Click on words to see what they mean.

उक्तवाक्यं तु राजानं कृपया कुशिकात्मजः ।अब्रवीन्मधुरं वाक्यं साक्षाच्चण्डालरूपिणम् ॥ १ ॥
इक्ष्वाको स्वागतं वत्स जानामि त्वां सुधार्मिकम् ।शरणं ते भविष्यामि मा भैषीर्नृपपुंगव ॥ २ ॥
अहमामन्त्रये सर्वान्महर्षीन्पुण्यकर्मणः ।यज्ञसाह्यकरान्राजंस्ततो यक्ष्यसि निर्वृतः ॥ ३ ॥
गुरुशापकृतं रूपं यदिदं त्वयि वर्तते ।अनेन सह रूपेण सशरीरो गमिष्यसि ॥ ४ ॥
हस्तप्राप्तमहं मन्ये स्वर्गं तव नरेश्वर ।यस्त्वं कौशिकमागम्य शरण्यं शरणं गतः ॥ ५ ॥
एवमुक्त्वा महातेजाः पुत्रान्परमधार्मिकान् ।व्यादिदेश महाप्राज्ञान्यज्ञसंभारकारणात् ॥ ६ ॥
सर्वाञ्शिष्यान्समाहूय वाक्यमेतदुवाच ह ॥ ७ ॥
सर्वानृषिवरान्वत्सा आनयध्वं ममाज्ञया ।सशिष्यान्सुहृदश्चैव सर्त्विजः सुबहुश्रुतान् ॥ ८ ॥
यदन्यो वचनं ब्रूयान्मद्वाक्यबलचोदितः ।तत्सर्वमखिलेनोक्तं ममाख्येयमनादृतम् ॥ ९ ॥
तस्य तद्वचनं श्रुत्वा दिशो जग्मुस्तदाज्ञया ।आजग्मुरथ देशेभ्यः सर्वेभ्यो ब्रह्मवादिनः ॥ १० ॥
ते च शिष्याः समागम्य मुनिं ज्वलिततेजसम् ।ऊचुश्च वचनं सर्वे सर्वेषां ब्रह्मवादिनाम् ॥ ११ ॥
श्रुत्वा ते वचनं सर्वे समायान्ति द्विजातयः ।सर्वदेशेषु चागच्छन्वर्जयित्वा महोदयम् ॥ १२ ॥
वासिष्ठं तच्छतं सर्वं क्रोधपर्याकुलाक्षरम् ।यदाह वचनं सर्वं शृणु त्वं मुनिपुंगव ॥ १३ ॥
क्षत्रियो याजको यस्य चण्डालस्य विशेषतः ।कथं सदसि भोक्तारो हविस्तस्य सुरर्षयः ॥ १४ ॥
ब्राह्मणा वा महात्मानो भुक्त्वा चण्डालभोजनम् ।कथं स्वर्गं गमिष्यन्ति विश्वामित्रेण पालिताः ॥ १५ ॥
एतद्वचनं नैष्ठुर्यमूचुः संरक्तलोचनाः ।वासिष्ठा मुनिशार्दूल सर्वे ते समहोदयाः ॥ १६ ॥
तेषां तद्वचनं श्रुत्वा सर्वेषां मुनिपुंगवः ।क्रोधसंरक्तनयनः सरोषमिदमब्रवीत् ॥ १७ ॥
यद्दूषयन्त्यदुष्टं मां तप उग्रं समास्थितम् ।भस्मीभूता दुरात्मानो भविष्यन्ति न संशयः ॥ १८ ॥
अद्य ते कालपाशेन नीता वैवस्वतक्षयम् ।सप्तजातिशतान्येव मृतपाः सन्तु सर्वशः ॥ १९ ॥
श्वमांसनियताहारा मुष्टिका नाम निर्घृणाः ।विकृताश्च विरूपाश्च लोकाननुचरन्त्विमान् ॥ २० ॥
महोदयश्च दुर्बुद्धिर्मामदूष्यं ह्यदूषयत् ।दूषिटः सर्वलोकेषु निषादत्वं गमिष्यति ॥ २१ ॥
प्राणातिपातनिरतो निरनुक्रोशतां गतः ।दीर्घकालं मम क्रोधाद्दुर्गतिं वर्तयिष्यति ॥ २२ ॥
एतावदुक्त्वा वचनं विश्वामित्रो महातपाः ।विरराम महातेजा ऋषिमध्ये महामुनिः ॥ २३ ॥
« »