Click on words to see what they mean.

ततः प्रभातसमये दिवसेऽथ चतुर्दशे ।समेत्य राजकर्तारो भरतं वाक्यमब्रुवन् ॥ १ ॥
गतो दशरथः स्वर्गं यो नो गुरुतरो गुरुः ।रामं प्रव्राज्य वै ज्येष्ठं लक्ष्मणं च महाबलम् ॥ २ ॥
त्वमद्य भव नो राजा राजपुत्र महायशः ।संगत्या नापराध्नोति राज्यमेतदनायकम् ॥ ३ ॥
आभिषेचनिकं सर्वमिदमादाय राघव ।प्रतीक्षते त्वां स्वजनः श्रेणयश्च नृपात्मज ॥ ४ ॥
राज्यं गृहाण भरत पितृपैतामहं महत् ।अभिषेचय चात्मानं पाहि चास्मान्नरर्षभ ॥ ५ ॥
आभिषेचनिकं भाण्डं कृत्वा सर्वं प्रदक्षिणम् ।भरतस्तं जनं सर्वं प्रत्युवाच धृतव्रतः ॥ ६ ॥
ज्येष्ठस्य राजता नित्यमुचिता हि कुलस्य नः ।नैवं भवन्तो मां वक्तुमर्हन्ति कुशला जनाः ॥ ७ ॥
रामः पूर्वो हि नो भ्राता भविष्यति महीपतिः ।अहं त्वरण्ये वत्स्यामि वर्षाणि नव पञ्च च ॥ ८ ॥
युज्यतां महती सेना चतुरङ्गमहाबला ।आनयिष्याम्यहं ज्येष्ठं भ्रातरं राघवं वनात् ॥ ९ ॥
आभिषेचनिकं चैव सर्वमेतदुपस्कृतम् ।पुरस्कृत्य गमिष्यामि रामहेतोर्वनं प्रति ॥ १० ॥
तत्रैव तं नरव्याघ्रमभिषिच्य पुरस्कृतम् ।आनेष्यामि तु वै रामं हव्यवाहमिवाध्वरात् ॥ ११ ॥
न सकामा करिष्यामि स्वमिमां मातृगन्धिनीम् ।वने वत्स्याम्यहं दुर्गे रामो राजा भविष्यति ॥ १२ ॥
क्रियतां शिल्पिभिः पन्थाः समानि विषमाणि च ।रक्षिणश्चानुसंयान्तु पथि दुर्गविचारकाः ॥ १३ ॥
एवं संभाषमाणं तं रामहेतोर्नृपात्मजम् ।प्रत्युवाच जनः सर्वः श्रीमद्वाक्यमनुत्तमम् ॥ १४ ॥
एवं ते भाषमाणस्य पद्मा श्रीरुपतिष्ठताम् ।यस्त्वं ज्येष्ठे नृपसुते पृथिवीं दातुमिच्छसि ॥ १५ ॥
अनुत्तमं तद्वचनं नृपात्मज प्रभाषितं संश्रवणे निशम्य च ।प्रहर्षजास्तं प्रति बाष्पबिन्दवो निपेतुरार्यानननेत्रसंभवाः ॥ १६ ॥
ऊचुस्ते वचनमिदं निशम्य हृष्टाः सामात्याः सपरिषदो वियातशोकाः ।पन्थानं नरवरभक्तिमाञ्जनश्च व्यादिष्टस्तव वचनाच्च शिल्पिवर्गः ॥ १७ ॥
« »