Click on words to see what they mean.

ततः प्रागुत्तरां गत्वा रामः सौमित्रिणा सह ।विश्वामित्रं पुरस्कृत्य यज्ञवाटमुपागमत् ॥ १ ॥
रामस्तु मुनिशार्दूलमुवाच सहलक्ष्मणः ।साध्वी यज्ञसमृद्धिर्हि जनकस्य महात्मनः ॥ २ ॥
बहूनीह सहस्राणि नानादेशनिवासिनाम् ।ब्राह्मणानां महाभाग वेदाध्ययनशालिनाम् ॥ ३ ॥
ऋषिवाटाश्च दृश्यन्ते शकटीशतसंकुलाः ।देशो विधीयतां ब्रह्मन्यत्र वत्स्यामहे वयम् ॥ ४ ॥
रामस्य वचनं श्रुत्वा विश्वामित्रो महामुनिः ।निवेशमकरोद्देशे विविक्ते सलिलायुते ॥ ५ ॥
विश्वामित्रं मुनिश्रेष्ठं श्रुत्वा स नृपतिस्तदा ।शतानन्दं पुरस्कृत्य पुरोहितमनिन्दितम् ॥ ६ ॥
ऋत्विजोऽपि महात्मानस्त्वर्घ्यमादाय सत्वरम् ।विश्वामित्राय धर्मेण ददुर्मन्त्रपुरस्कृतम् ॥ ७ ॥
प्रतिगृह्य तु तां पूजां जनकस्य महात्मनः ।पप्रच्छ कुशलं राज्ञो यज्ञस्य च निरामयम् ॥ ८ ॥
स तांश्चापि मुनीन्पृष्ट्वा सोपाध्याय पुरोधसः ।यथान्यायं ततः सर्वैः समागच्छत्प्रहृष्टवान् ॥ ९ ॥
अथ राजा मुनिश्रेष्ठं कृताञ्जलिरभाषत ।आसने भगवानास्तां सहैभिर्मुनिसत्तमैः ॥ १० ॥
जनकस्य वचः श्रुत्वा निषसाद महामुनिः ।पुरोधा ऋत्विजश्चैव राजा च सह मन्त्रिभिः ॥ ११ ॥
आसनेषु यथान्यायमुपविष्टान्समन्ततः ।दृष्ट्वा स नृपतिस्तत्र विश्वामित्रमथाब्रवीत् ॥ १२ ॥
अद्य यज्ञसमृद्धिर्मे सफला दैवतैः कृता ।अद्य यज्ञफलं प्राप्तं भगवद्दर्शनान्मया ॥ १३ ॥
धन्योऽस्म्यनुगृहीतोऽस्मि यस्य मे मुनिपुंगव ।यज्ञोपसदनं ब्रह्मन्प्राप्तोऽसि मुनिभिः सह ॥ १४ ॥
द्वादशाहं तु ब्रह्मर्षे शेषमाहुर्मनीषिणः ।ततो भागार्थिनो देवान्द्रष्टुमर्हसि कौशिक ॥ १५ ॥
इत्युक्त्वा मुनिशार्दूलं प्रहृष्टवदनस्तदा ।पुनस्तं परिपप्रच्छ प्राञ्जलिः प्रयतो नृपः ॥ १६ ॥
इमौ कुमारौ भद्रं ते देवतुल्यपराक्रमौ ।गजसिंहगती वीरौ शार्दूलवृषभोपमौ ॥ १७ ॥
पद्मपत्रविशालाक्षौ खड्गतूणीधनुर्धरौ ।अश्विनाविव रूपेण समुपस्थितयौवनौ ॥ १८ ॥
यदृच्छयैव गां प्राप्तौ देवलोकादिवामरौ ।कथं पद्भ्यामिह प्राप्तौ किमर्थं कस्य वा मुने ॥ १९ ॥
वरायुधधरौ वीरौ कस्य पुत्रौ महामुने ।भूषयन्ताविमं देशं चन्द्रसूर्याविवाम्बरम् ॥ २० ॥
परस्परस्य सदृशौ प्रमाणेङ्गितचेष्टितैः ।काकपक्षधरौ वीरौ श्रोतुमिच्छामि तत्त्वतः ॥ २१ ॥
तस्य तद्वचनं श्रुत्वा जनकस्य महात्मनः ।न्यवेदयन्महात्मानौ पुत्रौ दशरथस्य तौ ॥ २२ ॥
सिद्धाश्रमनिवासं च राक्षसानां वधं तथा ।तच्चागमनमव्यग्रं विशालायाश्च दर्शनम् ॥ २३ ॥
अहल्यादर्शनं चैव गौतमेन समागमम् ।महाधनुषि जिज्ञासां कर्तुमागमनं तथा ॥ २४ ॥
एतत्सर्वं महातेजा जनकाय महात्मने ।निवेद्य विररामाथ विश्वामित्रो महामुनिः ॥ २५ ॥
« »