मारीचेन तु तद्वाक्यं क्षमं युक्तं च रावणः ।उक्तो न प्रतिजग्राह मर्तुकाम इवौषधम् ॥ १ ॥
तं पथ्यहितवक्तारं मारीचं राक्षसाधिपः ।अब्रवीत्परुषं वाक्यमयुक्तं कालचोदितः ॥ २ ॥
यत्किलैतदयुक्तार्थं मारीच मयि कथ्यते ।वाक्यं निष्फलमत्यर्थं बीजमुप्तमिवोषरे ॥ ३ ॥
त्वद्वाक्यैर्न तु मां शक्यं भेत्तुं रामस्य संयुगे ।पापशीलस्य मूर्खस्य मानुषस्य विशेषतः ॥ ४ ॥
यस्त्यक्त्वा सुहृदो राज्यं मातरं पितरं तथा ।स्त्रीवाक्यं प्राकृतं श्रुत्वा वनमेकपदे गतः ॥ ५ ॥
अवश्यं तु मया तस्य संयुगे खरघातिनः ।प्राणैः प्रियतरा सीता हर्तव्या तव संनिधौ ॥ ६ ॥
एवं मे निश्चिता बुद्धिर्हृदि मारीच वर्तते ।न व्यावर्तयितुं शक्या सेन्द्रैरपि सुरासुरैः ॥ ७ ॥
दोषं गुणं वा संपृष्टस्त्वमेवं वक्तुमर्हसि ।अपायं वाप्युपायं वा कार्यस्यास्य विनिश्चये ॥ ८ ॥
संपृष्टेन तु वक्तव्यं सचिवेन विपश्चिता ।उद्यताञ्जलिना राज्ञो य इच्छेद्भूतिमात्मनः ॥ ९ ॥
वाक्यमप्रतिकूलं तु मृदुपूर्वं शुभं हितम् ।उपचारेण युक्तं च वक्तव्यो वसुधाधिपः ॥ १० ॥
सावमर्दं तु यद्वाक्यं मारीच हितमुच्यते ।नाभिनन्दति तद्राजा मानार्हो मानवर्जितम् ॥ ११ ॥
पञ्चरूपाणि राजानो धारयन्त्यमितौजसः ।अग्नेरिन्द्रस्य सोमस्य यमस्य वरुणस्य च ।औष्ण्यं तथा विक्रमं च सौम्यं दण्डं प्रसन्नताम् ॥ १२ ॥
तस्मात्सर्वास्ववस्थासु मान्याः पूज्याश्च पार्थिवाः ।त्वं तु धर्ममविज्ञाय केवलं मोहमास्थितः ॥ १३ ॥
अभ्यागतं मां दौरात्म्यात्परुषं वदसीदृशम् ।गुणदोषौ न पृच्छामि क्षमं चात्मनि राक्षस ।अस्मिंस्तु स भवान्कृत्ये साहाय्यं कर्तुमर्हति ॥ १४ ॥
सौवर्णस्त्वं मृगो भूत्वा चित्रो रजतबिन्दुभिः ।प्रलोभयित्वा वैदेहीं यथेष्टं गन्तुमर्हसि ॥ १५ ॥
त्वां तु मायामृगं दृष्ट्वा काञ्चनं जातविस्मया ।आनयैनमिति क्षिप्रं रामं वक्ष्यति मैथिली ॥ १६ ॥
अपक्रान्ते च काकुत्स्थे लक्ष्मणे च यथासुखम् ।आनयिष्यामि वैदेहीं सहस्राक्षः शचीमिव ॥ १७ ॥
एवं कृत्वा त्विदं कार्यं यथेष्टं गच्छ राक्षस ।राज्यस्यार्धं प्रदास्यामि मारीच तव सुव्रत ॥ १८ ॥
गच्छ सौम्य शिवं मार्गं कार्यस्यास्य विवृद्धये ।प्राप्य सीतामयुद्धेन वञ्चयित्वा तु राघवम् ।लङ्कां प्रति गमिष्यामि कृतकार्यः सह त्वया ॥ १९ ॥
एतत्कार्यमवश्यं मे बलादपि करिष्यसि ।राज्ञो हि प्रतिकूलस्थो न जातु सुखमेधते ॥ २० ॥
आसाद्य तं जीवितसंशयस्ते मृत्युर्ध्रुवो ह्यद्य मया विरुध्य ।एतद्यथावत्परिगृह्य बुद्ध्या यदत्र पथ्यं कुरु तत्तथा त्वम् ॥ २१ ॥