Click on words to see what they mean.

तद्द्रुमाणां शिलानां च वर्षं प्राणहरं महत् ।प्रतिजग्राह धर्मात्मा राघवस्तीक्ष्णसायकैः ॥ १ ॥
प्रतिगृह्य च तद्वरं निमीलित इवर्षभः ।रामः क्रोधं परं भेजे वधार्थं सर्वरक्षसाम् ॥ २ ॥
ततः क्रोधसमाविष्टः प्रदीप्त इव तेजसा ।शरैरभ्यकिरत्सैन्यं सर्वतः सहदूषणम् ॥ ३ ॥
ततः सेनापतिः क्रुद्धो दूषणः शत्रुदूषणः ।जग्राह गिरिशृङ्गाभं परिघं रोमहर्षणम् ॥ ४ ॥
वेष्टितं काञ्चनैः पट्टैर्देवसैन्याभिमर्दनम् ।आयसैः शङ्कुभिस्तीक्ष्णैः कीर्णं परवसोक्षिताम् ॥ ५ ॥
वज्राशनिसमस्पर्शं परगोपुरदारणम् ।तं महोरगसंकाशं प्रगृह्य परिघं रणे ।दूषणोऽभ्यपतद्रामं क्रूरकर्मा निशाचरः ॥ ६ ॥
तस्याभिपतमानस्य दूषणस्य स राघवः ।द्वाभ्यां शराभ्यां चिच्छेद सहस्ताभरणौ भुजौ ॥ ७ ॥
भ्रष्टस्तस्य महाकायः पपात रणमूर्धनि ।परिघश्छिन्नहस्तस्य शक्रध्वज इवाग्रतः ॥ ८ ॥
स कराभ्यां विकीर्णाभ्यां पपात भुवि दूषणः ।विषाणाभ्यां विशीर्णाभ्यां मनस्वीव महागजः ॥ ९ ॥
दृष्ट्वा तं पतितं भूमौ दूषणं निहतं रणे ।साधु साध्विति काकुत्स्थं सर्वभूतान्यपूजयन् ॥ १० ॥
एतस्मिन्नन्तरे क्रुद्धास्त्रयः सेनाग्रयायिनः ।संहत्याभ्यद्रवन्रामं मृत्युपाशावपाशिताः ।महाकपालः स्थूलाक्षः प्रमाथी च महाबलः ॥ ११ ॥
महाकपालो विपुलं शूलमुद्यम्य राक्षसः ।स्थूलाक्षः पट्टिशं गृह्य प्रमाथी च परश्वधम् ॥ १२ ॥
दृष्ट्वैवापततस्तांस्तु राघवः सायकैः शितैः ।तीक्ष्णाग्रैः प्रतिजग्राह संप्राप्तानतिथीनिव ॥ १३ ॥
महाकपालस्य शिरश्चिच्छेद रघुनङ्गनः ।असंख्येयैस्तु बाणौघैः प्रममाथ प्रमाथिनम् ॥ १४ ॥
स्थूलाक्षस्याक्षिणी तीक्ष्णैः पूरयामास सायकैः ।स पपात हतो भूमौ विटपीव महाद्रुमः ॥ १५ ॥
ततः पावकसंकाशैर्हेमवज्रविभूषितैः ।जघनशेषं तेजस्वी तस्य सैन्यस्य सायकैः ॥ १६ ॥
ते रुक्मपुङ्खा विशिखाः सधूमा इव पावकाः ।निजघ्नुस्तानि रक्षांसि वज्रा इव महाद्रुमान् ॥ १७ ॥
रक्षसां तु शतं रामः शतेनैकेन कर्णिना ।सहस्रं च सहस्रेण जघान रणमूर्धनि ॥ १८ ॥
तैर्भिन्नवर्माभरणाश्छिन्नभिन्नशरासनाः ।निपेतुः शोणितादिग्धा धरण्यां रजनीचराः ॥ १९ ॥
तैर्मुक्तकेशैः समरे पतितैः शोणितोक्षितैः ।आस्तीर्णा वसुधा कृत्स्ना महावेदिः कुशैरिव ॥ २० ॥
क्षणेन तु महाघोरं वनं निहतराक्षसं ।बभूव निरय प्रख्यं मांसशोणितकर्दमम् ॥ २१ ॥
चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम् ।हतान्येकेन रामेण मानुषेण पदातिना ॥ २२ ॥
तस्य सैन्यस्य सर्वस्य खरः शेषो महारथः ।राक्षसस्त्रिशिराश्चैव रामश्च रिपुसूदनः ॥ २३ ॥
ततस्तु तद्भीमबलं महाहवे समीक्ष्य रामेण हतं बलीयसा ।रथेन रामं महता खरस्ततः समाससादेन्द्र इवोद्यताशनिः ॥ २४ ॥
« »