Click on words to see what they mean.

तमुक्तवन्तं वैदेहं विश्वामित्रो महामुनिः ।उवाच वचनं वीरं वसिष्ठसहितो नृपम् ॥ १ ॥
अचिन्त्यान्यप्रमेयानि कुलानि नरपुंगव ।इक्ष्वाकूणां विदेहानां नैषां तुल्योऽस्ति कश्चन ॥ २ ॥
सदृशो धर्मसंबन्धः सदृशो रूपसंपदा ।रामलक्ष्मणयो राजन्सीता चोर्मिलया सह ॥ ३ ॥
वक्तव्यं च नरश्रेष्ठ श्रूयतां वचनं मम ॥ ४ ॥
भ्राता यवीयान्धर्मज्ञ एष राजा कुशध्वजः ।अस्य धर्मात्मनो राजन्रूपेणाप्रतिमं भुवि ।सुताद्वयं नरश्रेष्ठ पत्न्यर्थं वरयामहे ॥ ५ ॥
भरतस्य कुमारस्य शत्रुघ्नस्य च धीमतः ।वरयेम सुते राजंस्तयोरर्थे महात्मनोः ॥ ६ ॥
पुत्रा दशरथस्येमे रूपयौवनशालिनः ।लोकपालोपमाः सर्वे देवतुल्यपराक्रमाः ॥ ७ ॥
उभयोरपि राजेन्द्र संबन्धेनानुबध्यताम् ।इक्ष्वाकुकुलमव्यग्रं भवतः पुण्यकर्मणः ॥ ८ ॥
विश्वामित्रवचः श्रुत्वा वसिष्ठस्य मते तदा ।जनकः प्राञ्जलिर्वाक्यमुवाच मुनिपुंगवौ ॥ ९ ॥
सदृशं कुलसंबन्धं यदाज्ञापयथः स्वयम् ।एवं भवतु भद्रं वः कुशध्वजसुते इमे ।पत्न्यौ भजेतां सहितौ शत्रुघ्नभरतावुभौ ॥ १० ॥
एकाह्ना राजपुत्रीणां चतसृणां महामुने ।पाणीन्गृह्णन्तु चत्वारो राजपुत्रा महाबलाः ॥ ११ ॥
उत्तरे दिवसे ब्रह्मन्फल्गुनीभ्यां मनीषिणः ।वैवाहिकं प्रशंसन्ति भगो यत्र प्रजापतिः ॥ १२ ॥
एवमुक्त्वा वचः सौम्यं प्रत्युत्थाय कृताञ्जलिः ।उभौ मुनिवरौ राजा जनको वाक्यमब्रवीत् ॥ १३ ॥
परो धर्मः कृतो मह्यं शिष्योऽस्मि भवतोः सदा ।इमान्यासनमुख्यानि आसेतां मुनिपुंगवौ ॥ १४ ॥
यथा दशरथस्येयं तथायोध्या पुरी मम ।प्रभुत्वे नासित्संदेहो यथार्हं कर्तुमर्हथः ॥ १५ ॥
तथा ब्रुवति वैदेहे जनके रघुनन्दनः ।राजा दशरथो हृष्टः प्रत्युवाच महीपतिम् ॥ १६ ॥
युवामसंख्येय गुणौ भ्रातरौ मिथिलेश्वरौ ।ऋषयो राजसंघाश्च भवद्भ्यामभिपूजिताः ॥ १७ ॥
स्वस्ति प्राप्नुहि भद्रं ते गमिष्यामि स्वमालयम् ।श्राद्धकर्माणि सर्वाणि विधास्य इति चाब्रवीत् ॥ १८ ॥
तमापृष्ट्वा नरपतिं राजा दशरथस्तदा ।मुनीन्द्रौ तौ पुरस्कृत्य जगामाशु महायशाः ॥ १९ ॥
स गत्वा निलयं राजा श्राद्धं कृत्वा विधानतः ।प्रभाते काल्यमुत्थाय चक्रे गोदानमुत्तमम् ॥ २० ॥
गवां शतसहस्राणि ब्राह्मणेभ्यो नराधिपः ।एकैकशो ददौ राजा पुत्रानुद्धिश्य धर्मतः ॥ २१ ॥
सुवर्णशृङ्गाः संपन्नाः सवत्साः कांस्यदोहनाः ।गवां शतसहस्राणि चत्वारि पुरुषर्षभः ॥ २२ ॥
वित्तमन्यच्च सुबहु द्विजेभ्यो रघुनन्दनः ।ददौ गोदानमुद्दिश्य पुत्राणां पुत्रवत्सलः ॥ २३ ॥
स सुतैः कृतगोदानैर्वृतश्च नृपतिस्तदा ।लोकपालैरिवाभाति वृतः सौम्यः प्रजापतिः ॥ २४ ॥
« »