Click on words to see what they mean.

तां तु शूर्पणखां रामः कामपाशावपाशिताम् ।स्वेच्छया श्लक्ष्णया वाचा स्मितपूर्वमथाब्रवीत् ॥ १ ॥
कृतदारोऽस्मि भवति भार्येयं दयिता मम ।त्वद्विधानां तु नारीणां सुदुःखा ससपत्नता ॥ २ ॥
अनुजस्त्वेष मे भ्राता शीलवान्प्रियदर्शनः ।श्रीमानकृतदारश्च लक्ष्मणो नाम वीर्यवान् ॥ ३ ॥
अपूर्वी भार्यया चार्थी तरुणः प्रियदर्शनः ।अनुरूपश्च ते भर्ता रूपस्यास्य भविष्यति ॥ ४ ॥
एनं भज विशालाक्षि भर्तारं भ्रातरं मम ।असपत्ना वरारोहे मेरुमर्कप्रभा यथा ॥ ५ ॥
इति रामेण सा प्रोक्ता राक्षसी काममोहिता ।विसृज्य रामं सहसा ततो लक्ष्मणमब्रवीत् ॥ ६ ॥
अस्य रूपस्य ते युक्ता भार्याहं वरवर्णिनी ।मया सह सुखं सर्वान्दण्डकान्विचरिष्यसि ॥ ७ ॥
एवमुक्तस्तु सौमित्री राक्षस्या वाक्यकोविदः ।ततः शूर्पणखीं स्मित्वा लक्ष्मणो युक्तमब्रवीत् ॥ ८ ॥
कथं दासस्य मे दासी भार्या भवितुमिच्छसि ।सोऽहमार्येण परवान्भ्रात्रा कमलवर्णिनि ॥ ९ ॥
समृद्धार्थस्य सिद्धार्था मुदितामलवर्णिनी ।आर्यस्य त्वं विशालाक्षि भार्या भव यवीयसी ॥ १० ॥
एतां विरूपामसतीं करालां निर्णतोदरीम् ।भार्यां वृद्धां परित्यज्य त्वामेवैष भजिष्यति ॥ ११ ॥
को हि रूपमिदं श्रेष्ठं संत्यज्य वरवर्णिनि ।मानुषेषु वरारोहे कुर्याद्भावं विचक्षणः ॥ १२ ॥
इति सा लक्ष्मणेनोक्ता कराला निर्णतोदरी ।मन्यते तद्वचः सत्यं परिहासाविचक्षणा ॥ १३ ॥
सा रामं पर्णशालायामुपविष्टं परंतपम् ।सीतया सह दुर्धर्षमब्रवीत्काममोहिता ॥ १४ ॥
इमां विरूपामसतीं करालां निर्णतोदरीम् ।वृद्धां भार्यामवष्टभ्य न मां त्वं बहु मन्यसे ॥ १५ ॥
अद्येमां भक्षयिष्यामि पश्यतस्तव मानुषीम् ।त्वया सह चरिष्यामि निःसपत्ना यथासुखम् ॥ १६ ॥
इत्युक्त्वा मृगशावाक्षीमलातसदृशेक्षणा ।अभ्यधावत्सुसंक्रुद्धा महोल्का रोहिणीमिव ॥ १७ ॥
तां मृत्युपाशप्रतिमामापतन्तीं महाबलः ।निगृह्य रामः कुपितस्ततो लक्ष्मणमब्रवीत् ॥ १८ ॥
क्रूरैरनार्यैः सौमित्रे परिहासः कथंचन ।न कार्यः पश्य वैदेहीं कथंचित्सौम्य जीवतीम् ॥ १९ ॥
इमां विरूपामसतीमतिमत्तां महोदरीम् ।राक्षसीं पुरुषव्याघ्र विरूपयितुमर्हसि ॥ २० ॥
इत्युक्तो लक्ष्मणस्तस्याः क्रुद्धो रामस्य पश्यतः ।उद्धृत्य खड्गं चिच्छेद कर्णनासं महाबलः ॥ २१ ॥
निकृत्तकर्णनासा तु विस्वरं सा विनद्य च ।यथागतं प्रदुद्राव घोरा शूर्पणखा वनम् ॥ २२ ॥
सा विरूपा महाघोरा राक्षसी शोणितोक्षिता ।ननाद विविधान्नादान्यथा प्रावृषि तोयदः ॥ २३ ॥
सा विक्षरन्ती रुधिरं बहुधा घोरदर्शना ।प्रगृह्य बाहू गर्जन्ती प्रविवेश महावनम् ॥ २४ ॥
ततस्तु सा राक्षससंघसंवृतं खरं जनस्थानगतं विरूपिता ।उपेत्य तं भ्रातरमुग्रतेजसं पपात भूमौ गगनाद्यथाशनिः ॥ २५ ॥
ततः सभार्यं भयमोहमूर्छिता सलक्ष्मणं राघवमागतं वनम् ।विरूपणं चात्मनि शोणितोक्षिता शशंस सर्वं भगिनी खरस्य सा ॥ २६ ॥
« »