Click on words to see what they mean.

एवमुक्तो वसिष्ठेन विश्वामित्रो महाबलः ।आग्नेयमस्त्रमुत्क्षिप्य तिष्ठ तिष्ठेति चाब्रवीत् ॥ १ ॥
वसिष्ठो भगवान्क्रोधादिदं वचनमब्रवीत् ॥ २ ॥
क्षत्रबन्धो स्थितोऽस्म्येष यद्बलं तद्विदर्शय ।नाशयाम्येष ते दर्पं शस्त्रस्य तव गाधिज ॥ ३ ॥
क्व च ते क्षत्रियबलं क्व च ब्रह्मबलं महत् ।पश्य ब्रह्मबलं दिव्यं मम क्षत्रियपांसन ॥ ४ ॥
तस्यास्त्रं गाधिपुत्रस्य घोरमाग्नेयमुत्तमम् ।ब्रह्मदण्डेन तच्छान्तमग्नेर्वेग इवाम्भसा ॥ ५ ॥
वारुणं चैव रौद्रं च ऐन्द्रं पाशुपतं तथा ।ऐषीकं चापि चिक्षेप रुषितो गाधिनन्दनः ॥ ६ ॥
मानवं मोहनं चैव गान्धर्वं स्वापनं तथा ।जृम्भणं मोहनं चैव संतापनविलापने ॥ ७ ॥
शोषणं दारणं चैव वज्रमस्त्रं सुदुर्जयम् ।ब्रह्मपाशं कालपाशं वारुणं पाशमेव च ॥ ८ ॥
पिनाकास्त्रं च दयितं शुष्कार्द्रे अशनी तथा ।दण्डास्त्रमथ पैशाचं क्रौञ्चमस्त्रं तथैव च ॥ ९ ॥
धर्मचक्रं कालचक्रं विष्णुचक्रं तथैव च ।वायव्यं मथनं चैव अस्त्रं हयशिरस्तथा ॥ १० ॥
शक्तिद्वयं च चिक्षेप कङ्कालं मुसलं तथा ।वैद्याधरं महास्त्रं च कालास्त्रमथ दारुणम् ॥ ११ ॥
त्रिशूलमस्त्रं घोरं च कापालमथ कङ्कणम् ।एतान्यस्त्राणि चिक्षेप सर्वाणि रघुनन्दन ॥ १२ ॥
वसिष्ठे जपतां श्रेष्ठे तदद्भुतमिवाभवत् ।तानि सर्वाणि दण्डेन ग्रसते ब्रह्मणः सुतः ॥ १३ ॥
तेषु शान्तेषु ब्रह्मास्त्रं क्षिप्तवान्गाधिनन्दनः ।तदस्त्रमुद्यतं दृष्ट्वा देवाः साग्निपुरोगमाः ॥ १४ ॥
देवर्षयश्च संभ्रान्ता गन्धर्वाः समहोरगाः ।त्रैलोक्यमासीत्संत्रस्तं ब्रह्मास्त्रे समुदीरिते ॥ १५ ॥
तदप्यस्त्रं महाघोरं ब्राह्मं ब्राह्मेण तेजसा ।वसिष्ठो ग्रसते सर्वं ब्रह्मदण्डेन राघव ॥ १६ ॥
ब्रह्मास्त्रं ग्रसमानस्य वसिष्ठस्य महात्मनः ।त्रैलोक्यमोहनं रौद्रं रूपमासीत्सुदारुणम् ॥ १७ ॥
रोमकूपेषु सर्वेषु वसिष्ठस्य महात्मनः ।मरीच्य इव निष्पेतुरग्नेर्धूमाकुलार्चिषः ॥ १८ ॥
प्राज्वलद्ब्रह्मदण्डश्च वसिष्ठस्य करोद्यतः ।विधूम इव कालाग्निर्यमदण्ड इवापरः ॥ १९ ॥
ततोऽस्तुवन्मुनिगणा वसिष्ठं जपतां वरम् ।अमोघं ते बलं ब्रह्मंस्तेजो धारय तेजसा ॥ २० ॥
निगृहीतस्त्वया ब्रह्मन्विश्वामित्रो महातपाः ।प्रसीद जपतां श्रेष्ठ लोकाः सन्तु गतव्यथाः ॥ २१ ॥
एवमुक्तो महातेजाः शमं चक्रे महातपाः ।विश्वामित्रोऽपि निकृतो विनिःश्वस्येदमब्रवीत् ॥ २२ ॥
धिग्बलं क्षत्रियबलं ब्रह्मतेजोबलं बलम् ।एकेन ब्रह्मदण्डेन सर्वास्त्राणि हतानि मे ॥ २३ ॥
तदेतत्समवेक्ष्याहं प्रसन्नेन्द्रियमानसः ।तपो महत्समास्थास्ये यद्वै ब्रह्मत्वकारकम् ॥ २४ ॥
« »