Click on words to see what they mean.

ततः प्रभाते जनकः कृतकर्मा महर्षिभिः ।उवाच वाक्यं वाक्यज्ञः शतानन्दं पुरोहितम् ॥ १ ॥
भ्राता मम महातेजा यवीयानतिधार्मिकः ।कुशध्वज इति ख्यातः पुरीमध्यवसच्छुभाम् ॥ २ ॥
वार्याफलकपर्यन्तां पिबन्निक्षुमतीं नदीम् ।सांकाश्यां पुण्यसंकाशां विमानमिव पुष्पकम् ॥ ३ ॥
तमहं द्रष्टुमिच्छामि यज्ञगोप्ता स मे मतः ।प्रीतिं सोऽपि महातेजा इमां भोक्ता मया सह ॥ ४ ॥
शासनात्तु नरेन्द्रस्य प्रययुः शीघ्रवाजिभिः ।समानेतुं नरव्याघ्रं विष्णुमिन्द्राज्ञया यथा ॥ ५ ॥
आज्ञया तु नरेन्द्रस्य आजगाम कुशध्वजः ॥ ६ ॥
स ददर्श महात्मानं जनकं धर्मवत्सलम् ।सोऽभिवाद्य शतानन्दं राजानं चापि धार्मिकम् ॥ ७ ॥
राजार्हं परमं दिव्यमासनं चाध्यरोहत ।उपविष्टावुभौ तौ तु भ्रातरावमितौजसौ ॥ ८ ॥
प्रेषयामासतुर्वीरौ मन्त्रिश्रेष्ठं सुदामनम् ।गच्छ मन्त्रिपते शीघ्रमैक्ष्वाकममितप्रभम् ।आत्मजैः सह दुर्धर्षमानयस्व समन्त्रिणम् ॥ ९ ॥
औपकार्यां स गत्वा तु रघूणां कुलवर्धनम् ।ददर्श शिरसा चैनमभिवाद्येदमब्रवीत् ॥ १० ॥
अयोध्याधिपते वीर वैदेहो मिथिलाधिपः ।स त्वां द्रष्टुं व्यवसितः सोपाध्यायपुरोहितम् ॥ ११ ॥
मन्त्रिश्रेष्ठवचः श्रुत्वा राजा सर्षिगणस्तदा ।सबन्धुरगमत्तत्र जनको यत्र वर्तते ॥ १२ ॥
स राजा मन्त्रिसहितः सोपाध्यायः सबान्धवः ।वाक्यं वाक्यविदां श्रेष्ठो वैदेहमिदमब्रवीत् ॥ १३ ॥
विदितं ते महाराज इक्ष्वाकुकुलदैवतम् ।वक्ता सर्वेषु कृत्येषु वसिष्ठो भगवानृषिः ॥ १४ ॥
विश्वामित्राभ्यनुज्ञातः सह सर्वैर्महर्षिभिः ।एष वक्ष्यति धर्मात्मा वसिष्ठो मे यथाक्रमम् ॥ १५ ॥
तूष्णींभूते दशरथे वसिष्ठो भगवानृषिः ।उवाच वाक्यं वाक्यज्ञो वैदेहं सपुरोहितम् ॥ १६ ॥
अव्यक्तप्रभवो ब्रह्मा शाश्वतो नित्य अव्ययः ।तस्मान्मरीचिः संजज्ञे मरीचेः कश्यपः सुतः ॥ १७ ॥
विवस्वान्कश्यपाज्जज्ञे मनुर्वैवैस्वतः स्मृतः ।मनुः प्रजापतिः पूर्वमिक्ष्वाकुस्तु मनोः सुतः ॥ १८ ॥
तमिक्ष्वाकुमयोध्यायां राजानं विद्धि पूर्वकम् ।इक्ष्वाकोस्तु सुतः श्रीमान्विकुक्षिरुदपद्यत ॥ १९ ॥
विकुक्षेस्तु महातेजा बाणः पुत्रः प्रतापवान् ।बाणस्य तु महातेजा अनरण्यः प्रतापवान् ॥ २० ॥
अनरण्यात्पृथुर्जज्ञे त्रिशङ्कुस्तु पृथोः सुतः ।त्रिशङ्कोरभवत्पुत्रो धुन्धुमारो महायशाः ॥ २१ ॥
धुन्धुमारान्महातेजा युवनाश्वो महारथः ।युवनाश्वसुतः श्रीमान्मान्धाता पृथिवीपतिः ॥ २२ ॥
मान्धातुस्तु सुतः श्रीमान्सुसंधिरुदपद्यत ।सुसंधेरपि पुत्रौ द्वौ ध्रुवसंधिः प्रसेनजित् ॥ २३ ॥
यशस्वी ध्रुवसंधेस्तु भरतो नाम नामतः ।भरतात्तु महातेजा असितो नाम जायत ॥ २४ ॥
सह तेन गरेणैव जातः स सगरोऽभवत् ।सगरस्यासमञ्जस्तु असमञ्जादथांशुमान् ॥ २५ ॥
दिलीपोंऽशुमतः पुत्रो दिलीपस्य भगीरथः ।भगीरथात्ककुत्स्थश्च ककुत्स्थस्य रघुस्तथा ॥ २६ ॥
रघोस्तु पुत्रस्तेजस्वी प्रवृद्धः पुरुषादकः ।कल्माषपादो ह्यभवत्तस्माज्जातस्तु शङ्खणः ॥ २७ ॥
सुदर्शनः शङ्खणस्य अग्निवर्णः सुदर्शनात् ।शीघ्रगस्त्वग्निवर्णस्य शीघ्रगस्य मरुः सुतः ॥ २८ ॥
मरोः प्रशुश्रुकस्त्वासीदम्बरीषः प्रशुश्रुकात् ।अम्बरीषस्य पुत्रोऽभून्नहुषः पृथिवीपतिः ॥ २९ ॥
नहुषस्य ययातिस्तु नाभागस्तु ययातिजः ।नाभागस्य बभूवाज अजाद्दशरथोऽभवत् ।तस्माद्दशरथाज्जातौ भ्रातरौ रामलक्ष्मणौ ॥ ३० ॥
आदिवंशविशुद्धानां राज्ञां परमधर्मिणाम् ।इक्ष्वाकुकुलजातानां वीराणां सत्यवादिनाम् ॥ ३१ ॥
रामलक्ष्मणयोरर्थे त्वत्सुते वरये नृप ।सदृशाभ्यां नरश्रेष्ठ सदृशे दातुमर्हसि ॥ ३२ ॥
« »