Click on words to see what they mean.

आज्ञाप्य तु महाराजो राघवस्याभिषेचनम् ।प्रियार्हां प्रियमाख्यातुं विवेशान्तःपुरं वशी ॥ १ ॥
तां तत्र पतितां भूमौ शयानामतथोचिताम् ।प्रतप्त इव दुःखेन सोऽपश्यज्जगतीपतिः ॥ २ ॥
स वृद्धस्तरुणीं भार्यां प्राणेभ्योऽपि गरीयसीम् ।अपापः पापसंकल्पां ददर्श धरणीतले ॥ ३ ॥
करेणुमिव दिग्धेन विद्धां मृगयुणा वने ।महागज इवारण्ये स्नेहात्परिममर्श ताम् ॥ ४ ॥
परिमृश्य च पाणिभ्यामभिसंत्रस्तचेतनः ।कामी कमलपत्राक्षीमुवाच वनितामिदम् ॥ ५ ॥
न तेऽहमभिजानामि क्रोधमात्मनि संश्रितम् ।देवि केनाभियुक्तासि केन वासि विमानिता ॥ ६ ॥
यदिदं मम दुःखाय शेषे कल्याणि पांसुषु ।भूमौ शेषे किमर्थं त्वं मयि कल्याण चेतसि ।भूतोपहतचित्तेव मम चित्तप्रमाथिनी ॥ ७ ॥
सन्ति मे कुशला वैद्या अभितुष्टाश्च सर्वशः ।सुखितां त्वां करिष्यन्ति व्याधिमाचक्ष्व भामिनि ॥ ८ ॥
कस्य वा ते प्रियं कार्यं केन वा विप्रियं कृतम् ।कः प्रियं लभतामद्य को वा सुमहदप्रियम् ॥ ९ ॥
अवध्यो वध्यतां को वा वध्यः को वा विमुच्यताम् ।दरिद्रः को भवत्वाढ्यो द्रव्यवान्वाप्यकिंचनः ॥ १० ॥
अहं चैव मदीयाश्च सर्वे तव वशानुगाः ।न ते कंचिदभिप्रायं व्याहन्तुमहमुत्सहे ॥ ११ ॥
आत्मनो जीवितेनापि ब्रूहि यन्मनसेच्छसि ।यावदावर्तते चक्रं तावती मे वसुंधरा ॥ १२ ॥
तथोक्ता सा समाश्वस्ता वक्तुकामा तदप्रियम् ।परिपीडयितुं भूयो भर्तारमुपचक्रमे ॥ १३ ॥
नास्मि विप्रकृता देव केनचिन्न विमानिता ।अभिप्रायस्तु मे कश्चित्तमिच्छामि त्वया कृतम् ॥ १४ ॥
प्रतिज्ञां प्रतिजानीष्व यदि त्वं कर्तुमिच्छसि ।अथ तद्व्याहरिष्यामि यदभिप्रार्थितं मया ॥ १५ ॥
एवमुक्तस्तया राजा प्रियया स्त्रीवशं गतः ।तामुवाच महातेजाः कैकेयीमीषदुत्स्मितः ॥ १६ ॥
अवलिप्ते न जानासि त्वत्तः प्रियतरो मम ।मनुजो मनुजव्याघ्राद्रामादन्यो न विद्यते ॥ १७ ॥
भद्रे हृदयमप्येतदनुमृश्योद्धरस्व मे ।एतत्समीक्ष्य कैकेयि ब्रूहि यत्साधु मन्यसे ॥ १८ ॥
बलमात्मनि पश्यन्ती न मां शङ्कितुमर्हसि ।करिष्यामि तव प्रीतिं सुकृतेनापि ते शपे ॥ १९ ॥
तेन वाक्येन संहृष्टा तमभिप्रायमात्मनः ।व्याजहार महाघोरमभ्यागतमिवान्तकम् ॥ २० ॥
यथाक्रमेण शपसि वरं मम ददासि च ।तच्छृण्वन्तु त्रयस्त्रिंशद्देवाः सेन्द्रपुरोगमाः ॥ २१ ॥
चन्द्रादित्यौ नभश्चैव ग्रहा रात्र्यहनी दिशः ।जगच्च पृथिवी चैव सगन्धर्वा सराक्षसा ॥ २२ ॥
निशाचराणि भूतानि गृहेषु गृहदेवताः ।यानि चान्यानि भूतानि जानीयुर्भाषितं तव ॥ २३ ॥
सत्यसंधो महातेजा धर्मज्ञः सुसमाहितः ।वरं मम ददात्येष तन्मे शृण्वन्तु देवताः ॥ २४ ॥
इति देवी महेष्वासं परिगृह्याभिशस्य च ।ततः परमुवाचेदं वरदं काममोहितम् ॥ २५ ॥
वरौ यौ मे त्वया देव तदा दत्तौ महीपते ।तौ तावदहमद्यैव वक्ष्यामि शृणु मे वचः ॥ २६ ॥
अभिषेकसमारम्भो राघवस्योपकल्पितः ।अनेनैवाभिषेकेण भरतो मेऽभिषिच्यताम् ॥ २७ ॥
नव पञ्च च वर्षाणि दण्डकारण्यमाश्रितः ।चीराजिनजटाधारी रामो भवतु तापसः ॥ २८ ॥
भरतो भजतामद्य यौवराज्यमकण्टकम् ।अद्य चैव हि पश्येयं प्रयान्तं राघवं वने ॥ २९ ॥
ततः श्रुत्वा महाराजः कैकेय्या दारुणं वचः ।व्यथितो विक्लवश्चैव व्याघ्रीं दृष्ट्वा यथा मृगः ॥ ३० ॥
असंवृतायामासीनो जगत्यां दीर्घमुच्छ्वसन् ।अहो धिगिति सामर्षो वाचमुक्त्वा नराधिपः ।मोहमापेदिवान्भूयः शोकोपहतचेतनः ॥ ३१ ॥
चिरेण तु नृपः संज्ञां प्रतिलभ्य सुदुःखितः ।कैकेयीमब्रवीत्क्रुद्धः प्रदहन्निव चक्षुषा ॥ ३२ ॥
नृशंसे दुष्टचारित्रे कुलस्यास्य विनाशिनि ।किं कृतं तव रामेण पापे पापं मयापि वा ॥ ३३ ॥
सदा ते जननी तुल्यां वृत्तिं वहति राघवः ।तस्यैव त्वमनर्थाय किंनिमित्तमिहोद्यता ॥ ३४ ॥
त्वं मयात्मविनाशाय भवनं स्वं प्रवेशिता ।अविज्ञानान्नृपसुता व्याली तीक्ष्णविषा यथा ॥ ३५ ॥
जीवलोको यदा सर्वो रामस्येह गुणस्तवम् ।अपराधं कमुद्दिश्य त्यक्ष्यामीष्टमहं सुतम् ॥ ३६ ॥
कौसल्यां वा सुमित्रां वा त्यजेयमपि वा श्रियम् ।जीवितं वात्मनो रामं न त्वेव पितृवत्सलम् ॥ ३७ ॥
परा भवति मे प्रीतिर्दृष्ट्वा तनयमग्रजम् ।अपश्यतस्तु मे रामं नष्टा भवति चेतना ॥ ३८ ॥
तिष्ठेल्लोको विना सूर्यं सस्यं वा सलिलं विना ।न तु रामं विना देहे तिष्ठेत्तु मम जीवितम् ॥ ३९ ॥
तदलं त्यज्यतामेष निश्चयः पापनिश्चये ।अपि ते चरणौ मूर्ध्ना स्पृशाम्येष प्रसीद मे ॥ ४० ॥
स भूमिपालो विलपन्ननाथवत्स्त्रिया गृहीतो हृदयेऽतिमात्रता ।पपात देव्याश्चरणौ प्रसारितावुभावसंस्पृश्य यथातुरस्तथा ॥ ४१ ॥
« »