Click on words to see what they mean.

तथैव क्रोशतस्तस्य भरतस्य महात्मनः ।कौसल्या शब्दमाज्ञाय सुमित्रामिदमब्रवीत् ॥ १ ॥
आगतः क्रूरकार्यायाः कैकेय्या भरतः सुतः ।तमहं द्रष्टुमिच्छामि भरतं दीर्घदर्शिनम् ॥ २ ॥
एवमुक्त्वा सुमित्रां सा विवर्णा मलिनाम्बरा ।प्रतस्थे भरतो यत्र वेपमाना विचेतना ॥ ३ ॥
स तु रामानुजश्चापि शत्रुघ्नसहितस्तदा ।प्रतस्थे भरतो यत्र कौसल्याया निवेशनम् ॥ ४ ॥
ततः शत्रुघ्नभरतौ कौसल्यां प्रेक्ष्य दुःखितौ ।पर्यष्वजेतां दुःखार्तां पतितां नष्टचेतनाम् ॥ ५ ॥
भरतं प्रत्युवाचेदं कौसल्या भृशदुःखिता ।इदं ते राज्यकामस्य राज्यं प्राप्तमकण्टकम् ।संप्राप्तं बत कैकेय्या शीघ्रं क्रूरेण कर्मणा ॥ ६ ॥
प्रस्थाप्य चीरवसनं पुत्रं मे वनवासिनम् ।कैकेयी कं गुणं तत्र पश्यति क्रूरदर्शिनी ॥ ७ ॥
क्षिप्रं मामपि कैकेयी प्रस्थापयितुमर्हति ।हिरण्यनाभो यत्रास्ते सुतो मे सुमहायशाः ॥ ८ ॥
अथ वा स्वयमेवाहं सुमित्रानुचरा सुखम् ।अग्निहोत्रं पुरस्कृत्य प्रस्थास्ये यत्र राघवः ॥ ९ ॥
कामं वा स्वयमेवाद्य तत्र मां नेतुमर्हसि ।यत्रासौ पुरुषव्याघ्रस्तप्यते मे तपः सुतः ॥ १० ॥
इदं हि तव विस्तीर्णं धनधान्यसमाचितम् ।हस्त्यश्वरथसंपूर्णं राज्यं निर्यातितं तया ॥ ११ ॥
एवं विलपमानां तां भरतः प्राञ्जलिस्तदा ।कौसल्यां प्रत्युवाचेदं शोकैर्बहुभिरावृताम् ॥ १२ ॥
आर्ये कस्मादजानन्तं गर्हसे मामकिल्बिषम् ।विपुलां च मम प्रीतिं स्थिरां जानासि राघवे ॥ १३ ॥
कृता शास्त्रानुगा बुद्धिर्मा भूत्तस्य कदाचन ।सत्यसंधः सतां श्रेष्ठो यस्यार्योऽनुमते गतः ॥ १४ ॥
प्रैष्यं पापीयसां यातु सूर्यं च प्रति मेहतु ।हन्तु पादेन गां सुप्तां यस्यार्योऽनुमते गतः ॥ १५ ॥
कारयित्वा महत्कर्म भर्ता भृत्यमनर्थकम् ।अधर्मो योऽस्य सोऽस्यास्तु यस्यार्योऽनुमते गतः ॥ १६ ॥
परिपालयमानस्य राज्ञो भूतानि पुत्रवत् ।ततस्तु द्रुह्यतां पापं यस्यार्योऽनुमते गतः ॥ १७ ॥
बलिषड्भागमुद्धृत्य नृपस्यारक्षतः प्रजाः ।अधर्मो योऽस्य सोऽस्यास्तु यस्यार्योऽनुमते गतः ॥ १८ ॥
संश्रुत्य च तपस्विभ्यः सत्रे वै यज्ञदक्षिणाम् ।तां विप्रलपतां पापं यस्यार्योऽनुमते गतः ॥ १९ ॥
हस्त्यश्वरथसंबाधे युद्धे शस्त्रसमाकुले ।मा स्म कार्षीत्सतां धर्मं यस्यार्योऽनुमते गतः ॥ २० ॥
उपदिष्टं सुसूक्ष्मार्थं शास्त्रं यत्नेन धीमता ।स नाशयतु दुष्टात्मा यस्यार्योऽनुमते गतः ॥ २१ ॥
पायसं कृसरं छागं वृथा सोऽश्नातु निर्घृणः ।गुरूंश्चाप्यवजानातु यस्यार्योऽनुमते गतः ॥ २२ ॥
पुत्रैर्दारैश्च भृत्यैश्च स्वगृहे परिवारितः ।स एको मृष्टमश्नातु यस्यार्योऽनुमते गतः ॥ २३ ॥
राजस्त्रीबालवृद्धानां वधे यत्पापमुच्यते ।भृत्यत्यागे च यत्पापं तत्पापं प्रतिपद्यताम् ॥ २४ ॥
उभे संध्ये शयानस्य यत्पापं परिकल्प्यते ।तच्च पापं भवेत्तस्य यस्यार्योऽनुमते गतः ॥ २५ ॥
यदग्निदायके पापं यत्पापं गुरुतल्पगे ।मित्रद्रोहे च यत्पापं तत्पापं प्रतिपद्यताम् ॥ २६ ॥
देवतानां पितॄणां च माता पित्रोस्तथैव च ।मा स्म कार्षीत्स शुश्रूषां यस्यार्योऽनुमते गतः ॥ २७ ॥
सतां लोकात्सतां कीर्त्याः सज्जुष्टात्कर्मणस्तथा ।भ्रश्यतु क्षिप्रमद्यैव यस्यार्योऽनुमते गतः ॥ २८ ॥
विहीनां पतिपुत्राभ्यां कौसल्यां पार्थिवात्मजः ।एवमाश्वसयन्नेव दुःखार्तो निपपात ह ॥ २९ ॥
तथा तु शपथैः कष्टैः शपमानमचेतनम् ।भरतं शोकसंतप्तं कौसल्या वाक्यमब्रवीत् ॥ ३० ॥
मम दुःखमिदं पुत्र भूयः समुपजायते ।शपथैः शपमानो हि प्राणानुपरुणत्सि मे ॥ ३१ ॥
दिष्ट्या न चलितो धर्मादात्मा ते सहलक्ष्मणः ।वत्स सत्यप्रतिज्ञो मे सतां लोकानवाप्स्यसि ॥ ३२ ॥
एवं विलपमानस्य दुःखार्तस्य महात्मनः ।मोहाच्च शोकसंरोधाद्बभूव लुलितं मनः ॥ ३३ ॥
लालप्यमानस्य विचेतनस्य प्रनष्टबुद्धेः पतितस्य भूमौ ।मुहुर्मुहुर्निःश्वसतश्च दीर्घं सा तस्य शोकेन जगाम रात्रिः ॥ ३४ ॥
« »