Click on words to see what they mean.

तपोबलहतान्कृत्वा वासिष्ठान्समहोदयान् ।ऋषिमध्ये महातेजा विश्वामित्रोऽभ्यभाषत ॥ १ ॥
अयमिक्ष्वाकुदायादस्त्रिशङ्कुरिति विश्रुतः ।धर्मिष्ठश्च वदान्यश्च मां चैव शरणं गतः ।स्वेनानेन शरीरेण देवलोकजिगीषया ॥ २ ॥
यथायं स्वशरीरेण देवलोकं गमिष्यति ।तथा प्रवर्त्यतां यज्ञो भवद्भिश्च मया सह ॥ ३ ॥
विश्वामित्रवचः श्रुत्वा सर्व एव महर्षयः ।ऊचुः समेत्य सहिता धर्मज्ञा धर्मसंहितम् ॥ ४ ॥
अयं कुशिकदायादो मुनिः परमकोपनः ।यदाह वचनं सम्यगेतत्कार्यं न संशयः ॥ ५ ॥
अग्निकल्पो हि भगवाञ्शापं दास्यति रोषितः ।तस्मात्प्रवर्त्यतां यज्ञः सशरीरो यथा दिवम् ।गच्छेदिक्ष्वाकुदायादो विश्वामित्रस्य तेजसा ॥ ६ ॥
ततः प्रवर्त्यतां यज्ञः सर्वे समधितिष्ठते ॥ ७ ॥
एवमुक्त्वा महर्षयः संजह्रुस्ताः क्रियास्तदा ।याजकाश्च महातेजा विश्वामित्रोऽभवत्क्रतौ ॥ ८ ॥
ऋत्विजश्चानुपूर्व्येण मन्त्रवन्मन्त्रकोविदाः ।चक्रुः सर्वाणि कर्माणि यथाकल्पं यथाविधि ॥ ९ ॥
ततः कालेन महता विश्वामित्रो महातपाः ।चकारावाहनं तत्र भागार्थं सर्वदेवताः ॥ १० ॥
नाह्यागमंस्तदाहूता भागार्थं सर्वदेवताः ।ततः क्रोधसमाविष्टो विश्वमित्रो महामुनिः ॥ ११ ॥
स्रुवमुद्यम्य सक्रोधस्त्रिशङ्कुमिदमब्रवीत् ।पश्य मे तपसो वीर्यं स्वार्जितस्य नरेश्वर ॥ १२ ॥
एष त्वां स्वशरीरेण नयामि स्वर्गमोजसा ।दुष्प्रापं स्वशरीरेण दिवं गच्छ नराधिप ॥ १३ ॥
स्वार्जितं किंचिदप्यस्ति मया हि तपसः फलम् ।राजंस्त्वं तेजसा तस्य सशरीरो दिवं व्रज ॥ १४ ॥
उक्तवाक्ये मुनौ तस्मिन्सशरीरो नरेश्वरः ।दिवं जगाम काकुत्स्थ मुनीनां पश्यतां तदा ॥ १५ ॥
देवलोकगतं दृष्ट्वा त्रिशङ्कुं पाकशासनः ।सह सर्वैः सुरगणैरिदं वचनमब्रवीत् ॥ १६ ॥
त्रिशङ्को गच्छ भूयस्त्वं नासि स्वर्गकृतालयः ।गुरुशापहतो मूढ पत भूमिमवाक्शिराः ॥ १७ ॥
एवमुक्तो महेन्द्रेण त्रिशङ्कुरपतत्पुनः ।विक्रोशमानस्त्राहीति विश्वामित्रं तपोधनम् ॥ १८ ॥
तच्छ्रुत्वा वचनं तस्य क्रोशमानस्य कौशिकः ।रोषमाहारयत्तीव्रं तिष्ठ तिष्ठेति चाब्रवीत् ॥ १९ ॥
ऋषिमध्ये स तेजस्वी प्रजापतिरिवापरः ।सृजन्दक्षिणमार्गस्थान्सप्तर्षीनपरान्पुनः ॥ २० ॥
नक्षत्रमालामपरामसृजत्क्रोधमूर्छितः ।दक्षिणां दिशमास्थाय मुनिमध्ये महायशाः ॥ २१ ॥
सृष्ट्वा नक्षत्रवंशं च क्रोधेन कलुषीकृतः ।अन्यमिन्द्रं करिष्यामि लोको वा स्यादनिन्द्रकः ।दैवतान्यपि स क्रोधात्स्रष्टुं समुपचक्रमे ॥ २२ ॥
ततः परमसंभ्रान्ताः सर्षिसंघाः सुरर्षभाः ।विश्वामित्रं महात्मानमूचुः सानुनयं वचः ॥ २३ ॥
अयं राजा महाभाग गुरुशापपरिक्षतः ।सशरीरो दिवं यातुं नार्हत्येव तपोधन ॥ २४ ॥
तेषां तद्वचनं श्रुत्वा देवानां मुनिपुंगवः ।अब्रवीत्सुमहद्वाक्यं कौशिकः सर्वदेवताः ॥ २५ ॥
सशरीरस्य भद्रं वस्त्रिशङ्कोरस्य भूपतेः ।आरोहणं प्रतिज्ञाय नानृतं कर्तुमुत्सहे ॥ २६ ॥
सर्गोऽस्तु सशरीरस्य त्रिशङ्कोरस्य शाश्वतः ।नक्षत्राणि च सर्वाणि मामकानि ध्रुवाण्यथ ॥ २७ ॥
यावल्लोका धरिष्यन्ति तिष्ठन्त्वेतानि सर्वशः ।मत्कृतानि सुराः सर्वे तदनुज्ञातुमर्हथ ॥ २८ ॥
एवमुक्ताः सुराः सर्वे प्रत्यूचुर्मुनिपुंगवम् ॥ २९ ॥
एवं भवतु भद्रं ते तिष्ठन्त्वेतानि सर्वशः ।गगने तान्यनेकानि वैश्वानरपथाद्बहिः ॥ ३० ॥
नक्षत्राणि मुनिश्रेष्ठ तेषु ज्योतिःषु जाज्वलन् ।अवाक्शिरास्त्रिशङ्कुश्च तिष्ठत्वमरसंनिभः ॥ ३१ ॥
विश्वामित्रस्तु धर्मात्मा सर्वदेवैरभिष्टुतः ।ऋषिभिश्च महातेजा बाढमित्याह देवताः ॥ ३२ ॥
ततो देवा महात्मानो मुनयश्च तपोधनाः ।जग्मुर्यथागतं सर्वे यज्ञस्यान्ते नरोत्तम ॥ ३३ ॥
« »