Click on words to see what they mean.

ततस्त्रिशङ्कोर्वचनं श्रुत्वा क्रोधसमन्वितम् ।ऋषिपुत्रशतं राम राजानमिदमब्रवीत् ॥ १ ॥
प्रत्याख्यातोऽसि दुर्बुद्धे गुरुणा सत्यवादिना ।तं कथं समतिक्रम्य शाखान्तरमुपेयिवान् ॥ २ ॥
इक्ष्वाकूणां हि सर्वेषां पुरोधाः परमा गतिः ।न चातिक्रमितुं शक्यं वचनं सत्यवादिनः ॥ ३ ॥
अशक्यमिति चोवाच वसिष्ठो भगवानृषिः ।तं वयं वै समाहर्तुं क्रतुं शक्ताः कथं तव ॥ ४ ॥
बालिशस्त्वं नरश्रेष्ठ गम्यतां स्वपुरं पुनः ।याजने भगवाञ्शक्तस्त्रैलोक्यस्यापि पार्थिव ॥ ५ ॥
तेषां तद्वचनं श्रुत्वा क्रोधपर्याकुलाक्षरम् ।स राजा पुनरेवैतानिदं वचनमब्रवीत् ॥ ६ ॥
प्रत्याख्यातोऽस्मि गुरुणा गुरुपुत्रैस्तथैव च ।अन्यां गतिं गमिष्यामि स्वस्ति वोऽस्तु तपोधनाः ॥ ७ ॥
ऋषिपुत्रास्तु तच्छ्रुत्वा वाक्यं घोराभिसंहितम् ।शेपुः परमसंक्रुद्धाश्चण्डालत्वं गमिष्यसि ।एवमुक्त्वा महात्मानो विविशुस्ते स्वमाश्रमम् ॥ ८ ॥
अथ रात्र्यां व्यतीतायां राजा चण्डालतां गतः ।नीलवस्त्रधरो नीलः परुषो ध्वस्तमूर्धजः ।चित्यमाल्यानुलेपश्च आयसाभरणोऽभवत् ॥ ९ ॥
तं दृष्ट्वा मन्त्रिणः सर्वे त्यक्त्वा चण्डालरूपिणम् ।प्राद्रवन्सहिता राम पौरा येऽस्यानुगामिनः ॥ १० ॥
एको हि राजा काकुत्स्थ जगाम परमात्मवान् ।दह्यमानो दिवारात्रं विश्वामित्रं तपोधनम् ॥ ११ ॥
विश्वामित्रस्तु तं दृष्ट्वा राजानं विफलीकृतम् ।चण्डालरूपिणं राम मुनिः कारुण्यमागतः ॥ १२ ॥
कारुण्यात्स महातेजा वाक्यं परम धार्मिकः ।इदं जगाद भद्रं ते राजानं घोरदर्शनम् ॥ १३ ॥
किमागमनकार्यं ते राजपुत्र महाबल ।अयोध्याधिपते वीर शापाच्चण्डालतां गतः ॥ १४ ॥
अथ तद्वाक्यमाकर्ण्य राजा चण्डालतां गतः ।अब्रवीत्प्राञ्जलिर्वाक्यं वाक्यज्ञो वाक्यकोविदम् ॥ १५ ॥
प्रत्याख्यातोऽस्मि गुरुणा गुरुपुत्रैस्तथैव च ।अनवाप्यैव तं कामं मया प्राप्तो विपर्ययः ॥ १६ ॥
सशरीरो दिवं यायामिति मे सौम्यदर्शनम् ।मया चेष्टं क्रतुशतं तच्च नावाप्यते फलम् ॥ १७ ॥
अनृतं नोक्त पूर्वं मे न च वक्ष्ये कदाचन ।कृच्छ्रेष्वपि गतः सौम्य क्षत्रधर्मेण ते शपे ॥ १८ ॥
यज्ञैर्बहुविधैरिष्टं प्रजा धर्मेण पालिताः ।गुरवश्च महात्मानः शीलवृत्तेन तोषिताः ॥ १९ ॥
धर्मे प्रयतमानस्य यज्ञं चाहर्तुमिच्छतः ।परितोषं न गच्छन्ति गुरवो मुनिपुंगव ॥ २० ॥
दैवमेव परं मन्ये पौरुषं तु निरर्थकम् ।दैवेनाक्रम्यते सर्वं दैवं हि परमा गतिः ॥ २१ ॥
तस्य मे परमार्तस्य प्रसादमभिकाङ्क्षतः ।कर्तुमर्हसि भद्रं ते दैवोपहतकर्मणः ॥ २२ ॥
नान्यां गतिं गमिष्यामि नान्यः शरणमस्ति मे ।दैवं पुरुषकारेण निवर्तयितुमर्हसि ॥ २३ ॥
« »