Click on words to see what they mean.

ततस्तां रजनीमुष्य भरतः सपरिच्छदः ।कृतातिथ्यो भरद्वाजं कामादभिजगाम ह ॥ १ ॥
तमृषिः पुरुषव्याघ्रं प्रेक्ष्य प्राञ्जलिमागतम् ।हुताग्निहोत्रो भरतं भरद्वाजोऽभ्यभाषत ॥ २ ॥
कच्चिदत्र सुखा रात्रिस्तवास्मद्विषये गता ।समग्रस्ते जनः कच्चिदातिथ्ये शंस मेऽनघ ॥ ३ ॥
तमुवाचाञ्जलिं कृत्वा भरतोऽभिप्रणम्य च ।आश्रमादभिनिष्क्रन्तमृषिमुत्तम तेजसं ॥ ४ ॥
सुखोषितोऽस्मि भगवन्समग्रबलवाहनः ।तर्पितः सर्वकामैश्च सामात्यो बलवत्त्वया ॥ ५ ॥
अपेतक्लमसंतापाः सुभक्ष्याः सुप्रतिश्रयाः ।अपि प्रेष्यानुपादाय सर्वे स्म सुसुखोषिताः ॥ ६ ॥
आमन्त्रयेऽहं भगवन्कामं त्वामृषिसत्तम ।समीपं प्रस्थितं भ्रातुर्मैरेणेक्षस्व चक्षुषा ॥ ७ ॥
आश्रमं तस्य धर्मज्ञ धार्मिकस्य महात्मनः ।आचक्ष्व कतमो मार्गः कियानिति च शंस मे ॥ ८ ॥
इति पृष्टस्तु भरतं भ्रातृदर्शनलालसं ।प्रत्युवाच महातेजा भरद्वाजो महातपाः ॥ ९ ॥
भरतार्धतृतीयेषु योजनेष्वजने वने ।चित्रकूटो गिरिस्तत्र रम्यनिर्दरकाननः ॥ १० ॥
उत्तरं पार्श्वमासाद्य तस्य मन्दाकिनी नदी ।पुष्पितद्रुमसंछन्ना रम्यपुष्पितकानना ॥ ११ ॥
अनन्तरं तत्सरितश्चित्रकूटश्च पर्वतः ।ततो पर्णकुटी तात तत्र तौ वसतो ध्रुवम् ॥ १२ ॥
दक्षिणेनैव मार्गेण सव्यदक्षिणमेव च ।गजवाजिरथाकीर्णां वाहिनीं वाहिनीपते ।वाहयस्व महाभाग ततो द्रक्ष्यसि राघवम् ॥ १३ ॥
प्रयाणमिति च श्रुत्वा राजराजस्य योषितः ।हित्वा यानानि यानार्हा ब्राह्मणं पर्यवारयन् ॥ १४ ॥
वेपमाना कृशा दीना सह देव्या सुमन्त्रिया ।कौसल्या तत्र जग्राह कराभ्यां चरणौ मुनेः ॥ १५ ॥
असमृद्धेन कामेन सर्वलोकस्य गर्हिता ।कैकेयी तस्य जग्राह चरणौ सव्यपत्रपा ॥ १६ ॥
तं प्रदक्षिणमागम्य भगवन्तं महामुनिम् ।अदूराद्भरतस्यैव तस्थौ दीनमनास्तदा ॥ १७ ॥
ततः पप्रच्छ भरतं भरद्वाजो दृढव्रतः ।विशेषं ज्ञातुमिच्छामि मातॄणां तव राघव ॥ १८ ॥
एवमुक्तस्तु भरतो भरद्वाजेन धार्मिकः ।उवाच प्राञ्जलिर्भूत्वा वाक्यं वचनकोविदः ॥ १९ ॥
यामिमां भगवन्दीनां शोकानशनकर्शिताम् ।पितुर्हि महिषीं देवीं देवतामिव पश्यसि ॥ २० ॥
एषा तं पुरुषव्याघ्रं सिंहविक्रान्तगामिनम् ।कौसल्या सुषुवे रामं धातारमदितिर्यथा ॥ २१ ॥
अस्या वामभुजं श्लिष्टा यैषा तिष्ठति दुर्मनाः ।कर्णिकारस्य शाखेव शीर्णपुष्पा वनान्तरे ॥ २२ ॥
एतस्यास्तौ सुतौ देव्याः कुमारौ देववर्णिनौ ।उभौ लक्ष्मणशत्रुघ्नौ वीरौ सत्यपराक्रमौ ॥ २३ ॥
यस्याः कृते नरव्याघ्रौ जीवनाशमितो गतौ ।राजा पुत्रविहीनश्च स्वर्गं दशरथो गतः ॥ २४ ॥
ऐश्वर्यकामां कैकेयीमनार्यामार्यरूपिणीम् ।ममैतां मातरं विद्धि नृशंसां पापनिश्चयाम् ।यतोमूलं हि पश्यामि व्यसनं महदात्मनः ॥ २५ ॥
इत्युक्त्वा नरशार्दूलो बाष्पगद्गदया गिरा ।स निशश्वास ताम्राक्षो क्रुद्धो नाग इवासकृत् ॥ २६ ॥
भरद्वाजो महर्षिस्तं ब्रुवन्तं भरतं तदा ।प्रत्युवाच महाबुद्धिरिदं वचनमर्थवत् ॥ २७ ॥
न दोषेणावगन्तव्या कैकेयी भरत त्वया ।रामप्रव्राजनं ह्येतत्सुखोदर्कं भविष्यति ॥ २८ ॥
अभिवाद्य तु संसिद्धः कृत्वा चैनं प्रदक्षिणम् ।आमन्त्र्य भरतः सैन्यं युज्यतामित्यचोदयत् ॥ २९ ॥
ततो वाजिरथान्युक्त्वा दिव्यान्हेमपरिष्क्रितान् ।अध्यारोहत्प्रयाणार्थी बहून्बहुविधो जनः ॥ ३० ॥
गजकन्यागजाश्चैव हेमकक्ष्याः पताकिनः ।जीमूता इव घर्मान्ते सघोषाः संप्रतस्थिरे ॥ ३१ ॥
विविधान्यपि यानानि महानि च लघूनि च ।प्रययुः सुमहार्हाणि पादैरेव पदातयः ॥ ३२ ॥
अथ यानप्रवेकैस्तु कौसल्याप्रमुखाः स्त्रियः ।रामदर्शनकाङ्क्षिण्यः प्रययुर्मुदितास्तदा ॥ ३३ ॥
स चार्कतरुणाभासां नियुक्तां शिबिकां शुभाम् ।आस्थाय प्रययौ श्रीमान्भरतः सपरिच्छदः ॥ ३४ ॥
सा प्रयाता महासेना गजवाजिरथाकुला ।दक्षिणां दिशमावृत्य महामेघ इवोत्थितः ।वनानि तु व्यतिक्रम्य जुष्टानि मृगपक्षिभिः ॥ ३५ ॥
सा संप्रहृष्टद्विपवाजियोधा वित्रासयन्ती मृगपक्षिसंघान् ।महद्वनं तत्प्रविगाहमाना रराज सेना भरतस्य तत्र ॥ ३६ ॥
« »