Click on words to see what they mean.

वसिष्ठस्तु तदा राममुक्त्वा राजपुरोहितः ।अब्रवीद्धर्मसंयुक्तं पुनरेवापरं वचः ॥ १ ॥
पुरुषस्येह जातस्य भवन्ति गुरवस्त्रयः ।आचार्यश्चैव काकुत्स्थ पिता माता च राघव ॥ २ ॥
पिता ह्येनं जनयति पुरुषं पुरुषर्षभ ।प्रज्ञां ददाति चाचार्यस्तस्मात्स गुरुरुच्यते ॥ ३ ॥
स तेऽहं पितुराचार्यस्तव चैव परंतप ।मम त्वं वचनं कुर्वन्नातिवर्तेः सतां गतिम् ॥ ४ ॥
इमा हि ते परिषदः श्रेणयश्च समागताः ।एषु तात चरन्धर्मं नातिवर्तेः सतां गतिम् ॥ ५ ॥
वृद्धाया धर्मशीलाया मातुर्नार्हस्यवर्तितुम् ।अस्यास्तु वचनं कुर्वन्नातिवर्तेः सतां गतिम् ॥ ६ ॥
भरतस्य वचः कुर्वन्याचमानस्य राघव ।आत्मानं नातिवर्तेस्त्वं सत्यधर्मपराक्रम ॥ ७ ॥
एवं मधुरमुक्तस्तु गुरुणा राघवः स्वयम् ।प्रत्युवाच समासीनं वसिष्ठं पुरुषर्षभः ॥ ८ ॥
यन्मातापितरौ वृत्तं तनये कुरुतः सदा ।न सुप्रतिकरं तत्तु मात्रा पित्रा च यत्कृतम् ॥ ९ ॥
यथाशक्ति प्रदानेन स्नापनाच्छादनेन च ।नित्यं च प्रियवादेन तथा संवर्धनेन च ॥ १० ॥
स हि राजा जनयिता पिता दशरथो मम ।आज्ञातं यन्मया तस्य न तन्मिथ्या भविष्यति ॥ ११ ॥
एवमुक्तस्तु रामेण भरतः प्रत्यनन्तरम् ।उवाच परमोदारः सूतं परमदुर्मनाः ॥ १२ ॥
इह मे स्थण्डिले शीघ्रं कुशानास्तर सारथे ।आर्यं प्रत्युपवेक्ष्यामि यावन्मे न प्रसीदति ॥ १३ ॥
अनाहारो निरालोको धनहीनो यथा द्विजः ।शेष्ये पुरस्ताच्छालाया यावन्न प्रतियास्यति ॥ १४ ॥
स तु राममवेक्षन्तं सुमन्त्रं प्रेक्ष्य दुर्मनाः ।कुशोत्तरमुपस्थाप्य भूमावेवास्तरत्स्वयम् ॥ १५ ॥
तमुवाच महातेजा रामो राजर्षिसत्तमाः ।किं मां भरत कुर्वाणं तात प्रत्युपवेक्ष्यसि ॥ १६ ॥
ब्राह्मणो ह्येकपार्श्वेन नरान्रोद्धुमिहार्हति ।न तु मूर्धावसिक्तानां विधिः प्रत्युपवेशने ॥ १७ ॥
उत्तिष्ठ नरशार्दूल हित्वैतद्दारुणं व्रतम् ।पुरवर्यामितः क्षिप्रमयोध्यां याहि राघव ॥ १८ ॥
आसीनस्त्वेव भरतः पौरजानपदं जनम् ।उवाच सर्वतः प्रेक्ष्य किमार्यं नानुशासथ ॥ १९ ॥
ते तमूचुर्महात्मानं पौरजानपदा जनाः ।काकुत्स्थमभिजानीमः सम्यग्वदति राघवः ॥ २० ॥
एषोऽपि हि महाभागः पितुर्वचसि तिष्ठति ।अत एव न शक्ताः स्मो व्यावर्तयितुमञ्जसा ॥ २१ ॥
तेषामाज्ञाय वचनं रामो वचनमब्रवीत् ।एवं निबोध वचनं सुहृदां धर्मचक्षुषाम् ॥ २२ ॥
एतच्चैवोभयं श्रुत्वा सम्यक्संपश्य राघव ।उत्तिष्ठ त्वं महाबाहो मां च स्पृश तथोदकम् ॥ २३ ॥
अथोत्थाय जलं स्पृष्ट्वा भरतो वाक्यमब्रवीत् ।शृण्वन्तु मे परिषदो मन्त्रिणः श्रेणयस्तथा ॥ २४ ॥
न याचे पितरं राज्यं नानुशासामि मातरम् ।आर्यं परमधर्मज्ञमभिजानामि राघवम् ॥ २५ ॥
यदि त्ववश्यं वस्तव्यं कर्तव्यं च पितुर्वचः ।अहमेव निवत्स्यामि चतुर्दश वने समाः ॥ २६ ॥
धर्मात्मा तस्य तथ्येन भ्रातुर्वाक्येन विस्मितः ।उवाच रामः संप्रेक्ष्य पौरजानपदं जनम् ॥ २७ ॥
विक्रीतमाहितं क्रीतं यत्पित्रा जीवता मम ।न तल्लोपयितुं शक्यं मया वा भरतेन वा ॥ २८ ॥
उपधिर्न मया कार्यो वनवासे जुगुप्सितः ।युक्तमुक्तं च कैकेय्या पित्रा मे सुकृतं कृतम् ॥ २९ ॥
जानामि भरतं क्षान्तं गुरुसत्कारकारिणम् ।सर्वमेवात्र कल्याणं सत्यसंधे महात्मनि ॥ ३० ॥
अनेन धर्मशीलेन वनात्प्रत्यागतः पुनः ।भ्रात्रा सह भविष्यामि पृथिव्याः पतिरुत्तमः ॥ ३१ ॥
वृतो राजा हि कैकेय्या मया तद्वचनं कृतम् ।अनृतान्मोचयानेन पितरं तं महीपतिम् ॥ ३२ ॥
« »