Click on words to see what they mean.

अत्र यात्रां समीहन्तं शत्रुघ्नो लक्ष्मणानुजः ।भरतं शोकसंतप्तमिदं वचनमब्रवीत् ॥ १ ॥
गतिर्यः सर्वभूतानां दुःखे किं पुनरात्मनः ।स रामः सत्त्व संपन्नः स्त्रिया प्रव्राजितो वनम् ॥ २ ॥
बलवान्वीर्य संपन्नो लक्ष्मणो नाम योऽप्यसौ ।किं न मोचयते रामं कृत्वापि पितृनिग्रहम् ॥ ३ ॥
पूर्वमेव तु निग्राह्यः समवेक्ष्य नयानयौ ।उत्पथं यः समारूढो नार्या राजा वशं गतः ॥ ४ ॥
इति संभाषमाणे तु शत्रुघ्ने लक्ष्मणानुजे ।प्राग्द्वारेऽभूत्तदा कुब्जा सर्वाभरणभूषिता ॥ ५ ॥
लिप्ता चन्दनसारेण राजवस्त्राणि बिभ्रती ।मेखला दामभिश्चित्रै रज्जुबद्धेव वानरी ॥ ६ ॥
तां समीक्ष्य तदा द्वाःस्थो भृशं पापस्य कारिणीम् ।गृहीत्वाकरुणं कुब्जां शत्रुघ्नाय न्यवेदयत् ॥ ७ ॥
यस्याः कृते वने रामो न्यस्तदेहश्च वः पिता ।सेयं पापा नृशंसा च तस्याः कुरु यथामति ॥ ८ ॥
शत्रुघ्नश्च तदाज्ञाय वचनं भृशदुःखितः ।अन्तःपुरचरान्सर्वानित्युवाच धृतव्रतः ॥ ९ ॥
तीव्रमुत्पादितं दुःखं भ्रातॄणां मे तथा पितुः ।यया सेयं नृशंसस्य कर्मणः फलमश्नुताम् ॥ १० ॥
एवमुक्ता च तेनाशु सखी जनसमावृता ।गृहीता बलवत्कुब्जा सा तद्गृहमनादयत् ॥ ११ ॥
ततः सुभृश संतप्तस्तस्याः सर्वः सखीजनः ।क्रुद्धमाज्ञाय शत्रुघ्नं व्यपलायत सर्वशः ॥ १२ ॥
अमन्त्रयत कृत्स्नश्च तस्याः सर्वसखीजनः ।यथायं समुपक्रान्तो निःशेषं नः करिष्यति ॥ १३ ॥
सानुक्रोशां वदान्यां च धर्मज्ञां च यशस्विनीम् ।कौसल्यां शरणं यामः सा हि नोऽस्तु ध्रुवा गतिः ॥ १४ ॥
स च रोषेण ताम्राक्षः शत्रुघ्नः शत्रुतापनः ।विचकर्ष तदा कुब्जां क्रोशन्तीं पृथिवीतले ॥ १५ ॥
तस्या ह्याकृष्यमाणाया मन्थरायास्ततस्ततः ।चित्रं बहुविधं भाण्डं पृथिव्यां तद्व्यशीर्यत ॥ १६ ॥
तेन भाण्डेन संकीर्णं श्रीमद्राजनिवेशनम् ।अशोभत तदा भूयः शारदं गगनं यथा ॥ १७ ॥
स बली बलवत्क्रोधाद्गृहीत्वा पुरुषर्षभः ।कैकेयीमभिनिर्भर्त्स्य बभाषे परुषं वचः ॥ १८ ॥
तैर्वाक्यैः परुषैर्दुःखैः कैकेयी भृशदुःखिता ।शत्रुघ्न भयसंत्रस्ता पुत्रं शरणमागता ॥ १९ ॥
तां प्रेक्ष्य भरतः क्रुद्धं शत्रुघ्नमिदमब्रवीत् ।अवध्याः सर्वभूतानां प्रमदाः क्षम्यतामिति ॥ २० ॥
हन्यामहमिमां पापां कैकेयीं दुष्टचारिणीम् ।यदि मां धार्मिको रामो नासूयेन्मातृघातकम् ॥ २१ ॥
इमामपि हतां कुब्जां यदि जानाति राघवः ।त्वां च मां चैव धर्मात्मा नाभिभाषिष्यते ध्रुवम् ॥ २२ ॥
भरतस्य वचः श्रुत्वा शत्रुघ्नो लक्ष्मणानुजः ।न्यवर्तत ततो रोषात्तां मुमोच च मन्थराम् ॥ २३ ॥
सा पादमूले कैकेय्या मन्थरा निपपात ह ।निःश्वसन्ती सुदुःखार्ता कृपणं विललाप च ॥ २४ ॥
शत्रुघ्नविक्षेपविमूढसंज्ञां समीक्ष्य कुब्जां भरतस्य माता ।शनैः समाश्वासयदार्तरूपां क्रौञ्चीं विलग्नामिव वीक्षमाणाम् ॥ २५ ॥
« »