Click on words to see what they mean.

क्रुद्धमाज्ञाय रामं तु वसिष्ठः प्रत्युवाच ह ।जाबालिरपि जानीते लोकस्यास्य गतागतिम् ।निवर्तयितुकामस्तु त्वामेतद्वाक्यमब्रवीत् ॥ १ ॥
इमां लोकसमुत्पत्तिं लोकनाथ निबोध मे ।सर्वं सलिलमेवासीत्पृथिवी यत्र निर्मिता ।ततः समभवद्ब्रह्मा स्वयम्भूर्दैवतैः सह ॥ २ ॥
स वराहस्ततो भूत्वा प्रोज्जहार वसुंधराम् ।असृजच्च जगत्सर्वं सह पुत्रैः कृतात्मभिः ॥ ३ ॥
आकाशप्रभवो ब्रह्मा शाश्वतो नित्य अव्ययः ।तस्मान्मरीचिः संजज्ञे मरीचेः कश्यपः सुतः ॥ ४ ॥
विवस्वान्कश्यपाज्जज्ञे मनुर्वैवस्वतः स्मृतः ।स तु प्रजापतिः पूर्वमिक्ष्वाकुस्तु मनोः सुतः ॥ ५ ॥
यस्येयं प्रथमं दत्ता समृद्धा मनुना मही ।तमिक्ष्वाकुमयोध्यायां राजानं विद्धि पूर्वकम् ॥ ६ ॥
इक्ष्वाकोस्तु सुतः श्रीमान्कुक्षिरेवेति विश्रुतः ।कुक्षेरथात्मजो वीरो विकुक्षिरुदपद्यत ॥ ७ ॥
विकुक्षेस्तु महातेजा बाणः पुत्रः प्रतापवान् ।बाणस्य तु महाबाहुरनरण्यो महायशाः ॥ ८ ॥
नानावृष्टिर्बभूवास्मिन्न दुर्भिक्षं सतां वरे ।अनरण्ये महाराजे तस्करो वापि कश्चन ॥ ९ ॥
अनरण्यान्महाबाहुः पृथू राजा बभूव ह ।तस्मात्पृथोर्महाराजस्त्रिशङ्कुरुदपद्यत ।स सत्यवचनाद्वीरः सशरीरो दिवं गतः ॥ १० ॥
त्रिशङ्कोरभवत्सूनुर्धुन्धुमारो महायशाः ।धुन्धुमारान्महातेजा युवनाश्वो व्यजायत ॥ ११ ॥
युवनाश्व सुतः श्रीमान्मान्धाता समपद्यत ।मान्धातुस्तु महातेजाः सुसंधिरुदपद्यत ॥ १२ ॥
सुसंधेरपि पुत्रौ द्वौ ध्रुवसंधिः प्रसेनजित् ।यशस्वी ध्रुवसंधेस्तु भरतो रिपुसूदनः ॥ १३ ॥
भरतात्तु महाबाहोरसितो नाम जायत ।यस्यैते प्रतिराजान उदपद्यन्त शत्रवः ।हैहयास्तालजङ्घाश्च शूराश्च शशबिन्दवः ॥ १४ ॥
तांस्तु सर्वान्प्रतिव्यूह्य युद्धे राजा प्रवासितः ।स च शैलवरे रम्ये बभूवाभिरतो मुनिः ।द्वे चास्य भार्ये गर्भिण्यौ बभूवतुरिति श्रुतिः ॥ १५ ॥
भार्गवश्च्यवनो नाम हिमवन्तमुपाश्रितः ।तमृषिं समुपागम्य कालिन्दी त्वभ्यवादयत् ॥ १६ ॥
स तामभ्यवदद्विप्रो वरेप्सुं पुत्रजन्मनि ।ततः सा गृहमागम्य देवी पुत्रं व्यजायत ॥ १७ ॥
सपत्न्या तु गरस्तस्यै दत्तो गर्भजिघांसया ।गरेण सह तेनैव जातः स सगरोऽभवत् ॥ १८ ॥
स राजा सगरो नाम यः समुद्रमखानयत् ।इष्ट्वा पर्वणि वेगेन त्रासयन्तमिमाः प्रजाः ॥ १९ ॥
असमञ्जस्तु पुत्रोऽभूत्सगरस्येति नः श्रुतम् ।जीवन्नेव स पित्रा तु निरस्तः पापकर्मकृत् ॥ २० ॥
अंशुमानिति पुत्रोऽभूदसमञ्जस्य वीर्यवान् ।दिलीपोंऽशुमतः पुत्रो दिलीपस्य भगीरथः ॥ २१ ॥
भगीरथात्ककुत्स्थस्तु काकुत्स्था येन तु स्मृताः ।ककुत्स्थस्य तु पुत्रोऽभूद्रघुर्येन तु राघवः ॥ २२ ॥
रघोस्तु पुत्रस्तेजस्वी प्रवृद्धः पुरुषादकः ।कल्माषपादः सौदास इत्येवं प्रथितो भुवि ॥ २३ ॥
कल्माषपादपुत्रोऽभूच्छङ्खणस्त्विति विश्रुतः ।यस्तु तद्वीर्यमासाद्य सहसेनो व्यनीनशत् ॥ २४ ॥
शङ्खणस्य तु पुत्रोऽभूच्छूरः श्रीमान्सुदर्शनः ।सुदर्शनस्याग्निवर्ण अग्निवर्षस्य शीघ्रगः ॥ २५ ॥
शीघ्रगस्य मरुः पुत्रो मरोः पुत्रः प्रशुश्रुकः ।प्रशुश्रुकस्य पुत्रोऽभूदम्बरीषो महाद्युतिः ॥ २६ ॥
अम्बरीषस्य पुत्रोऽभून्नहुषः सत्यविक्रमः ।नहुषस्य च नाभागः पुत्रः परमधार्मिकः ॥ २७ ॥
अजश्च सुव्रतश्चैव नाभागस्य सुतावुभौ ।अजस्य चैव धर्मात्मा राजा दशरथः सुतः ॥ २८ ॥
तस्य ज्येष्ठोऽसि दायादो राम इत्यभिविश्रुतः ।तद्गृहाण स्वकं राज्यमवेक्षस्व जगन्नृप ॥ २९ ॥
इक्ष्वाकूणां हि सर्वेषां राजा भवति पूर्वजः ।पूर्वजे नावरः पुत्रो ज्येष्ठो राज्येऽभिषिच्यते ॥ ३० ॥
स राघवाणां कुलधर्ममात्मनः सनातनं नाद्य विहातुमर्हसि ।प्रभूतरत्नामनुशाधि मेदिनीं प्रभूतराष्ट्रां पितृवन्महायशाः ॥ ३१ ॥
« »