Click on words to see what they mean.

हत्वा तु तं भीमबलं विराधं राक्षसं वने ।ततः सीतां परिष्वज्य समाश्वास्य च वीर्यवान् ।अब्रवील्लक्ष्मणां रामो भ्रातरं दीप्ततेजसं ॥ १ ॥
कष्टं वनमिदं दुर्गं न च स्मो वनगोचराः ।अभिगच्छामहे शीघ्रं शरभङ्गं तपोधनम् ॥ २ ॥
आश्रमं शरभङ्गस्य राघवोऽभिजगाम ह ॥ ३ ॥
तस्य देवप्रभावस्य तपसा भावितात्मनः ।समीपे शरभङ्गस्य ददर्श महदद्भुतम् ॥ ४ ॥
विभ्राजमानं वपुषा सूर्यवैश्वानरोपमम् ।असंस्पृशन्तं वसुधां ददर्श विबुधेश्वरम् ॥ ५ ॥
सुप्रभाभरणं देवं विरजोऽम्बरधारिणम् ।तद्विधैरेव बहुभिः पूज्यमानं महात्मभिः ॥ ६ ॥
हरिभिर्वाजिभिर्युक्तमन्तरिक्षगतं रथम् ।ददर्शादूरतस्तस्य तरुणादित्यसंनिभम् ॥ ७ ॥
पाण्डुराभ्रघनप्रख्यं चन्द्रमण्डलसंनिभम् ।अपश्यद्विमलं छत्रं चित्रमाल्योपशोभितम् ॥ ८ ॥
चामरव्यजने चाग्र्ये रुक्मदण्डे महाधने ।गृहीते वननारीभ्यां धूयमाने च मूर्धनि ॥ ९ ॥
गन्धर्वामरसिद्धाश्च बहवः परमर्षयः ।अन्तरिक्षगतं देवं वाग्भिरग्र्याभिरीडिरे ॥ १० ॥
दृष्ट्वा शतक्रतुं तत्र रामो लक्ष्मणमब्रवीत् ।ये हयाः पुरुहूतस्य पुरा शक्रस्य नः श्रुताः ।अन्तरिक्षगता दिव्यास्त इमे हरयो ध्रुवम् ॥ ११ ॥
इमे च पुरुषव्याघ्र ये तिष्ठन्त्यभितो रथम् ।शतं शतं कुण्डलिनो युवानः खड्गपाणयः ॥ १२ ॥
उरोदेशेषु सर्वेषां हारा ज्वलनसंनिभाः ।रूपं बिभ्रति सौमित्रे पञ्चविंशतिवार्षिकम् ॥ १३ ॥
एतद्धि किल देवानां वयो भवति नित्यदा ।यथेमे पुरुषव्याघ्रा दृश्यन्ते प्रियदर्शनाः ॥ १४ ॥
इहैव सह वैदेह्या मुहूर्तं तिष्ठ लक्ष्मण ।यावज्जनाम्यहं व्यक्तं क एष द्युतिमान्रथे ॥ १५ ॥
तमेवमुक्त्वा सौमित्रिमिहैव स्थीयतामिति ।अभिचक्राम काकुत्स्थः शरभङ्गाश्रमं प्रति ॥ १६ ॥
ततः समभिगच्छन्तं प्रेक्ष्य रामं शचीपतिः ।शरभङ्गमनुज्ञाप्य विबुधानिदमब्रवीत् ॥ १७ ॥
इहोपयात्यसौ रामो यावन्मां नाभिभाषते ।निष्ठां नयत तावत्तु ततो मां द्रष्टुमर्हति ॥ १८ ॥
जितवन्तं कृतार्थं च द्रष्टाहमचिरादिमम् ।कर्म ह्यनेन कर्तव्यं महदन्यैः सुदुष्करम् ॥ १९ ॥
इति वज्री तमामन्त्र्य मानयित्वा च तापसं ।रथेन हरियुक्तेन ययौ दिवमरिंदमः ॥ २० ॥
प्रयाते तु सहस्राक्षे राघवः सपरिच्छदः ।अग्निहोत्रमुपासीनं शरभङ्गमुपागमत् ॥ २१ ॥
तस्य पादौ च संगृह्य रामः सीता च लक्ष्मणः ।निषेदुस्तदनुज्ञाता लब्धवासा निमन्त्रिताः ॥ २२ ॥
ततः शक्रोपयानं तु पर्यपृच्छत्स राघवः ।शरभङ्गश्च तत्सर्वं राघवाय न्यवेदयत् ॥ २३ ॥
मामेष वरदो राम ब्रह्मलोकं निनीषति ।जितमुग्रेण तपसा दुष्प्रापमकृतात्मभिः ॥ २४ ॥
अहं ज्ञात्वा नरव्याघ्र वर्तमानमदूरतः ।ब्रह्मलोकं न गच्छामि त्वामदृष्ट्वा प्रियातिथिम् ॥ २५ ॥
समागम्य गमिष्यामि त्रिदिवं देवसेवितम् ।अक्षया नरशार्दूल जिता लोका मया शुभाः ।ब्राह्म्याश्च नाकपृष्ठ्याश्च प्रतिगृह्णीष्व मामकान् ॥ २६ ॥
एवमुक्तो नरव्याघ्रः सर्वशास्त्रविशारदः ।ऋषिणा शरभङ्गेन राघवो वाक्यमब्रवीत् ॥ २७ ॥
अहमेवाहरिष्यामि सर्वाँल्लोकान्महामुने ।आवासं त्वहमिच्छामि प्रदिष्टमिह कानने ॥ २८ ॥
राघवेणैवमुक्तस्तु शक्रतुल्यबलेन वै ।शरभङ्गो महाप्राज्ञः पुनरेवाब्रवीद्वचः ॥ २९ ॥
सुतीक्ष्णमभिगच्छ त्वं शुचौ देशे तपस्विनम् ।रमणीये वनोद्देशे स ते वासं विधास्यति ॥ ३० ॥
एष पन्था नरव्याघ्र मुहूर्तं पश्य तात माम् ।यावज्जहामि गात्राणि जीर्णं त्वचमिवोरगः ॥ ३१ ॥
ततोऽग्निं स समाधाय हुत्वा चाज्येन मन्त्रवित् ।शरभङ्गो महातेजाः प्रविवेश हुताशनम् ॥ ३२ ॥
तस्य रोमाणि केशांश्च ददाहाग्निर्महात्मनः ।जीर्णं त्वचं तथास्थीनि यच्च मांसं च शोणितम् ॥ ३३ ॥
स च पावकसंकाशः कुमारः समपद्यत ।उत्थायाग्निचयात्तस्माच्छरभङ्गो व्यरोचत ॥ ३४ ॥
स लोकानाहिताग्नीनामृषीणां च महात्मनाम् ।देवानां च व्यतिक्रम्य ब्रह्मलोकं व्यरोहत ॥ ३५ ॥
स पुण्यकर्मा भुवने द्विजर्षभः पितामहं सानुचरं ददर्श ह ।पितामहश्चापि समीक्ष्य तं द्विजं ननन्द सुस्वागतमित्युवाच ह ॥ ३६ ॥
« »