Click on words to see what they mean.

एवं ब्रुवाणं जनकः प्रत्युवाच कृताञ्जलिः ।श्रोतुमर्हसि भद्रं ते कुलं नः कीर्तितं परम् ॥ १ ॥
प्रदाने हि मुनिश्रेष्ठ कुलं निरवशेषतः ।वक्तव्यं कुलजातेन तन्निबोध महामुने ॥ २ ॥
राजाभूत्त्रिषु लोकेषु विश्रुतः स्वेन कर्मणा ।निमिः परमधर्मात्मा सर्वसत्त्ववतां वरः ॥ ३ ॥
तस्य पुत्रो मिथिर्नाम जनको मिथिपुत्रकः ।प्रथमो जनको नाम जनकादप्युदावसुः ॥ ४ ॥
उदावसोस्तु धर्मात्मा जातो वै नन्दिवर्धनः ।नन्दिवर्धनपुत्रस्तु सुकेतुर्नाम नामतः ॥ ५ ॥
सुकेतोरपि धर्मात्मा देवरातो महाबलः ।देवरातस्य राजर्षेर्बृहद्रथ इति श्रुतः ॥ ६ ॥
बृहद्रथस्य शूरोऽभून्महावीरः प्रतापवान् ।महावीरस्य धृतिमान्सुधृतिः सत्यविक्रमः ॥ ७ ॥
सुधृतेरपि धर्मात्मा धृष्टकेतुः सुधार्मिकः ।धृष्टकेतोस्तु राजर्षेर्हर्यश्व इति विश्रुतः ॥ ८ ॥
हर्यश्वस्य मरुः पुत्रो मरोः पुत्रः प्रतीन्धकः ।प्रतीन्धकस्य धर्मात्मा राजा कीर्तिरथः सुतः ॥ ९ ॥
पुत्रः कीर्तिरथस्यापि देवमीढ इति स्मृतः ।देवमीढस्य विबुधो विबुधस्य महीध्रकः ॥ १० ॥
महीध्रकसुतो राजा कीर्तिरातो महाबलः ।कीर्तिरातस्य राजर्षेर्महारोमा व्यजायत ॥ ११ ॥
महारोंणस्तु धर्मात्मा स्वर्णरोमा व्यजायत ।स्वर्णरोंणस्तु राजर्षेर्ह्रस्वरोमा व्यजायत ॥ १२ ॥
तस्य पुत्रद्वयं जज्ञे धर्मज्ञस्य महात्मनः ।ज्येष्ठोऽहमनुजो भ्राता मम वीरः कुशध्वजः ॥ १३ ॥
मां तु ज्येष्ठं पिता राज्ये सोऽभिषिच्य नराधिपः ।कुशध्वजं समावेश्य भारं मयि वनं गतः ॥ १४ ॥
वृद्धे पितरि स्वर्याते धर्मेण धुरमावहम् ।भ्रातरं देवसंकाशं स्नेहात्पश्यन्कुशध्वजम् ॥ १५ ॥
कस्यचित्त्वथ कालस्य सांकाश्यादगमत्पुरात् ।सुधन्वा वीर्यवान्राजा मिथिलामवरोधकः ॥ १६ ॥
स च मे प्रेषयामास शैवं धनुरनुत्तमम् ।सीता कन्या च पद्माक्षी मह्यं वै दीयतामिति ॥ १७ ॥
तस्याप्रदानाद्ब्रह्मर्षे युद्धमासीन्मया सह ।स हतोऽभिमुखो राजा सुधन्वा तु मया रणे ॥ १८ ॥
निहत्य तं मुनिश्रेष्ठ सुधन्वानं नराधिपम् ।सांकाश्ये भ्रातरं शूरमभ्यषिञ्चं कुशध्वजम् ॥ १९ ॥
कनीयानेष मे भ्राता अहं ज्येष्ठो महामुने ।ददामि परमप्रीतो वध्वौ ते मुनिपुंगव ॥ २० ॥
सीतां रामाय भद्रं ते ऊर्मिलां लक्ष्मणाय च ।वीर्यशुल्कां मम सुतां सीतां सुरसुतोपमाम् ॥ २१ ॥
द्वितीयामूर्मिलां चैव त्रिर्वदामि न संशयः ।ददामि परमप्रीतो वध्वौ ते रघुनन्दन ॥ २२ ॥
रामलक्ष्मणयो राजन्गोदानं कारयस्व ह ।पितृकार्यं च भद्रं ते ततो वैवाहिकं कुरु ॥ २३ ॥
मघा ह्यद्य महाबाहो तृतीये दिवसे प्रभो ।फल्गुन्यामुत्तरे राजंस्तस्मिन्वैवाहिकं कुरु ।रामलक्ष्मणयोरर्थे दानं कार्यं सुखोदयम् ॥ २४ ॥
« »