Click on words to see what they mean.

भरद्वाजाश्रमं दृष्ट्वा क्रोशादेव नरर्षभः ।बलं सर्वमवस्थाप्य जगाम सह मन्त्रिभिः ॥ १ ॥
पद्भ्यामेव हि धर्मज्ञो न्यस्तशस्त्रपरिच्छदः ।वसानो वाससी क्षौमे पुरोधाय पुरोहितम् ॥ २ ॥
ततः संदर्शने तस्य भरद्वाजस्य राघवः ।मन्त्रिणस्तानवस्थाप्य जगामानु पुरोहितम् ॥ ३ ॥
वसिष्ठमथ दृष्ट्वैव भरद्वाजो महातपाः ।संचचालासनात्तूर्णं शिष्यानर्घ्यमिति ब्रुवन् ॥ ४ ॥
समागम्य वसिष्ठेन भरतेनाभिवादितः ।अबुध्यत महातेजाः सुतं दशरथस्य तम् ॥ ५ ॥
ताभ्यामर्घ्यं च पाद्यं च दत्त्वा पश्चात्फलानि च ।आनुपूर्व्याच्च धर्मज्ञः पप्रच्छ कुशलं कुले ॥ ६ ॥
अयोध्यायां बले कोशे मित्रेष्वपि च मन्त्रिषु ।जानन्दशरथं वृत्तं न राजानमुदाहरत् ॥ ७ ॥
वसिष्ठो भरतश्चैनं पप्रच्छतुरनामयम् ।शरीरेऽग्निषु वृक्षेषु शिष्येषु मृगपक्षिषु ॥ ८ ॥
तथेति च प्रतिज्ञाय भरद्वाजो महातपाः ।भरतं प्रत्युवाचेदं राघवस्नेहबन्धनात् ॥ ९ ॥
किमिहागमने कार्यं तव राज्यं प्रशासतः ।एतदाचक्ष्व मे सर्वं न हि मे शुध्यते मनः ॥ १० ॥
सुषुवे यम मित्रघ्नं कौसल्यानन्दवर्धनम् ।भ्रात्रा सह सभार्यो यश्चिरं प्रव्राजितो वनम् ॥ ११ ॥
नियुक्तः स्त्रीनियुक्तेन पित्रा योऽसौ महायशाः ।वनवासी भवेतीह समाः किल चतुर्दश ॥ १२ ॥
कच्चिन्न तस्यापापस्य पापं कर्तुमिहेच्छसि ।अकण्टकं भोक्तुमना राज्यं तस्यानुजस्य च ॥ १३ ॥
एवमुक्तो भरद्वाजं भरतः प्रत्युवाच ह ।पर्यश्रु नयनो दुःखाद्वाचा संसज्जमानया ॥ १४ ॥
हतोऽस्मि यदि मामेवं भगवानपि मन्यते ।मत्तो न दोषमाशङ्केर्नैवं मामनुशाधि हि ॥ १५ ॥
न चैतदिष्टं माता मे यदवोचन्मदन्तरे ।नाहमेतेन तुष्टश्च न तद्वचनमाददे ॥ १६ ॥
अहं तु तं नरव्याघ्रमुपयातः प्रसादकः ।प्रतिनेतुमयोध्यां च पादौ तस्याभिवन्दितुम् ॥ १७ ॥
त्वं मामेवंगतं मत्वा प्रसादं कर्तुमर्हसि ।शंस मे भगवन्रामः क्व संप्रति महीपतिः ॥ १८ ॥
उवाच तं भरद्वाजः प्रसादाद्भरतं वचः ।त्वय्येतत्पुरुषव्याघ्र युक्तं राघववंशजे ।गुरुवृत्तिर्दमश्चैव साधूनां चानुयायिता ॥ १९ ॥
जाने चैतन्मनःस्थं ते दृढीकरणमस्त्विति ।अपृच्छं त्वां तवात्यर्थं कीर्तिं समभिवर्धयन् ॥ २० ॥
असौ वसति ते भ्राता चित्रकूटे महागिरौ ।श्वस्तु गन्तासि तं देशं वसाद्य सह मन्त्रिभिः ।एतं मे कुरु सुप्राज्ञ कामं कामार्थकोविद ॥ २१ ॥
ततस्तथेत्येवमुदारदर्शनः प्रतीतरूपो भरतोऽब्रवीद्वचः ।चकार बुद्धिं च तदा महाश्रमे निशानिवासाय नराधिपात्मजः ॥ २२ ॥
« »