Click on words to see what they mean.

राघवस्त्वपयातेषु तपस्विषु विचिन्तयन् ।न तत्रारोचयद्वासं कारणैर्बहुभिस्तदा ॥ १ ॥
इह मे भरतो दृष्टो मातरश्च सनागराः ।सा च मे स्मृतिरन्वेति तान्नित्यमनुशोचतः ॥ २ ॥
स्कन्धावारनिवेशेन तेन तस्य महात्मनः ।हयहस्तिकरीषैश्च उपमर्दः कृतो भृशम् ॥ ३ ॥
तस्मादन्यत्र गच्छाम इति संचिन्त्य राघवः ।प्रातिष्ठत स वैदेह्या लक्ष्मणेन च संगतः ॥ ४ ॥
सोऽत्रेराश्रममासाद्य तं ववन्दे महायशाः ।तं चापि भगवानत्रिः पुत्रवत्प्रत्यपद्यत ॥ ५ ॥
स्वयमातिथ्यमादिश्य सर्वमस्य सुसत्कृतम् ।सौमित्रिं च महाभागां सीतां च समसान्त्वयत् ॥ ६ ॥
पत्नीं च तमनुप्राप्तां वृद्धामामन्त्र्य सत्कृताम् ।सान्त्वयामास धर्मज्ञः सर्वभूतहिते रतः ॥ ७ ॥
अनसूयां महाभागां तापसीं धर्मचारिणीम् ।प्रतिगृह्णीष्व वैदेहीमब्रवीदृषिसत्तमः ॥ ८ ॥
रामाय चाचचक्षे तां तापसीं धर्मचारिणीम् ।दश वर्षाण्यनावृष्ट्या दग्धे लोके निरन्तरम् ॥ ९ ॥
यया मूलफले सृष्टे जाह्नवी च प्रवर्तिता ।उग्रेण तपसा युक्ता नियमैश्चाप्यलंकृता ॥ १० ॥
दशवर्षसहस्राणि यया तप्तं महत्तपः ।अनसूयाव्रतैस्तात प्रत्यूहाश्च निबर्हिताः ॥ ११ ॥
देवकार्यनिमित्तं च यया संत्वरमाणया ।दशरात्रं कृत्वा रात्रिः सेयं मातेव तेऽनघ ॥ १२ ॥
तामिमां सर्वभूतानां नमस्कार्यां यशस्विनीम् ।अभिगच्छतु वैदेही वृद्धामक्रोधनां सदा ॥ १३ ॥
एवं ब्रुवाणं तमृषिं तथेत्युक्त्वा स राघवः ।सीतामुवाच धर्मज्ञामिदं वचनमुत्तमम् ॥ १४ ॥
राजपुत्रि श्रुतं त्वेतन्मुनेरस्य समीरितम् ।श्रेयोऽर्थमात्मनः शीघ्रमभिगच्छ तपस्विनीम् ॥ १५ ॥
अनसूयेति या लोके कर्मभिः क्यातिमागता ।तां शीघ्रमभिगच्छ त्वमभिगम्यां तपस्विनीम् ॥ १६ ॥
सीता त्वेतद्वचः श्रुत्वा राघवस्य हितैषिणी ।तामत्रिपत्नीं धर्मज्ञामभिचक्राम मैथिली ॥ १७ ॥
शिथिलां वलितां वृद्धां जरापाण्डुरमूर्धजाम् ।सततं वेपमानाङ्गीं प्रवाते कदली यथा ॥ १८ ॥
तां तु सीता महाभागामनसूयां पतिव्रताम् ।अभ्यवादयदव्यग्रा स्वं नाम समुदाहरत् ॥ १९ ॥
अभिवाद्य च वैदेही तापसीं तामनिन्दिताम् ।बद्धाञ्जलिपुटा हृष्टा पर्यपृच्छदनामयम् ॥ २० ॥
ततः सीतां महाभागां दृष्ट्वा तां धर्मचारिणीम् ।सान्त्वयन्त्यब्रवीद्धृष्टा दिष्ट्या धर्ममवेक्षसे ॥ २१ ॥
त्यक्त्वा ज्ञातिजनं सीते मानमृद्धिं च मानिनि ।अवरुद्धं वने रामं दिष्ट्या त्वमनुगच्छसि ॥ २२ ॥
नगरस्थो वनस्थो वा पापो वा यदि वाशुभः ।यासां स्त्रीणां प्रियो भर्ता तासां लोका महोदयाः ॥ २३ ॥
दुःशीलः कामवृत्तो वा धनैर्वा परिवर्जितः ।स्त्रीणामार्य स्वभावानां परमं दैवतं पतिः ॥ २४ ॥
नातो विशिष्टं पश्यामि बान्धवं विमृशन्त्यहम् ।सर्वत्र योग्यं वैदेहि तपः कृतमिवाव्ययम् ॥ २५ ॥
न त्वेवमवगच्छन्ति गुण दोषमसत्स्त्रियः ।कामवक्तव्यहृदया भर्तृनाथाश्चरन्ति याः ॥ २६ ॥
प्राप्नुवन्त्ययशश्चैव धर्मभ्रंशं च मैथिलि ।अकार्य वशमापन्नाः स्त्रियो याः खलु तद्विधाः ॥ २७ ॥
त्वद्विधास्तु गुणैर्युक्ता दृष्टलोकपरावराः ।स्त्रियः स्वर्गे चरिष्यन्ति यथा पुण्यकृतस्तथा ॥ २८ ॥
« »