Click on words to see what they mean.

इत्युक्तस्य यथान्यायं रावणस्य जटायुषा ।क्रुद्धस्याग्निनिभाः सर्वा रेजुर्विंशतिदृष्टयः ॥ १ ॥
संरक्तनयनः कोपात्तप्तकाञ्चनकुण्डलः ।राक्षसेन्द्रोऽभिदुद्राव पतगेन्द्रममर्षणः ॥ २ ॥
स संप्रहारस्तुमुलस्तयोस्तस्मिन्महावने ।बभूव वातोद्धतयोर्मेघयोर्गगने यथा ॥ ३ ॥
तद्बभूवाद्भुतं युद्धं गृध्रराक्षसयोस्तदा ।सपक्षयोर्माल्यवतोर्महापर्वतयोरिव ॥ ४ ॥
ततो नालीकनाराचैस्तीक्ष्णाग्रैश्च विकर्णिभिः ।अभ्यवर्षन्महाघोरैर्गृध्रराजं महाबलः ॥ ५ ॥
स तानि शरजालानि गृध्रः पत्ररथेश्वरः ।जटायुः प्रतिजग्राह रावणास्त्राणि संयुगे ॥ ६ ॥
तस्य तीक्ष्णनखाभ्यां तु चरणाभ्यां महाबलः ।चकार बहुधा गात्रे व्रणान्पतगसत्तमः ॥ ७ ॥
अथ क्रोधाद्दशग्रीवो जग्राह दशमार्गणान् ।मृत्युदण्डनिभान्घोराञ्शत्रुमर्दनकाङ्क्षया ॥ ८ ॥
स तैर्बाणैर्महावीर्यः पूर्णमुक्तैरजिह्मगैः ।बिभेद निशितैस्तीक्ष्णैर्गृध्रं घोरैः शिलीमुखैः ॥ ९ ॥
स राक्षसरथे पश्यञ्जानकीं बाष्पलोचनाम् ।अचिन्तयित्वा बाणांस्तान्राक्षसं समभिद्रवत् ॥ १० ॥
ततोऽस्य सशरं चापं मुक्तामणिविभूषितम् ।चरणाभ्यां महातेजा बभञ्ज पतगेश्वरः ॥ ११ ॥
तच्चाग्निसदृशं दीप्तं रावणस्य शरावरम् ।पक्षाभ्यां च महातेजा व्यधुनोत्पतगेश्वरः ॥ १२ ॥
काञ्चनोरश्छदान्दिव्यान्पिशाचवदनान्खरान् ।तांश्चास्य जवसंपन्नाञ्जघान समरे बली ॥ १३ ॥
वरं त्रिवेणुसंपन्नं कामगं पावकार्चिषम् ।मणिहेमविचित्राङ्गं बभञ्ज च महारथम् ।पूर्णचन्द्रप्रतीकाशं छत्रं च व्यजनैः सह ॥ १४ ॥
स भग्नधन्वा विरथो हताश्वो हतसारथिः ।अङ्केनादाय वैदेहीं पपात भुवि रावणः ॥ १५ ॥
दृष्ट्वा निपतितं भूमौ रावणं भग्नवाहनम् ।साधु साध्विति भूतानि गृध्रराजमपूजयन् ॥ १६ ॥
परिश्रान्तं तु तं दृष्ट्वा जरया पक्षियूथपम् ।उत्पपात पुनर्हृष्टो मैथिलीं गृह्य रावणः ॥ १७ ॥
तं प्रहृष्टं निधायाङ्के गच्छन्तं जनकात्मजाम् ।गृध्रराजः समुत्पत्य जटायुरिदमब्रवीत् ॥ १८ ॥
वज्रसंस्पर्शबाणस्य भार्यां रामस्य रावण ।अल्पबुद्धे हरस्येनां वधाय खलु रक्षसाम् ॥ १९ ॥
समित्रबन्धुः सामात्यः सबलः सपरिच्छदः ।विषपानं पिबस्येतत्पिपासित इवोदकम् ॥ २० ॥
अनुबन्धमजानन्तः कर्मणामविचक्षणाः ।शीघ्रमेव विनश्यन्ति यथा त्वं विनशिष्यसि ॥ २१ ॥
बद्धस्त्वं कालपाशेन क्व गतस्तस्य मोक्ष्यसे ।वधाय बडिशं गृह्य सामिषं जलजो यथा ॥ २२ ॥
न हि जातु दुराधर्षौ काकुत्स्थौ तव रावण ।धर्षणं चाश्रमस्यास्य क्षमिष्येते तु राघवौ ॥ २३ ॥
यथा त्वया कृतं कर्म भीरुणा लोकगर्हितम् ।तस्कराचरितो मार्गो नैष वीरनिषेवितः ॥ २४ ॥
युध्यस्व यदि शूरोऽसि मुहूर्तं तिष्ठ रावण ।शयिष्यसे हतो भूमौ यथा भ्राता खरस्तथा ॥ २५ ॥
परेतकाले पुरुषो यत्कर्म प्रतिपद्यते ।विनाशायात्मनोऽधर्म्यं प्रतिपन्नोऽसि कर्म तत् ॥ २६ ॥
पापानुबन्धो वै यस्य कर्मणः को नु तत्पुमान् ।कुर्वीत लोकाधिपतिः स्वयम्भूर्भगवानपि ॥ २७ ॥
एवमुक्त्वा शुभं वाक्यं जटायुस्तस्य रक्षसः ।निपपात भृशं पृष्ठे दशग्रीवस्य वीर्यवान् ॥ २८ ॥
तं गृहीत्वा नखैस्तीक्ष्णैर्विरराद समन्ततः ।अधिरूढो गजारोहि यथा स्याद्दुष्टवारणम् ॥ २९ ॥
विरराद नखैरस्य तुण्डं पृष्ठे समर्पयन् ।केशांश्चोत्पाटयामास नखपक्षमुखायुधः ॥ ३० ॥
स तथा गृध्रराजेन क्लिश्यमानो मुहुर्मुहुः ।अमर्षस्फुरितौष्ठः सन्प्राकम्पत स राक्षसः ॥ ३१ ॥
संपरिष्वज्य वैदेहीं वामेनाङ्केन रावणः ।तलेनाभिजघानार्तो जटायुं क्रोधमूर्छितः ॥ ३२ ॥
जटायुस्तमतिक्रम्य तुण्डेनास्य खराधिपः ।वामबाहून्दश तदा व्यपाहरदरिंदमः ॥ ३३ ॥
ततः क्रुद्धो दशक्रीवः सीतामुत्सृज्य वीर्यवान् ।मुष्टिभ्यां चरणाभ्यां च गृध्रराजमपोथयत् ॥ ३४ ॥
ततो मुहूर्तं संग्रामो बभूवातुलवीर्ययोः ।राक्षसानां च मुख्यस्य पक्षिणां प्रवरस्य च ॥ ३५ ॥
तस्य व्यायच्छमानस्य रामस्यार्थेऽथ रावणः ।पक्षौ पादौ च पार्श्वौ च खड्गमुद्धृत्य सोऽच्छिनत् ॥ ३६ ॥
स छिन्नपक्षः सहसा रक्षसा रौद्रकर्मणा ।निपपात हतो गृध्रो धरण्यामल्पजीवितः ॥ ३७ ॥
तं दृष्ट्वा पतितं भूमौ क्षतजार्द्रं जटायुषम् ।अभ्यधावत वैदेही स्वबन्धुमिव दुःखिता ॥ ३८ ॥
तं नीलजीमूतनिकाशकल्पं सुपाण्डुरोरस्कमुदारवीर्यम् ।ददर्श लङ्काधिपतिः पृथिव्यां जटायुषं शान्तमिवाग्निदावम् ॥ ३९ ॥
ततस्तु तं पत्ररथं महीतले निपातितं रावणवेगमर्दितम् ।पुनः परिष्वज्य शशिप्रभानना रुरोद सीता जनकात्मजा तदा ॥ ४० ॥
« »