Click on words to see what they mean.

कस्यचित्त्वथ कालस्य राजा दशरथः सुतम् ।भरतं केकयीपुत्रमब्रवीद्रघुनन्दनः ॥ १ ॥
अयं केकयराजस्य पुत्रो वसति पुत्रक ।त्वां नेतुमागतो वीर युधाजिन्मातुलस्तव ॥ २ ॥
श्रुत्वा दशरथस्यैतद्भरतः केकयीसुतः ।गमनायाभिचक्राम शत्रुघ्नसहितस्तदा ॥ ३ ॥
आपृच्छ्य पितरं शूरो रामं चाक्लिष्टकारिणम् ।मातॄंश्चापि नरश्रेष्ठः शत्रुघ्नसहितो ययौ ॥ ४ ॥
युधाजित्प्राप्य भरतं सशत्रुघ्नं प्रहर्षितः ।स्वपुरं प्राविशद्वीरः पिता तस्य तुतोष ह ॥ ५ ॥
स तत्र न्यवसद्भ्रात्रा सह सत्कारसत्कृतः ।मातुलेनाश्वपतिना पुत्रस्नेहेन लालितः ॥ ६ ॥
तत्रापि निवसन्तौ तौ तर्प्यमाणौ च कामतः ।भ्रातरौ स्मरतां वीरौ वृद्धं दशरथं नृपम् ॥ ७ ॥
राजापि तौ महातेजाः सस्मार प्रोषितौ सुतौ ।उभौ भरतशत्रुघ्नौ महेन्द्रवरुणोपमौ ॥ ८ ॥
सर्व एव तु तस्येष्टाश्चत्वारः पुरुषर्षभाः ।स्वशरीराद्विनिर्वृत्ताश्चत्वार इव बाहवः ॥ ९ ॥
तेषामपि महातेजा रामो रतिकरः पितुः ।स्वयम्भूरिव भूतानां बभूव गुणवत्तरः ॥ १० ॥
गते च भरते रामो लक्ष्मणश्च महाबलः ।पितरं देवसंकाशं पूजयामासतुस्तदा ॥ ११ ॥
पितुराज्ञां पुरस्कृत्य पौरकार्याणि सर्वशः ।चकार रामो धर्मात्मा प्रियाणि च हितानि च ॥ १२ ॥
मातृभ्यो मातृकार्याणि कृत्वा परमयन्त्रितः ।गुरूणां गुरुकार्याणि काले कालेऽन्ववैक्षत ॥ १३ ॥
एवं दशरथः प्रीतो ब्राह्मणा नैगमास्तथा ।रामस्य शीलवृत्तेन सर्वे विषयवासिनः ॥ १४ ॥
स हि नित्यं प्रशान्तात्मा मृदुपूर्वं च भाषते ।उच्यमानोऽपि परुषं नोत्तरं प्रतिपद्यते ॥ १५ ॥
कथंचिदुपकारेण कृतेनैकेन तुष्यति ।न स्मरत्यपकाराणां शतमप्यात्मवत्तया ॥ १६ ॥
शीलवृद्धैर्ज्ञानवृद्धैर्वयोवृद्धैश्च सज्जनैः ।कथयन्नास्त वै नित्यमस्त्रयोग्यान्तरेष्वपि ॥ १७ ॥
कल्याणाभिजनः साधुरदीनः सत्यवागृजुः ।वृद्धैरभिविनीतश्च द्विजैर्धर्मार्थदर्शिभिः ॥ १८ ॥
धर्मार्थकामतत्त्वज्ञः स्मृतिमान्प्रतिभावनान् ।लौकिके समयाचरे कृतकल्पो विशारदः ॥ १९ ॥
शास्त्रज्ञश्च कृतज्ञश्च पुरुषान्तरकोविदः ।यः प्रग्रहानुग्रहयोर्यथान्यायं विचक्षणः ॥ २० ॥
आयकर्मण्युपायज्ञः संदृष्टव्ययकर्मवित् ।श्रैष्ठ्यं शास्त्रसमूहेषु प्राप्तो व्यामिश्रकेष्वपि ॥ २१ ॥
अर्थधर्मौ च संगृह्य सुखतन्त्रो न चालसः ।वैहारिकाणां शिल्पानां विज्ञातार्थविभागवित् ॥ २२ ॥
आरोहे विनये चैव युक्तो वारणवाजिनाम् ।धनुर्वेदविदां श्रेष्ठो लोकेऽतिरथसंमतः ॥ २३ ॥
अभियाता प्रहर्ता च सेनानयविशारदः ।अप्रधृष्यश्च संग्रामे क्रुद्धैरपि सुरासुरैः ॥ २४ ॥
अनसूयो जितक्रोधो न दृप्तो न च मत्सरी ।न चावमन्ता भूतानां न च कालवशानुगः ॥ २५ ॥
एवं श्रेष्ठैर्गुणैर्युक्तः प्रजानां पार्थिवात्मजः ।संमतस्त्रिषु लोकेषु वसुधायाः क्षमागुणैः ।बुद्ध्या बृहस्पतेस्तुल्यो वीर्येणापि शचीपतेः ॥ २६ ॥
तथा सर्वप्रजाकान्तैः प्रीतिसंजननैः पितुः ।गुणैर्विरुरुचे रामो दीप्तः सूर्य इवांशुभिः ॥ २७ ॥
तमेवंवृत्तसंपन्नमप्रधृष्य पराक्रमम् ।लोकपालोपमं नाथमकामयत मेदिनी ॥ २८ ॥
एतैस्तु बहुभिर्युक्तं गुणैरनुपमैः सुतम् ।दृष्ट्वा दशरथो राजा चक्रे चिन्तां परंतपः ॥ २९ ॥
एषा ह्यस्य परा प्रीतिर्हृदि संपरिवर्तते ।कदा नाम सुतं द्रक्ष्याम्यभिषिक्तमहं प्रियम् ॥ ३० ॥
वृद्धिकामो हि लोकस्य सर्वभूतानुकम्पनः ।मत्तः प्रियतरो लोके पर्जन्य इव वृष्टिमान् ॥ ३१ ॥
यमशक्रसमो वीर्ये बृहस्पतिसमो मतौ ।महीधरसमो धृत्यां मत्तश्च गुणवत्तरः ॥ ३२ ॥
महीमहमिमां कृत्स्नामधितिष्ठन्तमात्मजम् ।अनेन वयसा दृष्ट्वा यथा स्वर्गमवाप्नुयाम् ॥ ३३ ॥
तं समीक्ष्य महाराजो युक्तं समुदितैर्गुणैः ।निश्चित्य सचिवैः सार्धं युवराजममन्यत ॥ ३४ ॥
नानानगरवास्तव्यान्पृथग्जानपदानपि ।समानिनाय मेदिन्याः प्रधानान्पृथिवीपतिः ॥ ३५ ॥
अथ राजवितीर्णेषु विविधेष्वासनेषु च ।राजानमेवाभिमुखा निषेदुर्नियता नृपाः ॥ ३६ ॥
स लब्धमानैर्विनयान्वितैर्नृपैः पुरालयैर्जानपदैश्च मानवैः ।उपोपविष्टैर्नृपतिर्वृतो बभौ सहस्रचक्षुर्भगवानिवामरैः ॥ ३७ ॥
« »