ ॥
केतकोद्दालकाश्चैव शिरीषाः शिंशपा धवाः ।शाल्मल्यः किंशुकाश्चैव रक्ताः कुरबकास्तथा ।तिनिशा नक्त मालाश्च चन्दनाः स्यन्दनास्तथा ॥ ४० ॥
विविधा विविधैः पुष्पैस्तैरेव नगसानुषु ।विकीर्णैः पीतरक्ताभाः सौमित्रे प्रस्तराः कृताः ॥ ४१ ॥
हिमान्ते पश्य सौमित्रे वृक्षाणां पुष्पसंभवम् ।पुष्पमासे हि तरवः संघर्षादिव पुष्पिताः ॥ ४२ ॥
पश्य शीतजलां चेमां सौमित्रे पुष्करायुताम् ।चक्रवाकानुचरितां कारण्डवनिषेविताम् ।प्लवैः क्रौञ्चैश्च संपूर्णां वराहमृगसेविताम् ॥ ४३ ॥
अधिकं शोभते पम्पाविकूजद्भिर्विहंगमैः ॥ ४४ ॥
दीपयन्तीव मे कामं विविधा मुदिता द्विजाः ।श्यामां चन्द्रमुखीं स्मृत्वा प्रियां पद्मनिभेक्षणाम् ॥ ४५ ॥
पय सानुषु चित्रेषु मृगीभिः सहितान्मृगान् ।मां पुनर्मृगशावाक्ष्या वैदेह्या विरहीकृतम् ॥ ४६ ॥
एवं स विलपंस्तत्र शोकोपहतचेतनः ।अवेक्षत शिवां पम्पां रम्यवारिवहां शुभाम् ॥ ४७ ॥
निरीक्षमाणः सहसा महात्मा सर्वं वनं निर्झरकन्दरं च ।उद्विग्नचेताः सह लक्ष्मणेन विचार्य दुःखोपहतः प्रतस्थे ॥ ४८ ॥
तावृष्यमूकं सहितौ प्रयातौ सुग्रीवशाखामृगसेवितं तम् ।त्रस्तास्तु दृष्ट्वा हरयो बभूवुर्महौजसौ राघवलक्ष्मणौ तौ ॥ ४९ ॥
« »