Click on words to see what they mean.

पूर्णे वर्षसहस्रे तु व्रतस्नातं महामुनिम् ।अभ्यागच्छन्सुराः सर्वे तपःफलचिकीर्षवः ॥ १ ॥
अब्रवीत्सुमहातेजा ब्रह्मा सुरुचिरं वचः ।ऋषिस्त्वमसि भद्रं ते स्वार्जितैः कर्मभिः शुभैः ॥ २ ॥
तमेवमुक्त्वा देवेशस्त्रिदिवं पुनरभ्यगात् ।विश्वामित्रो महातेजा भूयस्तेपे महत्तपः ॥ ३ ॥
ततः कालेन महता मेनका परमाप्सराः ।पुष्करेषु नरश्रेष्ठ स्नातुं समुपचक्रमे ॥ ४ ॥
तां ददर्श महातेजा मेनकां कुशिकात्मजः ।रूपेणाप्रतिमां तत्र विद्युतं जलदे यथा ॥ ५ ॥
दृष्ट्वा कन्दर्पवशगो मुनिस्तामिदमब्रवीत् ।अप्सरः स्वागतं तेऽस्तु वस चेह ममाश्रमे ।अनुगृह्णीष्व भद्रं ते मदनेन सुमोहितम् ॥ ६ ॥
इत्युक्ता सा वरारोहा तत्रावासमथाकरोत् ।तपसो हि महाविघ्नो विश्वामित्रमुपागतः ॥ ७ ॥
तस्यां वसन्त्यां वर्षाणि पञ्च पञ्च च राघव ।विश्वामित्राश्रमे सौम्य सुखेन व्यतिचक्रमुः ॥ ८ ॥
अथ काले गते तस्मिन्विश्वामित्रो महामुनिः ।सव्रीड इव संवृत्तश्चिन्ताशोकपरायणः ॥ ९ ॥
बुद्धिर्मुनेः समुत्पन्ना सामर्षा रघुनन्दन ।सर्वं सुराणां कर्मैतत्तपोऽपहरणं महत् ॥ १० ॥
अहोरात्रापदेशेन गताः संवत्सरा दश ।काममोहाभिभूतस्य विघ्नोऽयं प्रत्युपस्थितः ॥ ११ ॥
विनिःश्वसन्मुनिवरः पश्चात्तापेन दुःखितः ॥ १२ ॥
भीतामप्सरसं दृष्ट्वा वेपन्तीं प्राञ्जलिं स्थिताम् ।मेनकां मधुरैर्वाक्यैर्विसृज्य कुशिकात्मजः ।उत्तरं पर्वतं राम विश्वामित्रो जगाम ह ॥ १३ ॥
स कृत्वा नैष्ठिकीं बुद्धिं जेतुकामो महायशाः ।कौशिकीतीरमासाद्य तपस्तेपे सुदारुणम् ॥ १४ ॥
तस्य वर्षसहस्रं तु घोरं तप उपासतः ।उत्तरे पर्वते राम देवतानामभूद्भयम् ॥ १५ ॥
अमन्त्रयन्समागम्य सर्वे सर्षिगणाः सुराः ।महर्षिशब्दं लभतां साध्वयं कुशिकात्मजः ॥ १६ ॥
देवतानां वचः श्रुत्वा सर्वलोकपितामहः ।अब्रवीन्मधुरं वाक्यं विश्वामित्रं तपोधनम् ॥ १७ ॥
महर्षे स्वागतं वत्स तपसोग्रेण तोषितः ।महत्त्वमृषिमुख्यत्वं ददामि तव कौशिक ॥ १८ ॥
ब्रह्मणः स वचः श्रुत्वा विश्वामित्रस्तपोधनः ।प्राञ्जलिः प्रणतो भूत्वा प्रत्युवाच पितामहम् ॥ १९ ॥
ब्रह्मर्षि शब्दमतुलं स्वार्जितैः कर्मभिः शुभैः ।यदि मे भगवानाह ततोऽहं विजितेन्द्रियः ॥ २० ॥
तमुवाच ततो ब्रह्मा न तावत्त्वं जितेन्द्रियः ।यतस्व मुनिशार्दूल इत्युक्त्वा त्रिदिवं गतः ॥ २१ ॥
विप्रस्थितेषु देवेषु विश्वामित्रो महामुनिः ।ऊर्ध्वबाहुर्निरालम्बो वायुभक्षस्तपश्चरन् ॥ २२ ॥
धर्मे पञ्चतपा भूत्वा वर्षास्वाकाशसंश्रयः ।शिशिरे सलिलस्थायी रात्र्यहानि तपोधनः ॥ २३ ॥
एवं वर्षसहस्रं हि तपो घोरमुपागमत् ॥ २४ ॥
तस्मिन्संतप्यमाने तु विश्वामित्रे महामुनौ ।संभ्रमः सुमहानासीत्सुराणां वासवस्य च ॥ २५ ॥
रम्भामप्सरसं शक्रः सह सर्वैर्मरुद्गणैः ।उवाचात्महितं वाक्यमहितं कौशिकस्य च ॥ २६ ॥
« »