Click on words to see what they mean.

देवदेवे गते तस्मिन्सोऽङ्गुष्ठाग्रनिपीडिताम् ।कृत्वा वसुमतीं राम संवत्सरमुपासत ॥ १ ॥
अथ संवत्सरे पूर्णे सर्वलोकनमस्कृतः ।उमापतिः पशुपती राजानमिदमब्रवीत् ॥ २ ॥
प्रीतस्तेऽहं नरश्रेष्ठ करिष्यामि तव प्रियम् ।शिरसा धारयिष्यामि शैलराजसुतामहम् ॥ ३ ॥
ततो हैमवती ज्येष्ठा सर्वलोकनमस्कृता ।तदा सातिमहद्रूपं कृत्वा वेगं च दुःसहम् ।आकाशादपतद्राम शिवे शिवशिरस्युत ॥ ४ ॥
नैव सा निर्गमं लेभे जटामण्डलमोहिता ।तत्रैवाबभ्रमद्देवी संवत्सरगणान्बहून् ॥ ५ ॥
अनेन तोषितश्चासीदत्यर्थं रघुनन्दन ।विससर्ज ततो गङ्गां हरो बिन्दुसरः प्रति ॥ ६ ॥
गगनाच्छंकरशिरस्ततो धरणिमागता ।व्यसर्पत जलं तत्र तीव्रशब्दपुरस्कृतम् ॥ ७ ॥
ततो देवर्षिगन्धर्वा यक्षाः सिद्धगणास्तथा ।व्यलोकयन्त ते तत्र गगनाद्गां गतां तदा ॥ ८ ॥
विमानैर्नगराकारैर्हयैर्गजवरैस्तथा ।पारिप्लवगताश्चापि देवतास्तत्र विष्ठिताः ॥ ९ ॥
तदद्भुततमं लोके गङ्गापतनमुत्तमम् ।दिदृक्षवो देवगणाः समेयुरमितौजसः ॥ १० ॥
संपतद्भिः सुरगणैस्तेषां चाभरणौजसा ।शतादित्यमिवाभाति गगनं गततोयदम् ॥ ११ ॥
शिंशुमारोरगगणैर्मीनैरपि च चञ्चलैः ।विद्युद्भिरिव विक्षिप्तैराकाशमभवत्तदा ॥ १२ ॥
पाण्डुरैः सलिलोत्पीडैः कीर्यमाणैः सहस्रधा ।शारदाभ्रैरिवाकीर्णं गगनं हंससंप्लवैः ॥ १३ ॥
क्वचिद्द्रुततरं याति कुटिलं क्वचिदायतम् ।विनतं क्वचिदुद्धूतं क्वचिद्याति शनैः शनैः ॥ १४ ॥
सलिलेनैव सलिलं क्वचिदभ्याहतं पुनः ।मुहुरूर्ध्वपथं गत्वा पपात वसुधां पुनः ॥ १५ ॥
तच्छंकरशिरोभ्रष्टं भ्रष्टं भूमितले पुनः ।व्यरोचत तदा तोयं निर्मलं गतकल्मषम् ॥ १६ ॥
तत्रर्षिगणगन्धर्वा वसुधातलवासिनः ।भवाङ्गपतितं तोयं पवित्रमिति पस्पृशुः ॥ १७ ॥
शापात्प्रपतिता ये च गगनाद्वसुधातलम् ।कृत्वा तत्राभिषेकं ते बभूवुर्गतकल्मषाः ॥ १८ ॥
धूपपापाः पुनस्तेन तोयेनाथ सुभास्वता ।पुनराकाशमाविश्य स्वाँल्लोकान्प्रतिपेदिरे ॥ १९ ॥
मुमुदे मुदितो लोकस्तेन तोयेन भास्वता ।कृताभिषेको गङ्गायां बभूव विगतक्लमः ॥ २० ॥
भगीरथोऽपि राजर्षिर्दिव्यं स्यन्दनमास्थितः ।प्रायादग्रे महातेजास्तं गङ्गा पृष्ठतोऽन्वगात् ॥ २१ ॥
देवाः सर्षिगणाः सर्वे दैत्यदानवराक्षसाः ।गन्धर्वयक्षप्रवराः सकिंनरमहोरगाः ॥ २२ ॥
सर्वाश्चाप्सरसो राम भगीरथरथानुगाः ।गङ्गामन्वगमन्प्रीताः सर्वे जलचराश्च ये ॥ २३ ॥
यतो भगीरथो राजा ततो गङ्गा यशस्विनी ।जगाम सरितां श्रेष्ठा सर्वपापविनाशिनी ॥ २४ ॥
« »