Click on words to see what they mean.

रामः प्रेक्ष्य तु तं गृध्रं भुवि रौद्रेण पातितम् ।सौमित्रिं मित्रसंपन्नमिदं वचनमब्रवीत् ॥ १ ॥
ममायं नूनमर्थेषु यतमानो विहंगमः ।राक्षसेन हतः संख्ये प्राणांस्त्यजति दुस्त्यजान् ॥ २ ॥
अयमस्य शरीरेऽस्मिन्प्राणो लक्ष्मण विद्यते ।तथा स्वरविहीनोऽयं विक्लवं समुदीक्षते ॥ ३ ॥
जटायो यदि शक्नोषि वाक्यं व्याहरितुं पुनः ।सीतामाख्याहि भद्रं ते वधमाख्याहि चात्मनः ॥ ४ ॥
किंनिमित्तोऽहरत्सीतां रावणस्तस्य किं मया ।अपराद्धं तु यं दृष्ट्वा रावणेन हृता प्रिया ॥ ५ ॥
कथं तच्चन्द्रसंकाशं मुखमासीन्मनोहरम् ।सीतया कानि चोक्तानि तस्मिन्काले द्विजोत्तम ॥ ६ ॥
कथंवीर्यः कथंरूपः किंकर्मा स च राक्षसः ।क्व चास्य भवनं तात ब्रूहि मे परिपृच्छतः ॥ ७ ॥
तमुद्वीक्ष्याथ दीनात्मा विलपन्तमनन्तरम् ।वाचातिसन्नया रामं जटायुरिदमब्रवीत् ॥ ८ ॥
सा हृता राक्षसेन्द्रेण रावणेन विहायसा ।मायामास्थाय विपुलां वातदुर्दिनसंकुलाम् ॥ ९ ॥
परिश्रान्तस्य मे तात पक्षौ छित्त्वा निशाचरः ।सीतामादाय वैदेहीं प्रयातो दक्षिणा मुखः ॥ १० ॥
उपरुध्यन्ति मे प्राणा दृष्टिर्भ्रमति राघव ।पश्यामि वृक्षान्सौवर्णानुशीरकृतमूर्धजान् ॥ ११ ॥
येन याति मुहूर्तेन सीतामादाय रावणः ।विप्रनष्टं धनं क्षिप्रं तत्स्वामिप्रतिपद्यते ॥ १२ ॥
विन्दो नाम मुहूर्तोऽसौ स च काकुत्स्थ नाबुधत् ।झषवद्बडिशं गृह्य क्षिप्रमेव विनश्यति ॥ १३ ॥
न च त्वया व्यथा कार्या जनकस्य सुतां प्रति ।वैदेह्या रंस्यसे क्षिप्रं हत्वा तं राक्षसं रणे ॥ १४ ॥
असंमूढस्य गृध्रस्य रामं प्रत्यनुभाषतः ।आस्यात्सुस्राव रुधिरं म्रियमाणस्य सामिषम् ॥ १५ ॥
पुत्रो विश्रवसः साक्षाद्भ्राता वैश्रवणस्य च ।इत्युक्त्वा दुर्लभान्प्राणान्मुमोच पतगेश्वरः ॥ १६ ॥
ब्रूहि ब्रूहीति रामस्य ब्रुवाणस्य कृताञ्जलेः ।त्यक्त्वा शरीरं गृध्रस्य जग्मुः प्राणा विहायसं ॥ १७ ॥
स निक्षिप्य शिरो भूमौ प्रसार्य चरणौ तदा ।विक्षिप्य च शरीरं स्वं पपात धरणीतले ॥ १८ ॥
तं गृध्रं प्रेक्ष्य ताम्राक्षं गतासुमचलोपमम् ।रामः सुबहुभिर्दुःखैर्दीनः सौमित्रिमब्रवीत् ॥ १९ ॥
बहूनि रक्षसां वासे वर्षाणि वसता सुखम् ।अनेन दण्डकारण्ये विचीर्णमिह पक्षिणा ॥ २० ॥
अनेकवार्षिको यस्तु चिरकालं समुत्थितः ।सोऽयमद्य हतः शेते कालो हि दुरतिक्रमः ॥ २१ ॥
पश्य लक्ष्मण गृध्रोऽयमुपकारी हतश्च मे ।सीतामभ्यवपन्नो वै रावणेन बलीयसा ॥ २२ ॥
गृध्रराज्यं परित्यज्य पितृपैतामहं महत् ।मम हेतोरयं प्राणान्मुमोच पतगेश्वरः ॥ २३ ॥
सर्वत्र खलु दृश्यन्ते साधवो धर्मचारिणः ।शूराः शरण्याः सौमित्रे तिर्यग्योनिगतेष्वपि ॥ २४ ॥
सीताहरणजं दुःखं न मे सौम्य तथागतम् ।यथा विनाशो गृध्रस्य मत्कृते च परंतप ॥ २५ ॥
राजा दशरथः श्रीमान्यथा मम मया यशाः ।पूजनीयश्च मान्यश्च तथायं पतगेश्वरः ॥ २६ ॥
सौमित्रे हर काष्ठानि निर्मथिष्यामि पावकम् ।गृध्रराजं दिधक्षामि मत्कृते निधनं गतम् ॥ २७ ॥
नाथं पतगलोकस्य चितामारोपयाम्यहम् ।इमं धक्ष्यामि सौमित्रे हतं रौद्रेण रक्षसा ॥ २८ ॥
या गतिर्यज्ञशीलानामाहिताग्नेश्च या गतिः ।अपरावर्तिनां या च या च भूमिप्रदायिनाम् ॥ २९ ॥
मया त्वं समनुज्ञातो गच्छ लोकाननुत्तमान् ।गृध्रराज महासत्त्व संस्कृतश्च मया व्रज ॥ ३० ॥
एवमुक्त्वा चितां दीप्तामारोप्य पतगेश्वरम् ।ददाह रामो धर्मात्मा स्वबन्धुमिव दुःखितः ॥ ३१ ॥
रामोऽथ सहसौमित्रिर्वनं यात्वा स वीर्यवान् ।स्थूलान्हत्वा महारोहीननु तस्तार तं द्विजम् ॥ ३२ ॥
रोहिमांसानि चोद्धृत्य पेशीकृत्वा महायशाः ।शकुनाय ददौ रामो रम्ये हरितशाद्वले ॥ ३३ ॥
यत्तत्प्रेतस्य मर्त्यस्य कथयन्ति द्विजातयः ।तत्स्वर्गगमनं तस्य क्षिप्रं रामो जजाप ह ॥ ३४ ॥
ततो गोदावरीं गत्वा नदीं नरवरात्मजौ ।उदकं चक्रतुस्तस्मै गृध्रराजाय तावुभौ ॥ ३५ ॥
स गृध्रराजः कृतवान्यशस्करं सुदुष्करं कर्म रणे निपातितः ।महर्षिकल्पेन च संस्कृतस्तदा जगाम पुण्यां गतिमात्मनः शुभाम् ॥ ३६ ॥
« »