Click on words to see what they mean.

अथ तं व्यथया दीनं सविशेषममर्षितम् ।श्वसन्तमिव नागेन्द्रं रोषविस्फारितेक्षणम् ॥ १ ॥
आसाद्य रामः सौमित्रिं सुहृदं भ्रातरं प्रियम् ।उवाचेदं स धैर्येण धारयन्सत्त्वमात्मवान् ॥ २ ॥
सौमित्रे योऽभिषेकार्थे मम संभारसंभ्रमः ।अभिषेकनिवृत्त्यर्थे सोऽस्तु संभारसंभ्रमः ॥ ३ ॥
यस्या मदभिषेकार्थं मानसं परितप्यते ।माता नः सा यथा न स्यात्सविशङ्का तथा कुरु ॥ ४ ॥
तस्याः शङ्कामयं दुःखं मुहूर्तमपि नोत्सहे ।मनसि प्रतिसंजातं सौमित्रेऽहमुपेक्षितुम् ॥ ५ ॥
न बुद्धिपूर्वं नाबुद्धं स्मरामीह कदाचन ।मातॄणां वा पितुर्वाहं कृतमल्पं च विप्रियम् ॥ ६ ॥
सत्यः सत्याभिसंधश्च नित्यं सत्यपराक्रमः ।परलोकभयाद्भीतो निर्भयोऽस्तु पिता मम ॥ ७ ॥
तस्यापि हि भवेदस्मिन्कर्मण्यप्रतिसंहृते ।सत्यं नेति मनस्तापस्तस्य तापस्तपेच्च माम् ॥ ८ ॥
अभिषेकविधानं तु तस्मात्संहृत्य लक्ष्मण ।अन्वगेवाहमिच्छामि वनं गन्तुमितः पुनः ॥ ९ ॥
मम प्रव्राजनादद्य कृतकृत्या नृपात्मजा ।सुतं भरतमव्यग्रमभिषेचयिता ततः ॥ १० ॥
मयि चीराजिनधरे जटामण्डलधारिणि ।गतेऽरण्यं च कैकेय्या भविष्यति मनःसुखम् ॥ ११ ॥
बुद्धिः प्रणीता येनेयं मनश्च सुसमाहितम् ।तत्तु नार्हामि संक्लेष्टुं प्रव्रजिष्यामि माचिरम् ॥ १२ ॥
कृतान्तस्त्वेव सौमित्रे द्रष्टव्यो मत्प्रवासने ।राज्यस्य च वितीर्णस्य पुनरेव निवर्तने ॥ १३ ॥
कैकेय्याः प्रतिपत्तिर्हि कथं स्यान्मम पीडने ।यदि भावो न दैवोऽयं कृतान्तविहितो भवेत् ॥ १४ ॥
जानासि हि यथा सौम्य न मातृषु ममान्तरम् ।भूतपूर्वं विशेषो वा तस्या मयि सुतेऽपि वा ॥ १५ ॥
सोऽभिषेकनिवृत्त्यर्थैः प्रवासार्थैश्च दुर्वचैः ।उग्रैर्वाक्यैरहं तस्या नान्यद्दैवात्समर्थये ॥ १६ ॥
कथं प्रकृतिसंपन्ना राजपुत्री तथागुणा ।ब्रूयात्सा प्राकृतेव स्त्री मत्पीडां भर्तृसंनिधौ ॥ १७ ॥
यदचिन्त्यं तु तद्दैवं भूतेष्वपि न हन्यते ।व्यक्तं मयि च तस्यां च पतितो हि विपर्ययः ॥ १८ ॥
कश्चिद्दैवेन सौमित्रे योद्धुमुत्सहते पुमान् ।यस्य न ग्रहणं किंचित्कर्मणोऽन्यत्र दृश्यते ॥ १९ ॥
सुखदुःखे भयक्रोधौ लाभालाभौ भवाभवौ ।यस्य किंचित्तथाभूतं ननु दैवस्य कर्म तत् ॥ २० ॥
व्याहतेऽप्यभिषेके मे परितापो न विद्यते ।तस्मादपरितापः संस्त्वमप्यनुविधाय माम् ।प्रतिसंहारय क्षिप्रमाभिषेचनिकीं क्रियाम् ॥ २१ ॥
न लक्ष्मणास्मिन्मम राज्यविघ्ने माता यवीयस्यतिशङ्कनीया ।दैवाभिपन्ना हि वदन्त्यनिष्टं जानासि दैवं च तथाप्रभावम् ॥ २२ ॥
« »